Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
मीक्षणाभ्यां युगपदुत्सृजन्तम्, मुमुक्षुमपि मत्स्नेहेनामुक्तम्, वीतरागमपि मत्प्रियहितरतम्, निःसङ्गमपि मत्समागमोत्सुकम्, निःस्पृहमपि मदर्थसंपादनपर्याकुलम्, निर्मममप्युपारूढस्नेहम्, निरहंकारमप्यहमेवायमिति मां मन्यमानम्, समुज्झितक्लेशमपि मदर्थे क्लिश्यन्तम्, समलोष्टकाञ्चनतासुखितमपि महुःखदुःखितम्, कृतज्ञमकृतज्ञः, स्नेहलप्रकृति रुक्षचेताः, सुकृतिनमपुण्यवान्, अनुगतं वामस्वभावः, भावार्द्रहृदयमेकान्तनिष्ठुरः, मित्रं वैरी, वचनकरमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनयनपयास्तादृशोऽपि कृताभ्युद्गमनप्रयत्नः पूत्कृत्य तमवदम् - 'सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्रसंवाहनं कुर्वञ्छ्रममपनेष्यामि' इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोत्क्षिप्य -
***********
मूहमीक्षणाभ्यां लोचनाभ्यामुत्सृजन्तं त्यजन्तम् । कीदृशं जललवविसरम् । ममावलोकनं तस्माद्यदुःखं तस्मादुद्गतं प्रादुर्भूतं प्रकटीभूतम् । मोक्तुमिच्छुर्मुमुक्षुरेवंभूतमपि मत्स्नेहेन मत्रीत्याऽमुक्तमत्यक्तमखण्डितम् । वीतो गतो रागोऽनुरागो यस्मादेतादृशमपि मत्प्रिय इष्टे रतमासक्तम् । निर्गतः संगोऽन्यजनसंपर्कः परजनसंयोगो यस्य स तमेतादृशमपि मम समागमो मेलापस्तत्र तस्मिन्नुत्सुकमुत्कण्ठितम् । निर्गता स्पृहा वाञ्छा यस्मादेवंभूतमपि ममार्थो मदर्थस्तस्य संपादनाय निष्पादनकरणाय परि सामस्त्येनाकुलं व्याकुलम् । निर्मममपि निर्गतममत्वमपि ममत्वभावो नास्ति । मयि विषय उपारूढः स्थापितः स्नेहः प्रेमा येन स तम् । निर्गतोऽहंकारो गर्यो यस्मादेतादृशमप्यहमेवायं कपिञ्जल इति मन्यमानं ज्ञायमानम् । समुज्झितस्त्यक्तः क्लेशो येनैवंभूतमपि मदर्थे मत्कृतेक्लिश्यन्तं क्लेशं प्राप्नुवन्तम् । समे सदृशे तुल्ये लोष्टकाञ्चने यस्य स समलोष्टकाञ्चनस्तस्य भावस्तत्ता तया सुखितं संजातसौख्यमेवंविधमेतादृशमपि मम दुःखेन दुःखितं संजातदुःखम् । कृतं जानातीति कृतज्ञस्तं कृतज्ञमकृतज्ञः । स्नेहला प्रकृतिः स्वभावो यस्य स तं रूक्षं स्नेहवर्जितं प्रेमरहितं चेतो यस्य स तथा । सुकृतिनं सुकृतवन्तं पुण्यवन्तं न विद्यते पुण्यं यस्य सोऽपुण्यवान् । अनुगतमनुकूलं वामः प्रतिकूलो वक्रः स्वभावो यस्य सः । भावेनाध्यवसायेनाद्रमुन्नं हृदयं चेतो यस्य स तमेकान्तेन निष्ठुरः । मित्रं सुहृद् वैरी शत्रुः । वचनं करोतीति वचनकरस्तमनाश्रवोऽवचनेस्थितः । 'वचनेस्थित आश्रवः' इत्यमरः । महात्मानं महापुरुष दुरात्मा दुष्टात्मा । द्वितीयान्तं कपिजलस्य विशेषणम्, प्रथमान्तं पुण्डरीकस्येति स्वयं बोध्यम् । दृष्ट्वा च विलोक्य च निर्भर परिपूर्णं संपूर्णं गलितं नयनयोः पयो यस्य स तादृशोऽप्यसमर्थोऽपि कृतोऽभ्युद्गमे प्रत्युत्थाने प्रयत्नो येन सः । पूत्कृत्य पूत्कारं कृत्वा तं कपिजलमवदमब्रवम्, हे सखे कपिजल, एवं जन्मद्वयान्तरितदर्शनमपि भवान्तरव्यवहितावलोकनमपि त्वां दृष्ट्वा विलोक्य निरीक्ष्य सरभसं सवेगमुत्थायोत्थानं कृत्वा दूरत एव दविष्ठ एव प्रसारितं विस्तारितं भुजद्वयं बाहुद्वयं येन सः । गाढालिङ्गनेन तीव्रसंश्लेषण किं सुखमनुभविष्यामि साक्षात्प्रत्यक्षं करिष्यामि । करं हस्तं करेण पाणिना हस्तेनावलम्ब्यासनपरिग्रह विष्टरस्वीकारं किं कारयिष्यामि किं विधापयिष्यामि किं निष्पादयिष्यामि । सुखासीनस्य सुखोपविष्टस्य गात्रसंवाहनमङ्गमर्दनं कुर्वश्रमं खेदं परिश्रममपनेष्यामि दूरीकरिष्यामि । 'संवाहनं मर्दन स्यात्' इत्यमरः । इत्येवमात्मानं स्वमनुशोचन्तमेव मां कपिञ्जलः करेण पाणिनोत्क्षिप्योत्पाट्य मम विरहो वियोगस्तेन दुर्बले कृशे वक्षसि चिरमिव निवेश्य संस्थाप्यान्तर्मध्ये - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अयं पुण्डरीकोपि मदभिन्न इति मन्यमानमित्याशयः ।
-
- -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ क्लिश्यमानम्. २ सुखम्. ३ दुःखितम्. ४ रूक्षात्मा. ५ फूत्कृत्य. ६ गाढालिङ्गनसुखम्.
(शुक०पुण्ड०सह कपिञ्जलसमागमः
उत्तरभागः।
679
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246