Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 205
________________ तपरित्यागचिन्तानिमीलितं मां समुच्छासयन्निव विकासहासिना मुखेन सहसा प्रविश्य हारीतोऽभ्यधात् - 'भ्रातर्देशम्पायन, दिष्ट्या वर्धसे । पितुस्ते भगवतः श्वेतकेतोः पादमूलात्कंपिञ्जलस्त्वामेवान्विष्यन्नायात' इति । अहं तु तछ्रुत्वा तत्क्षणेनोत्पन्नपक्ष इवोत्पत्त्य तत्समीपमेव प्राप्तुमभिवाञ्छनुग्रीवावलोकी 'क्वासौ' इति तमप्राक्षम् । स त्वकथयत् - 'एष तातपादमूले वर्तते' इति । एवंवादिनं तु तमहं पुनरवदम् - ‘ययेवं ततः प्रापयतु मां तत्रैव भगवान् । उत्ताम्यति मे हृदयं तदर्शनाय' इत्येवं वदन्नेवाग्रतो गगनागमनवेगादयथास्थितजटाकलापम्, अनिलपथसंचरणचलितैकाञ्चलोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीतसनाथास्थिशेषोरस्कम्, निःशेषसुरपथावतरणश्रमोच्छसितशरीरम्, समीरणापहतमपि मरुत्पथोत्पतनखेदसंभृतम्, उदकप्रवेशान्निस्यन्दमानस्वेदमाननेन मेंदवलोकनदुःखोद्गतं च बाष्पजललवविसर - *********** परित्यागचिन्ता तया निमीलितं मुद्रितं मां विकासेन हसतीत्येवंशीलेन विकासहासिना मुखेनाननेन समुच्छासयनिवाश्चासयन्निव सहसातर्कितः प्रविश्य प्रवेशं कृत्वा हारीतकोऽभ्यधादवोचत् । किं तदित्याह - भ्रातरिति । हे भ्रातर्हे बन्धो वैशम्पायन, त्वं दिष्ट्या भाग्येन वर्धसे । ते तव भगवतो महाश्वेतकेतोः पितुः पादमूलाज्जनकचरणसमीपात्त्वामेवान्विष्यन्गवेषयन्कपिजल आयात इति । ___ अहं तच्छ्रुत्वाकर्ण्य तत्क्षणेन तत्कालेनोत्पन्नपक्ष इव संजातवाज इवोत्पत्त्योड्डीय तस्य कपिजलस्य समीपमभ्यर्णं निकटं प्राप्तुमासादयितुमभिवाञ्छन्नभिलषनुग्रीवः सबवलोकत इत्येवंशील उद्ग्रीवावलोकी क्वासाविति तं हारीतकमप्राक्षम् । स तु हारीतक एव तातस्य पादमूले वर्तत इत्यकथयदित्यभ्यधात् । एवंवादिनमेवंब्रुवाणं तु हारीतमहं पुनरवदमकथयम् । यद्येवं वर्तते ततो भगवान्मां तत्र प्रापयतु नाययतु । तद्दर्शनाय तदवलोकनाय मे मम हृदयमुत्ताम्यत्युत्पततीत्येवं वदन्नग्रतः पुरो दुरात्माहं कपिज्जलमद्राक्षं व्यलोकयमिति दूरेणान्वयः । इतः कपिञ्जलं विशिनष्टि - गगनेति । गगने व्योम्न्याकाश आगमनं यानं तस्य वेगाद्रयादयथास्थितोऽस्थानस्थितो जटाकलापो यस्य स तम् । 'जटा लग्नकचे मूले प्लक्षमासिकयोर्जटा' इति विश्वः । अनिलपथ आकाशे संचरणं संचलनं गमनं तेन चलितः कम्पित एकोऽञ्चलो वस्त्रप्रान्तो यस्यैवंभूतमुत्तरीयं संव्यानं यस्य स तम् । 'प्रच्छादनं प्रावरणं संव्यामं चोत्तरीयकम्' इति हैमः । तरूणां वृक्षाणां त्वचा कृत्वा दृढ आबद्धः परिकरो येन स तम् । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । अर्धत्रुटितं यद्यज्ञोपवीतं यज्ञसूत्रं तेन सनाथं सहितमस्थिशेष कीकसावशेषमुरो यस्य स तम् । निःशेष समग्रं यत्सुरपथमाकाशं तस्मादवतरणं तस्माद्यः श्रमः खेदस्तेनोच्छसितं शरीरं यस्य तम् । 'नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः समीरणेन वायुनापहतमपि पीडितमपि मरुत्पथे यत्पतनं तस्मायः खेदस्तेन संभृतं निचितम् । जलप्रवेशाद् व्योमगङ्गाजलान्तर्गमनादाननेन मुखेन निस्यन्दमानः क्षरन्त्स्वेदो धर्मो यस्य स तम् । किं कुर्वन्तम् । बाष्पजललवविसरं नेत्रजलकणस - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'उदकप्रवेशादिव निस्यन्दमानं स्वेदम् आननेन, बाष्पलवविसरं ईक्षणाभ्यां युगपदुत्सृजन्तम् इति प्रत्यक्षं दृष्ट्वापि अत्र बहुव्रीहिः क्रियते । अत्र 'निस्यन्दमानं स्वेदम्' इत्युचितः पाठो बोध्यः । पाठा० -१ कपिजलकः. २ तत्क्षणोत्पन्न. ३ तत्समीपं विहाय सहसैव प्राप्तुमभिवाञ्छन्; समीपं विहायसैव प्राप्तुमभिवाञ्छन्. ४ उद्धेगादव्यवस्थित. ५ संचरणविघटितचरणैकाञ्चलोत्तरीय तरुत्वचा; संचरणवेगचलितैकाञ्चलयोत्तरीयतरुत्वचा. ६ आयासित. ७ अपहृतम्. ८ उत्पन्न. ९ मद्विलोकन. १० दुःखागतम्. (678 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246