Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 204
________________ युगपदागलितशोकानन्दजन्मनयनसलिला हाकष्टशब्दानुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोत्क्षिप्यात्मपर्णशालां नीत्वा शनैः शनैःस्वशयनीयैकदेशे स्थापयित्वा प्राभातिकक्रियाकरणाय निर्ययौ । निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्योतिपतनेन देहेन पीडितान्तरात्मा चिन्ता प्राविशम् । अत्र तावदनेकभवसुकृतसहसाधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् । तद्ये नैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः समुद्धतः स्यात् । कथं वा पूर्वजन्माहितस्नेहैः सह समागमसुखमनुभूतम् । अननुभवतश्च तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । पततु यत्र तत्र क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्यजाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्तादुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवि - *********** गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हाकष्टमिति यः शब्दस्तमनुबन्धितुं शीलं यस्याः सा तथा स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथास्थलं जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापसशिशुजने संनिहितेऽपि समीपवर्तिन्यपि सति निजकरेणैवात्मपाणिनेवोत्क्षिप्योत्पाट्यात्मपर्णशाला स्वकीयतृणकुटी नीत्वा प्रापय्य शनैः शनैर्मन्दं मन्दं शयनीयस्य शय्याया एकदेशेन्यतरप्रदेशे स्थापयित्वा संस्थाप्य प्राभातिकक्रियाकरणाय प्रत्यूषविधिविधानाय निर्ययौ निरगात् । तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कृत्यानि तेष्वक्षमेणासमर्थेन तिर्यग्जातिपतनेन पक्षिजात्यन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा यस्यैवंभूतोऽहं चिन्तामार्तिं प्राविशं प्रविष्टोऽभूवम् । अत्रेति । अस्मिल्लोके तावदादावनेकभवानामसंख्यजन्मनां सुकृतसहसैः पुण्यसहसैरधिगम्यं प्राप्यमेवंविधं मानुष्यमेव मनुजत्वमेव मनुष्यत्वं दुर्लभं दुष्प्रापम् । तत्रापि मनुष्यत्वेऽप्यपरमन्यत्सकलजातिषु समग्रवर्णेषु विशिष्टं विशेषेणाधिकं ब्राहाण्यं ब्राह्मणत्वं सारमधिकतरम् । ततोऽपि ब्राह्मण्यतोऽप्यतिशयेन विशिष्टं श्रेष्ठ विशिष्टतरं किंचिदाधिक्यमासनं समीपवर्ति निकटवर्त्यमृतपदं मोक्षपदम् । 'महानन्दोऽमृतं सिद्धिः' इति हैमः । यस्मिन्नेतादृशं मुनित्वं यतित्वमधिकतरम् । तस्यापि मुनित्वस्यापि यतित्वस्यापि किमपि विशेषान्तरं किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोकस्थायित्वम् । तत्तस्मात्कारणायेनैतावतः पूर्वोक्तस्थानात्स्वदोषैर्निजदूषणैरात्मा पातितस्तेन मया सर्वाः समग्राः क्रियाः स्नानादिकास्ताभिर्विहीनेन रहितेनाधुना सांप्रतमिदानीमस्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः । स्यादिति शेषः । पूर्वजन्मनि पूर्वभवे गतजन्मन्याहितः स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् । भवतीति शेषः । तत्समागमसुखमननुभूतवतः साक्षादकृतवतश्च मे मम निष्प्रयोजनेन निरर्थकेनामुना जीवितेन परिरक्षितेन किम् । न किंचिदित्यर्थः । यत्र तत्र क्वापीदं यातनाशरीरम् । 'यातना नरकवेदना' इति हैमः । नरकदेहम् । तीव्रवेदनाक्षममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यममुनानेन दुःखस्य कष्टस्यैकभाजनेनैकपात्रेण शरीरेण । अत एतत् शरीरं परित्यजामि मुञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थितस्य दुःखितस्य विधेर्विधातुर्मनोरथोऽभिलाषः । पूर्यता परिपूर्णीभूयताम् । चेत्येवं इत्येवं प्रकारेण या जीवित - -- - टिप्प० . 1 अत्रः 'तिर्यग्रजातिपतितेन' इत्युचितः पाठः । 2 'स्यात्' इत्येव पूर्वानुषङ्गः । - - - - - - - पाटा० - १ अनुबन्धिनी पराधीनेव. २ वेदिदेशे. ३ तीर्यग्जातिपतितेन. ४ परम्. ५ तत्रापि. ६ तत्रापरत्र क्यापि यातु यत्र शरीरम्. (गोष्ठी भङ्क्त्वा जाबालेरुत्थानम् उत्तरभागः। 677

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246