Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 207
________________ मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मच्चरणावितरवदरोदीत् । तथा रुदन्तं च तं वाङ्मात्रप्रतीकारः पुनरवदम् - 'सखे कपिजल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽप्यस्पृष्ट ऍवामीभिः संसारबन्धात्मकैर्निर्वाणमार्गपरिपन्थिभिर्दोषैः । तत्किमधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय यथावृत्तं तस्य वार्ताम् । अपि कुशलं तातस्य ? स्मरति वा माम् ? दुःखितो वा मदीयेन दुःखेन ? मवृत्तान्तमाकर्ण्य किमुक्तवान् ? कुपितो न वा' इति । स त्वेवमुक्तो मया हारीतशिष्योपनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षाल्य मुखमाख्यातवान् - 'सखे, कुशलं तातस्य । अयं चास्मवृत्तान्तः प्रथमतरमेव तातेन दिव्येन चक्षुषा दृष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्वाष्पदृष्टिर्विषण्णदीनवदनं भयादनुपसर्पन्तमालोक्याहूयाज्ञापितवान् - 'वत्स कपिञ्जल, परित्यज्यतां स्वदोषशङ्का । ममैवायं - *********** प्रवेशयन्निव प्रवेशं कारयन्निव मे ममालिङ्गनसुखम् । किलेति सत्ये । तथानुभूय साक्षात्कृत्य मन्युः शोकः । 'मन्युशोकौ तु शुक्स्त्रियाम् इत्यमरः । भूयसा बहुलेन वेगेन रयेण मच्चरणौ मत्पादौ मदङ्ग्री उत्तमाने मस्तके कृत्वा इतरवत्प्राकृतजनवत् । ‘इतरः प्राकृती नीचः' इति हैमः । अरोदीद्रुदनमकार्षीत् । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तथा रुदन्तं च तथा विलपन्तं च वाङ्मात्र एव प्रतीकारः प्रतिक्रिया यस्य सः । पुनरवदमब्रुवम् । सखे कपिञ्जल, सकलक्लेशेन समग्रदुःखेन कष्टेन परिभूतस्याभिभूतस्य पराभवितस्य पापात्मनो मे ममेदं युज्यत इदं घटते यत्त्वया भवता प्रारब्धम् । रुदनमित्यर्थः । त्वं पुनर्बालोऽप्यमीभिः संसारबन्धात्मकैः संसृतिबन्धस्वरूपैर्निर्वाणमार्गस्य मोक्षमार्गस्य परिपन्थिभिः शत्रुभिर्दोषैर्दूषणैरस्पृष्ट एव । तत्तस्माद्धेतोर्मूढजनगतेन मूर्खजनाचीर्णेन वर्मना मार्गेण रुदनलक्षणेन । अधुना किम् । न किमपीत्यर्थः । उपविश्यास्थाय तावत्पूर्वमादौ यथावृत्तं यथोपनतं तथा तस्य वार्ता किंवदन्ती कथय ब्रूहि । अपि तातस्य पितुः कुशलं कल्याणम् । मां पुण्डरीकं स्मरति स्मृतिगोचरीकरोति न वा । मदीयेन मामकीनेन दुःखेन दुःखितो वा । मदृत्तान्तं मदुदन्तमाकर्ण्य श्रुत्वा किमुक्तवान्किं कथितवान् । कुपितो न वा रोपं गतो न वा इति । स तु कपिजल एवं मयोक्तः कथितः सन्हारीतस्य शिष्येण विनेयेनोपनीत आनीते समानीते पल्लवासने नवीनपत्रविष्टरे समुपविश्य मां वैशंपायनाभिधानं शुकमङ्क उत्सङ्गे क्रोडे कृत्वा हारीतोपनीतेन हारीतानीतेनाम्भसा पानीयेन जलेन मुखं वदनं प्रक्षाल्य प्रक्षालनं कृत्वा धावनं कृत्वाख्यातवान्कथितवान् । किं तदित्याह - सखे इति । हे सखे पुण्डरीक, तातस्य महाश्वेतकेतोः कुशलं वर्तते । अयं चास्मवृत्तान्त एतदुदन्तः प्रथमतरमेवादावेव तातेन जनकेन पित्रा दिव्यचक्षुषा ज्ञाननेत्रेण दृष्टोऽवलोकितो निरीक्षितः । दृष्ट्वा च तत् प्रतिक्रियायै कर्म प्रारब्धं कर्तुमारब्धम् । समारब्धे एव कर्मणि तुरगभावादश्वशापाद्विमुक्तोऽहं तातस्य जनकस्य पादमूलं चरणमूलं गतोऽस्मि । गतं च मां दूरत एवोद्धाष्पदृष्टिरुद्गताश्रुनयनो भयाद्रीतेविषण्णं विलक्ष दीनं दुःखितं वदनं मुखं यस्यैवंभूतं मामुपसर्पन्तमागच्छन्तमालोक्य निरीक्ष्याहूयाह्वानं कृत्वाज्ञापितवान्कथितवान् । हे वत्स कपि - --------------------- टिप्प० - 1 अनुपसर्पन्तम् (न अभिसरन्तम) इत्युचितम् । पाठा० - १ तु. २ मन्दात्मनः. ३ न युज्यते. ४ अमीभिः रागादिभिः. ५ अमुना. ६ यथावृत्तम्. ७ अयि. ८ न दुःखितः. ९ त्वरितोपनीतेन.. 680 - कादम्बरी।। कथायाम्-)

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246