Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 203
________________ याम्बराकाण्डकलुषं भास्वत्प्रभालोकमारब्धाः क्रमेण यथासूक्ष्मं तारकाः प्रवेष्टुम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहलः श्रोत्रहारी विहंगमानाम् । एते च निशीथिनीपरिमलशीतलाश्चलितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः । प्रभातपिशुना वायवः । प्रत्यासन्नाग्निविहारवेला' इत्यभिदधान एव गोष्ठी भक्त्वोदतिष्ठत् । अथोत्थिते भगवति जाबालौ वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्विपरिषत्कथारसाद्विस्मृतगुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठिततया विस्मयोत्फुल्लमुखी - *********** णामालोकः प्रकाशस्तस्य ततिः पङ्क्तिः । श्रेणिरित्यर्थः । 'राजितेखा ततिर्वीथिः' इति हैमः । इमाः प्रत्यक्षदृश्याः सह शेषेण वर्तते तत्सशेषम् । स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योम्न्याकाशेऽकाण्डकलुषमप्रस्तावमलिनमसमयमलिन भास्वाभालोक सूर्यदीप्तिप्रकाशं सहसदीधितिकान्ति उद्योतं तारकास्ताराः क्रमेण यथासूक्ष्मं सूक्ष्मं यथा स्यात्तथा प्रवेष्टुं प्रवेशं कर्तुमारब्धाः प्रारब्धा आरम्भं कृतवत्यः । एषोऽसौ पम्पाभिधानं सरः पम्पा नाम सरोवरं तत्र तस्मिशायिनां सुप्तानां विहंगमानां पक्षिणां श्रोत्रयोः कर्णयोर्हारी मनोहरः, प्रबोधो विनिद्रत्वं तदाशंसति कथयतीत्येवंशीलः स तथैवंविधः कोलाहलः कलकलः समुच्चरति सम्यक्प्रसरति विस्तरति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामायां परिगतो मलो यस्मात्स परिमलोऽङ्गरागस्तेन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिमलगन्धः केन शक्यो वरीतुम्' इत्यत्र परिमलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि तेषां कुसुमानां परिमलो गन्धस्तं गृह्णन्तीत्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभातं प्रत्यूषम् इति हैमः । प्रत्यासना समीपवर्तिनी निकटस्थायिनी । पदैकदेशे पदसमुदायोपचारात् अग्निशब्देनाग्निहोत्रं तत्र विहारो विहरणम् । गमनमिति यावत् । तस्य वेलावसरः प्रस्तावसमयः । 'वेला वारामवसरे' इति कोशः । इत्यभिदधान एवेतिब्रुवाण एव गोष्ठी श्रवणार्थमिलितजनसमूहात्मिकां भक्त्वा दूरीकृत्योदतिष्ठदुत्थितो बभूव । 'समज्या परिषद्गोष्ठी सभासमितिसंसदः' इत्यमरः । अथोत्थिते भगवति जाबालौ वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्गे निर्वाणमार्गेऽवस्थानमवस्थितिर्यस्या एवंविधाप्येतादृश्यपि समस्तैव सर्वापि तपस्विपरिषन्मुनिजनसभा कथाया वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता । गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा । श्रृण्वतीवाकर्णयन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा । युगपदेकवारमा - - टिप्प० - 1 अरुणा सूर्यस्याऽऽलोकराजिः तमोरूपं केशसंचयं सीमन्तयन्तीव (सीमान्त (केशपाश) रूपे परिणमयन्तीव) उल्लसतीत्यर्थः । वास्तवे तु भागद्वयविभाजितस्य केशपाशस्य मध्यवर्तिनी रेखा सीमन्तः । अत एव हि तत्र सिन्दूरारुणतास्पर्शाय तामरसपत्रारुणेति विशेषणम् । एवं सत्त्वे-तमः केशसंघात सीमन्तयन्तीति कवेरुक्तिः - तमःकेशपाशं (प्रति) सीमन्तयन्ती (सीमन्तमिवात्मानमाचरन्ती) इति यथा कथंचित्संगमनीया स्यादिति मार्मिकैर्विमृश्यम् । 2 अकाण्डे कलुषो भास्वत्प्रभालोकः ? किमिति ? 'अम्बरैककाण्डपटकलुषम् इति पाठः । ततश्च - तिमिरावशेषसहिततया अम्बरस्य (आकाशस्य) एककाण्डपट (तिरस्करिणी) वत् कलुषो (मलिनो) यः सूर्यप्रभालोकः तं तारकाः यथासूक्ष्मं प्रवेष्टुमारब्धाः । किञ्चिदन्धकारसहिते सूर्यालोके स्वल्पप्रकाश प्रथम, ततः परमधिकप्रकाशमिति क्रमेण नक्षत्राण्यदृश्यान्यभवन्नित्याशयः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ अङ्ककलुषम्; एककाण्डपटकलुषम्. २ परिमलने; परिमलम्. ३ विहरण. ४ निष्कामुकापि. ५. उत्कण्टकिततया; उत्कण्टकितकाया. प (676 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246