Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 178
________________ 'किमपरमयं तपस्वी निवेदयिष्यति ? दूरतः प्रभृत्यपसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः शिरोभिः, आविषण्णदीनैराननैः, प्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोचनाभ्याम्, मन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदितम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड, चन्द्रानन, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत, किंभूतं ते येन नांगतोऽसि ? तात चन्द्रापीड ! पीडिता ब्रवीमि न कोपादुपालभमाना - न युक्तमेतत्तव 'अम्ब, न परिलम्बं मनागपि करोमि इति तथा मे पुरः प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स, गच्छत एव ते मयाऽस्य हतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभाग्याया ममैवैतान्यपुण्यानां विलसितानि । भवन्त्यपुण्यवत्योऽपि लोके न पुनर्मया सदृशीपापकारिणी, यस्यास्त्वमेक एवमकाण्ड एवाच्छिद्य क्वापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्वैकवारम् । अम्बेत्यालपतस्ते वद - *********** किमपरमन्यदयं तपस्वी वराकः । शोच्य इचि यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपसर्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहितपत्राणां मालिकाशून्यैः संग्रहितैः शिरोभिरुत्तमाङ्गरासमन्ताद्विषण्णानि विलक्षाणि च दीनानि दुःखितानि च विषण्णानि दीनान्येवंभूतैराननैर्मुखैः, प्रयत्नेनोद्यमेन संरक्षितमश्रुमोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां, दृष्टेशो मन्मुखसमक्षं यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनाहँ तत्सर्वं भवद्भिरावेदितं कथितम् । हा इति खेदे । हे वत्स हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड । चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् । चन्द्रवच्छीतला शिशिरा प्रकृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् । लोचनानां नेत्राणामानन्दभूतः । प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं जातं येन हे तात हे पुत्र, चन्द्रापीड, त्वं नागतोऽसि नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडिताहं ब्रवीमि । न कोपात्क्रोधादुपालभमानोपालम्भं ददाना । किं कथितवतीत्याह - न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं विलम्ब मनागपि करोमीति तथा तेन प्रकारेण पुरोऽग्रे प्रतिज्ञाय प्रतिज्ञा कृत्वान्यत्रान्यस्मिन्स्थले क्वाप्येवमवस्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हतहृदयस्य हतचेतसः शङ्कयैवारेकयैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वत्सस्य पुनर्मुखावलोकनमिति वक्त्रनिरीक्षणमपि । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः । मन्दभाग्यायाः स्वल्पदैवाया ममैवापुण्यानामश्रेयसामेतानि विलसितानि विचेष्टितानि । लोकेऽपुण्यवत्योऽपि भवन्ति नार्यः । न पुनर्मया सदृशी पापकारिणी । तत्रार्थे हेतुमाह - यस्या इति । यस्या विलासवत्यास्त्वमेक एवमकाण्ड एवाप्रस्ताव एवाच्छिद्योद्दाल्य क्वाप्यनिर्वचनीयस्थले नीतोऽसि प्रापितोऽसि । दग्धवेधसा ज्वलितविधानाहं विप्रलब्धास्मि वञ्चितास्मि । 'विप्रलब्धस्तु वञ्चितः इति हैमः । हे वत्स, सुदूरस्याप्यतिदविष्ठस्यापि ते तव पादयोश्चरणयोः पतामि पतनं करोमि नमस्करोमि । एकवारं निवर्तस्व पश्चादागच्छ । अम्बेत्यालपतो - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'आविषण्णदूनः (दुःखितैः), इति पाठः । 2 'किंभूतं ते येन नागतोसि । इति पृथग्वाक्यम् । 'तात चन्द्रापीड पीडिता ब्रवीमि न कोपाद्' इत्यादि पृथग्वाक्यम् । 3 'अपुण्यवत्योऽपि भवन्तु, न पुनर्मया सदृशी' इति पाठः । - - - - - - - - - - - - - - - - - - - पाठा० - १ परतरम्. २ अकृत; अनुद्गत. ३ दुःखिताभ्याम्. ४ मन्मुखसमवधारणेन. ५ आयासि; आयातोऽसि. ६ अपुण्यवन्त्यः. ७ अवच्छिय. ८ दूरं गतस्यापि. अशुभमनुमाय तस्या विलापः उत्तरभागः।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246