Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
पयैर्दिवसैः परापतामः' इति मुहुर्मुहुस्तुरंगमारोपितं त्वरितकमाहूय पृच्छन्नविच्छिन्नकैः प्रयाणकैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहणदुः स्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्ता - न्वेषणाय त्वरितकेन सार्धं प्रहितवान् ।
अथ तैः सार्धमागच्छन्तम्, उज्झितात्मसंस्कारमैलिनकृशशरीरम्, अवनितलनिवेशितोत्तमाङ्गम्, उद्बाष्पदीनतरदृष्टिम्, जीवितलज्जया रसातलमिव प्रवेष्टुमीहमानम्, अहमहमिकया परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम्, अक्षत - मपि हतमिव, सपरिच्छदमपि मुषितमिव, जीवन्तमपि मृतमिव, ससंभ्रमकृतागमनमपि प्रतीपमाकृष्यमाणचरणमिव, अङ्गैरेव सह गलितोत्साहम्, चोपेनैव सह मुक्तात्मानम्, वैक्लव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सकलमेव चन्द्रापीडचरणतलनिबद्धजीवितं राजपुत्रलोकमालोक्योलैसितनयनः शोकोर्मिवेगाक्रान्तोप्युच्छसित इव दृढीभूतचन्द्रापीडदेहाविनाशप्रत्ययेनान्तरात्मना निवृत्य सावरणपर्याणवर्तिनीं विलासवतीमवादीत् - 'देवि, दिष्ट्या वर्धसे । ध्रियते सत्यमेव शरीरेण वत्सः । येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति ।
***
कियति मार्गे वयं स्मः, कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरितकनामानं सेवकमाहूयाह्वानं कृत्वामन्त्रणं विधाय पृच्छन्प्रश्नं कुर्वन्नविच्छिन्नकैर्निरन्तरैरन्तररहितैः प्रयाणकैर्गमनैर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विकल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमवस्थानं तेन दुःस्थितेन दुःखितेनैवंविधेनान्तरात्मनान्तःकरणेन दूरस्थितो दविष्ठस्थितः प्रथममादावाप्ततमानतिशयेन यथार्थोपदेष्टृनश्ववारान्सादिनो वार्तान्वेषणाय वृत्तान्तज्ञप्त्यर्थं त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् ।
अथेति । तैः पूर्वप्रेषितैः सार्धं समागच्छन्तमायान्तमुज्झितस्त्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् । मलिनं कश्मलं कृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्तमाङ्गानि शिरांसि येन स तम् । उद्वाष्पेणोद्गतनेत्राश्रुणा दीनतरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिव पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् । अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपा । ' अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ' इत्यमरः । परस्परमन्योन्यमावरणमाच्छादनं तेनात्मदर्शनं स्वावलोकनमभिरक्षन्तं रक्षां कुर्वन्तम्, अक्षतमप्यखण्डमपि हतमिव कृतक्षतमिव, सपरिच्छदपि सपरिवारमपि सपरिस्कन्दमपि मुषितमिव लुण्ठितमिव, जीवन्तमप्यसुमन्तमपि मृतमिवोपरतमिव, ससंभ्रमं सादरं दरेण भयेन सहितं सभयं वा कृतं विहितमागमनं येनैवंविधमपि प्रतीषं विलोमम् । पश्चादिति यावत् । आकृष्यमाणौ चरणौ यस्य स तम् । सहाङ्गैरेव गलितश्च्युत उत्साहो यस्य स तम् । चापेन धनुषा सह मुक्तस्त्यक्त आत्मा येन स तम् । वैक्लव्येनैव विह्वलत्वेनैव सहोपसर्पन्तं गच्छन्तम्, मेघनादः पुरः सरोऽग्रगामी यस्य स तम् । सकलमेव समस्तमेव चन्द्रापीडस्य चरणतलं तत्र निबद्धं स्थापितं जीवितं येन स तम् । एवंविधं राजपुत्रलोकं नृपसुतजनमालोक्य वीक्ष्योल्लसिते नयने लोचने यस्य सः । शोकस्य शोचनस्योर्मयस्तरंगाः कल्लोलास्तेषां वेगो रयस्तेनाक्रान्तोऽपि व्याप्तोऽप्युच्छसित इवोल्लसित इव दृढीभूतः कठिनीभूतो निश्चितश्चन्द्रापीडदेहस्याविनाशप्रत्ययो यस्यैवंभूतेनान्तरात्मना निवृत्य सावरणं यत्पर्याणं पल्ययनं तत्र वर्तिनीं विलासवतीमवादीत् । किं तदित्याह - हे देवि, त्वं दिष्ट्या भाग्येनादृष्टेन वर्धस एधसे । येन कारणेन वत्सः सत्यमेव शरीरेण ध्रियते धार्यते । येन हेतुना सकल एव समग्र एवायं तस्य वत्सस्य चरणकमलं पादसरोजमनुजीवतीत्येवंशीलो राजपुत्रलोको नृपसुतजनस्तस्य चन्द्रापीडस्य चरणलाइ । टिप्प० 1 उद्बाष्पा दीनतरा च दृष्टिर्यस्य तमित्यर्थो योग्यः । 2 आगच्छन्तमित्यर्थो योग्यः ।
पाठा० - १ आहूयाहूय. २ अविच्छिन्नैश्च. ३ सह. ४ मलिनीकृत. ५ बाष्पेण. ६ नवीन. ७ तनय.
664
कादम्बरी ।
कथायाम्
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246