Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
च्छिद्यत एव कृतान्तेन, तद्यदि पाने क्वचिदपि स्थापयित्वा निजपदं जरापरिभुक्तायुःशेषेण निष्प्रयोजनस्थितिना सर्वसुखबाह्येन मांसपिण्डेन परलोकसुखान्युपाय॑न्ते, लाभ एवायम् । तदस्य वस्तुनः कृते भवन्तो मया प्रत्यर्थिताः' -
इत्युक्त्वा संनिहितान्यपि परित्यज्योचितानि सर्वसुखान्यनुचितान्यङ्गीकृत्य वैन्यानि । तथा हि - हHबुद्धिं वृक्षमूलेषु, अन्तःपुरस्त्रीप्रीतिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरुचिं चीरवल्कलेषु, कुन्तलरचनाभियोगं जटासु, आहारहार्द कन्दमूलफलेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु, प्रजापरिपालनशक्ति समित्कुशकुसुमेषु, नालापं धर्मसंकथासु, समररसमुपशमे, जयेच्छां परत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं तरुषु संक्रमय्य, यास्तपस्विजनोचिताः क्रियाः कुर्वन्, गन्धर्वलोकोचितानहरहरुपचारान्कादम्बर्या कथमपि समुत्सृष्टलज्जया महावेतया च क्रियमाणाननिच्छन्, अविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन च तत्रैवातिष्ठत् ।"
***********
यमेनाच्छिद्यत एवाकृष्यत एव । तत्ततो यदि पात्र आप्ते क्वचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन, निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन, सर्वसुखात्समग्रसौख्याबाह्येन बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविकसौख्यान्युपाय॑न्त उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य बस्तुनः कृते भवन्तो मया प्रार्थिता अभ्यर्थिताः।
इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वानुचितान्ययोग्यानि अनर्हाणि वन्यानि वनसंबन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव दर्शयति - तथाहीति । तस्य राज्ञो हर्म्यबुद्धिं गृहधियं वृक्षमूलेषु पादपबुध्नेषु, अन्तःपुरस्त्रीप्रीतिमवरोधस्त्रीस्नेहं लतासु वल्लीषु, संस्तुतजनस्नेहं परिचितजनप्रीतिं हरिणेषु कुरङ्गेषु, निवसनरुचिं वस्त्राभिलाषं चीरवल्कलेषु, कुन्तलरचनाया अभियोगमुद्यमं जटासु, आहारहार्द भोजनप्रेमाभिप्रायो वा कन्दश्च मूलं च फलानि च कन्दमूलफलानि तेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु जपमालिकासु, प्रजापरिपालनशक्ति समिध एधासि कुशा दर्भाः कुसुमानि पुष्पाणि तेषु, नर्मालापं क्रीडालापं हास्यालापं धर्मसंकथासु सुकृतप्रबन्धेषु, समररसं सङ्ग्रामरसं युद्धरसमुपशमे शान्तरसे, जयेच्छां जयस्पृहां परत्र लोके परलोके, कोशस्पृहां धनभाण्डागारवाञ्छां तपसि व्रते, आज्ञामनुशासनं मौनेऽभाषणे, सर्वः समग्रः सकलो य उपभोगोऽङ्गनादिकस्तत्र रागं च वैराग्ये विरक्ततायाम्, तनयस्नेहं पुत्रप्रेम सूनुस्नेहं तरुषु वृक्षेषु संक्रमय्य संक्रमणं कृत्वा, यास्तपस्विजनोचितास्तपस्विजनयोग्याः क्रिया अनुष्ठानविशेषाः कुर्वन्विदधन्गन्धर्वलोकस्योचितान्योग्यानहरहः प्रतिदिनं कथंकथमपि महता कष्टेन समुत्सृष्टलज्जया त्यक्तत्रपया विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधीयमानानुपचारान्भक्तिप्रकाराननिच्छन्नवाञ्छननभिलषन्नविच्छेदादव्यवधानात्सायं प्रातश्चानुभूतं चन्द्रापीडदर्शनसुखं येनैवंभूतो नरपतिस्तारापीडो दुःखान्यगणयनजानन्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्थलेस्थानेऽतिष्ठत् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'याः' इत्यपपाठः, तत्पदसापेक्षत्वात् । तस्मात् 'तथा तपस्विजनोचिताः क्रियाः कुर्वन्' इत्युचितः पाठः 1 2 'विशेषान् इति द्वितीया योग्या । 3 'समुत्सृष्टलज्जया' इति विशेषणं केवलं महाचेताया एव, 'हा हतास्मी त्यादिना तस्या एव गुहाप्रवेशस्य वर्णितत्वात् ।
पाठा० - १ मुक्तशेषेण. २ शरीरकेण. ३ तस्य. ४ प्रार्थनीयाः. ५ उपयोगसुखानि. ६ च वन्यानि तपोवनदुःखानि च. ७ तत्र. ८ अक्षसूत्रे. ९ परलोके. १० यथा; तथा.
10
तारापीडस्य परिशमः
उत्तरभागः।
(671)
Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246