Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
इत्येवं च कथयित्वा भगवाञ्जाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वानेव तापसाञ्छ्रावकानवादीत् - 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसामर्थ्यम्, यत्कथयितुं प्रवृतोऽस्मि तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । तद्यः स कामोपहतचेताः स्वयंकृतादेवाविनयाद्दिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायननामा शुकनाससूनुरभवत्, स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महाश्वेताकृताच्च सत्याधिष्ठानादस्यां शुकजातौ पतितः
इत्येवं वदत्येव भगवति जाबालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एव विद्या जिह्वाग्रे - भवन् । सकलासु च कलासु कौशलमुपजातम् । उपदेशाय मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती च संवृत्ता । विज्ञानं च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना । मनुष्यशरीरादृते सर्वमन्यत्तत्क्षणमेव मे (संवृत्तम् ।) वैशम्पायनस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव कॉमपरवशता, स एव महाश्वेतायामनुरागः, -
***********
इत्येवं च कथयित्वाख्याय भगवाजाबालिर्जराया अभिभवेन विससापराभवेन विच्छायं वैलक्ष्यं स्मितं हास्यं कृत्वा हारीतकप्रमुखान्, सर्वानेव तापसाश्रावकानवादीदब्रवीत् । आयुष्मद्भिरिदमन्तःकरणं मनोऽपहरतीत्येवंशीलः स तथा तस्य कथायाः प्रबन्धस्य रसस्तस्याक्षेप आकर्षस्तस्य सामर्थ्य बलं दृष्टम् । यदिति हेत्वर्थे । कथयितुं वक्तुं प्रवृत्तो वक्तुमुधुक्तोऽस्मि । तत्परित्यज्यैव विहायैव कथारसात्कथयन्ब्रुवन्नतिदूरमतिदविष्ठमतिक्रान्तोऽतिवाहितोऽस्मि । तत्तस्मात्कारणाद्यः कामेन कंदर्पणोपहतं पीडितं चेतो यस्य सः स्वयंकृतादेव स्वाचीदिवाविनयाप्रातिकूल्यादिव्यलोकतः सुरसद्मतः परिभ्रश्यन्निपतन्मर्त्यलोके मनुष्यलोके वैशम्पायननामा शुकनाससूनुरभवत् । स एवैष वैशम्पायनः . स्वयंकृतेनात्मना विहितेनाविनयेन कोपितस्य रोषितस्य पितुर्जनकस्याक्रोशादाक्षेपात्कठिनवचनान्महाश्वेता गन्धर्वपुत्री तया कृताद्विहिताच्च सत्यं सूनृतमेवाधिष्ठानमाश्रयो यस्यैवंभूताच्छापाच्चास्यां शुकजातौ पतितः सस्तः । अवतीर्ण इत्यर्थः ।
इत्येवं वदति ब्रुवत्येव भगवति जाबालौ बाल्येऽपि शैशवेऽपि सुप्तः शयितः पश्चाप्रबुद्धो जागरितस्तस्येव पूर्वजन्मनि भवान्तर उपात्ता गृहीताः समस्ताः समग्रा एव विद्याः सकला एव विद्याश्चतुर्दश जिह्वाग्रे रसनाग्रेऽभवन्बभूवुः । सकलासु समग्रासु च कलासु विज्ञानेषु कौशलं दक्षत्वमुपजातं संभूतम् । उपदेशाय कथनाय मनुजस्येव मनुष्यस्येव चेयं विस्पष्टवर्णाभिधाना प्रकटवर्णाभिधाना प्रकटाक्षरनाम्नी भारती सरस्वती च संवृत्ता संजाता । सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना कथितेन । मनुष्यशरीरादृते मनुष्यशरीरं विहाय नरविग्रहं त्यक्त्वान्यदपरं सर्वमेव तत्क्षणमेव तत्समयमेव वैशम्पायनस्योपनतम् । स एव चन्द्रापीडस्योपरि स्नेहश्चन्द्रापीडस्योपरि प्रेम, सैव पूर्वानुभूतैव कामपरवशता मदनायत्तता कंदर्पपरवशता, स एव पूर्वप्रतिपादित एव - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 विगता छाया कान्तिर्यस्य तादृशम् । 2 शुकनासस्य, दृश्यतां चन्द्रापीडोपगमे शुकनासस्य कोपावेशो यस्तारापीडेनोपशमितः । 3 'सत्याभिध्यानात्' इत्येव पाठः । सत्यमभभिध्यानं च 'हे भगवन्, यदि मया देवस्य पुण्डरीकस्य दर्शनाप्रभृति मनसा नापरः पुमांश्चिन्तितस्तदाऽयमलीककामी मदुदीरितायामेव जातौ पततु' इति पूर्वोक्तम् । 4 प्रकटाक्षरेति न तस्या नाम ! प्रकटाक्षरम् (सुस्पष्टानि अक्षराणि यस्मिन्) अभिधानं कथनं यस्यामीदृशी (वाणी) इत्यर्थः । 5 'सर्वमन्यत्तत्क्षणमेव मे संवृत्तम्' इत्युचितः पाठः ।
पाठा० - १ एवम्. २ जाबालिः. ३ तान्. ४ तदयं सः. ५ अभूत; उत्पन्नः. ६ स एव; स एष. ७ सत्याभिध्यानात्. ८ उपदेशकौशलम्. ९ मनुजस्येव. १० इयं. ११ संपना. १२ बहुबस्तु; यत्सर्ववस्तु. १३ वैशम्पायनस्यैव. १४ कामपरता.
(672
कादम्बरी।
कथायाम
Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246