Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्ट्या चिरमिवालोक्य तनयनिर्विशेष राजपुत्रलोकर्मविच्छिन्नाश्रुधारापि धैर्यमुन्मुच्योच्चैरारटितवती - ‘हा वत्स, कथं सहपांसुक्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति । तथा रटन्तीं तु तां समाश्चास्य, दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोतमाशं मेघनादम् ‘इतो ढौकस्व' इत्यादिश्योद्दिश्याप्राक्षीत् - 'मेघनाद, कथय को वृत्तान्तो वत्सस्य' इति । स तु व्यज्ञापयत् - 'देव, चेतनाविरहाच्चेष्टामात्रकमेवापगतम्, शरीरे पुनर्जायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजायते इति । राजा तु तछ्रुत्वा जीवितप्रतिलम्भे समुपजातप्रत्याशः 'श्रुतं देव्या मेघनादस्य वचनम्, तदेहि, चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम्, पश्यामो वत्सस्य वदनम् इत्यभिदधान एवाभिवर्धितगतिविशेषया करेवा महाश्वेताश्रममगमत् । अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरः प्रकीर्णतारमुक्तानुकारिनयनबिन्दुस -
*********** सा त्विति । सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरेणैवोत्सारितमूर्चीकृतमावरणसिचयस्याच्छादनस्य वस्त्रस्याञ्चलं प्रान्तं यया सा । 'सिचयो वसनं चीराच्छादौ सिक्वेलवाससि । पटप्रान्ताञ्चलस्यान्ते' इति हैमः । निश्चलया निर्निमेषया मेषोन्मेषरहितया दृष्ट्या दृशा चिरमिव बहुकालसदृशं तनयनिर्विशेष यथा स्यात्तथालोक्य निरीक्ष्याविच्छिन्नाऽत्रुटिताऽश्रुधारा यस्यामेवंविधापि धैर्यं साहसमुन्मुच्य संत्यज्योच्चैर्गाढस्वरेणात्यर्थमारटितवती रोदनं कृतवती, तदेव दर्शयन्नाह - हा इति । हा इति खेदे । हे वत्स हे पुत्र हे सुत, कथं सहपांसुक्रीडितस्य साधू रजःकालितस्यैतावत इयतो राजपुत्रलोकस्य नृपसुतजनस्य मध्येऽन्तरा त्वमेव भवानेवैको न दृश्यसे त्वत्सदृशो न दृश्यसे न दृग्विषयीभवसि इत्यमुना प्रकारेणानेकप्रकारेण तथा रटन्तीं रुदन्तीं तु तां विलासवतीं समाधास्यावासनां कृत्वा राजा तारापीडो दूरत एव दविष्ठ एव दूरस्थ एव सर्वलोकेन समं सर्वजनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढौकस्वेति आनीहीत्यादिश्येत्युक्त्वोद्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षीदपृच्छत् । तदेव दर्शयन्नाह - मेघेति । हे मेघनाद, कथय ब्रूहि वत्सस्य पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो व्यज्ञापयद्विज्ञप्तिमकार्षीत् । हे देव हे स्वामिन, चेतनाविरहाज्ज्ञानाभावादज्ञानभावाच्चेष्टामात्रकमेव केवलं चलनादिक्रियामानं शरीरे देहें पुनरपगतं निवृत्तं ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः प्रचुरद्युतिः समुपजायते समुत्पद्यत इति । राजा तु तच्छ्रुत्वा तदाकर्ण्य जीवितप्रतिलम्भे जीवितप्राप्तौ समुपजाता प्रत्याशा स्पृहा यस्य स मेघनादस्य वचनं देव्या श्रुतमाकर्णितम् । तदेहि । चिराच्चिरकालेन प्रचुरकालेन पुनरात्मानं दर्शनेनावलोकनेन निरीक्षणेन कृतार्थयामः कृतार्थीकुर्मः । वत्सस्य वदनं पश्याम इत्यभिदधान एवेति कथयन्नेवेति वदन्नेवाभिवर्धितो वृद्धि प्रापितो गतिविशेषो यस्याः सा तया करेण्वा हस्तिन्या कृत्वा । तामारुह्येत्यर्थः । महाश्वेताश्रममगमत् । __ अथेति । तद्गमनानन्तरं सहसैवाकस्मादेव तच्चन्द्रापीडस्य गुरुजनस्य मातृपितृजनस्यागमनमाकर्ण्य श्रुत्वा पुरः प्रकीर्णा विक्षिप्तास्तारा उज्ज्वलानि यानि मुक्ताफलानि ता अनुकरोतीत्येवंशीलः प्रकीर्णतारमुक्तानुकार्येवं - - - - - -- - - - - - - - टिप्प०-1 'यस्याः' इत्युचितम् । 2 मार्गे गच्छतः । सर्वे दृश्यन्ते, त्वमेवैको न दृश्यसे, इत्येवार्थः । 3 ढौकस्व आगच्छ। 4 उद्दिश्येति पाठो भ्रष्टैः परिगृहीत एव । 5 चेष्टामात्रकमेवाऽपगतम्, शरीरे दिवसे दिवसेऽभ्यधिका कान्तिः समुपजायते इति ज्ञायते । अयमन्चयो योग्यः । 6 प्रकीर्णानि इत्यादि क्लीबत्वं वाच्यम्, लेखकदोषाद् अत्र प्रमादो दृश्यते ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विलोक्य. २ अवच्छिन्न. ३ उद्दिश्योद्दिश्य; इत्यादिश्य. ४ व्यज्ञपयत्. ५ पुनः. ६ संदोहम्.
अच्छोदतीरे मेघनादस्याभिगमनम्
उत्तरभागः।
1665
Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246