Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावदहमनेनानेकप्रकारं खलीकारदानैकपण्डितेन दग्धवेधसा परं दग्धव्या' इत्यभिदधानैव धावित्वा हिया महाश्वेता गुहाभ्यन्तरमविशत् । चित्ररथतनयापि सत्वरोपसृतसखीकदम्बकावलम्बितशरीरा तूष्णीमेव मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्बित शरीरो राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरः प्रधावितोत्प्लुतायततरदृष्टिः 'क्व मे वत्सः' इति पृच्छन्ती विलासवती । प्रविश्य च सैह तयैव कान्त्याऽविरहितमुपरतसर्वप्रयत्नं सुप्तमिव तं पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीडस्तावद्विलासवती विधारयन्तीं मनोरमामप्याक्षिप्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः प्रसवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिराद्दृष्टोऽसि, देहि मे प्रतिवचनम् । आलोकय सकृदपि माम्, अनुचितं तात तवैतदवस्थानम् । उत्थायाकोपगमनेन मे संपादय तनयोचितं स्नेहम् । न चौनाकर्णितपूर्वं बाल्येऽपि त्वया मद्वचनम्, अद्य किमेवं विलपन्त्या
1
विधो नयनबिन्दुर्लोचनबिन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी । मन्दं स्वल्पं पुण्यं यस्याः सा । पुनः कीदृशी । दुःखमेकं केवलं भजतीत्येवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव । विस्मृतं विस्मरणतां गतं मरणं मृत्युर्यस्याः सा । कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेकप्रकारं यथा स्यात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डितेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया । इत्यभिदधानैवेति कथयन्त्येव हिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्तरमविशद्दरीमध्यमाविवेश । चित्ररथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखीकदम्बकं तेनावलम्बितं स्तम्भितं शरीरं यस्याः सा तूष्णीमेव मौनमेव मोहन्धकारमाविशन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्बर्योर्द्वयोः सत्योः, शुकनासेनावलम्बितं धृतं शरीरं यस्यैवंभूतो राजाश्रमपदं विवेश प्राविशठप्रवेशं चकार । तदनु पश्चान्मनोरमयावलम्बिता, पुरोऽग्रे प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः सा व मम वत्स इति पृच्छन्ती प्रश्नयन्ती विलासवती तयैव मनोरमयैव सह प्रविश्य च प्रवेशं कृत्यैव सहजया स्वाभाविकया कान्त्याऽविरहितं दीप्त्या सहितं (कान्त्या सहित) मुपरतो निवृत्तः सर्वः प्रयत्न उद्यमो यस्मात्स तम् । अत एवोटप्रेक्षते । सुप्तमिव कृतनिद्रमिव निद्रावशमिव पुत्रे सुते नौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन्न परापतत्येव पश्चादागच्छत्येव तारापीडस्तावद्विलासवती विधारयन्तीं देहावष्टम्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत एव दविष्ठत एव प्रसारितं विस्तारितं बाहुलताद्वयं भुजवलीयुग्मं यया सा रयेण वेगेनोन्मुक्तात एव प्रान्ते जर्जराः शिथिलास्ताभिर्नयनयोर्जलधाराभिरश्रुसंतानैः प्रसवेण स्तनोद्गतदुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती सेचनं कुर्वन्ती जात हे पुत्र हे वत्स, एह्येह्यागच्छागच्छ । हे दुर्लभक हे दुष्प्राप, चिराच्चिरकालाद्बहुकालेन दृष्टोऽस्यवलोकितोऽसि निरीक्षितोऽसि । मे मम प्रतिवचनं प्रत्युत्तरं देहि । मां सकृदपि चैकवारमप्यालोकय दृग्विषयीकुरु दृष्ट्यावलोकनं कुरु । हे तात हे पिर्तः, तवैतदवस्थानमनुचितमन्याय्यम् । उत्थायोत्थानं कृत्वाङ्के क्रोडे उत्सङ्गे यदुपगमनं तेन मे मम तनयोचितं पुत्रन्याय्यं तनययोग्यं स्नेहं प्रेम संपादय विधेहि । बाल्येऽपि बाल्यावस्थायामपि त्वया भवता मद्वचनं मातृवचो न चानाकर्णितपूर्वं न चाश्रुतपूर्वम् । अद्य किं जातम् । एव -
टिप्प० - 1 ‘प्रविश्य च सहजयैव कान्त्याऽविरहितम्' इत्येव पाठः । 2 निवृत्तसर्वचेष्टमित्यर्थः । 3 उन्मुक्ताः अत एव इति शुद्धं बोध्यम् । 4 मन्ये, 'तातः पितरि पुत्रे च' इत्युक्त्याऽत्र तातशब्दस्य पुत्रार्थबोधकत्वम् ।
पाटा० - १ प्रकार. २ गृहा. ३ सहजया. ४ पुस्तमयमिव; प्रस्तरमयमिव ५ पुत्रवत्सलः ६ अनाक्रमितपूर्वम्; अनवकर्णितपूर्वम्.
666
कादम्बरी)
-
कथायाम
Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246