Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
अपि च शृणोषि ? जात, केन रोषितोऽसि ? एषा तोषयामि वत्सं पादयोर्निपत्य । पुत्र चन्द्रापीड, प्रणम तावत्प्रत्युद्गम्य त्वत्स्नेहादेवातिदूरमागतस्यापि पितुः पादौ । क्व सा गता ते गुरुभक्तिः ? क्व ते गुणाः ? क्व स स्नेहः ? क्व सा धर्मज्ञता ? क्व तत्पितृपक्षपातित्वम् ? क्व सा बन्धुप्रीतिः ? क्व सा परिजनवत्सलता ? कथमभाग्यैर्मे सर्वमेकपद एवोत्सृज्यैवमौदासीन्यमवलम्ब्यावस्थितोऽसि । अथवा यथा ते सुखं तथा तिष्ठ । वैयमुदासीनहृदयास्त्वयि' इति कृतार्तप्रलापा समुपसृत्य पुनः पुनर्गाढमालिङ्ग्याङ्गानि, शिरः समाघ्राय, कपोलौ चुम्बित्वा, चन्द्रापीडस्य चरणावुत्तामाङ्गे कृत्वोन्मुक्तकण्ठमरोदीत् ।
तथा रुदन्तीं तु तामन्तरितनिजपीडस्तारापीडश्चन्द्रापीडमपरिष्वज्यैव सर्वप्रजापीडापहरणक्षमाभ्यां भुजाभ्यामवलम्ब्याब्रवीत् - ‘देवि, यैद्यथाऽऽवयोः सुकृतैरपत्यतामुपगतस्तथापि देवतामूर्तिरेवायमशोचनीयः । तन्मुच्यतामयमिदानीं मैनुष्यलोकोचितः शोचितव्यवृत्तान्तः । अस्मिञ्छोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति, रटतो न हृदयम् ।
****
ममुना प्रकारेण विलपन्त्या प्रलपन्त्या अपि न शृणोषि नाकर्णयसि । हे जात, केन रोषितः क्रोधं प्रापितोऽस्यसूयां प्रापितोऽसि । एषा विलासवती पादयोश्चरणयोर्निपत्य निपतनं कृत्वा प्रणामं कृत्वा वत्सं पुत्रं तोषयामि संतोषयामि तुष्टिमुत्पादयामि । हे पुत्र हे वत्स हे सूनो चन्द्रापीड, प्रत्युद्गम्य संमुखमागम्याभिमुखमागत्य तावदादौ त्वत्स्नेहात्तव प्रेम्णस्त्वत्प्रीतेरेवातिदूरमागतस्यातिदविष्ठमागतस्य पितुस्तारापीडस्य पादौ चरणौ प्रणम नमस्कुरु । सा ते तव गुरुभक्तिः पितर्याराध्यत्वेन ज्ञानं श्रद्धा वा वासना वा क्व गता कुत्र याता । ते तव गुणा भवद्गुणाः शौर्यादयः क्व । स प्राक्तनः स्नेहः प्रेम क्व । सानिर्वचनीया वक्तुमशक्या धर्मज्ञता वृषवेत्तृता धर्मज्ञातृता क्व । तत्सर्वप्रसिद्धं पितृपक्षपातित्वं क्व जनकमताश्रयित्वं क्व । सा बन्धुप्रीतिः क्व स्वजनेषु स्नेहः क्व स्वजनेषु प्रेम क्व । सा परिजने परिच्छदे वत्सलता हितकारिता क्व । ममाभाग्यैर्दुर्देवैर्मे ममैकपद एव सर्वमुत्सृज्यैव त्यक्त्वैव कथमौदासीन्यं माध्यस्थ्यमवलम्ब्यालम्बनीकृत्यावस्थितोऽसि । अथवेति पक्षान्तरे । यथा ते तव सुखं तथा तेन प्रकारेण तिष्ठावस्थानं कुरु । वयं तूदासीनमुदासतां गतं हृदयं चेतो येषां ते तथोक्तास्त्वयि विषये । इति कृत आर्तप्रलापो यया सैवंविधा विलासवती समुपसृत्य समीपे गत्वा पुनः पुनर्वारंवारमङ्गानि हस्तादीनि गाढं दृढमालिङ्ग्याश्लिष्य शिर उत्तमाङ्गं समाघ्रायाघ्राणं कृत्वा कपोलौ प्रसिद्धौ चुम्बित्वा चुम्बनं कृत्वा चन्द्रापीडस्य चरणौ पादावुत्तमाङ्गे शिरसि कृत्वोन्मुक्तकण्ठं यथा स्यात्तथारोदीद्रुदनं चकार ।
तथाप्रकारेण रुदन्तीं तु तामन्तरिता व्यवहिता निजपीडा येन स एवंभूतस्तारापीडश्चन्द्रापीडमपरिष्वज्यैवानालिङ्ग्यैव सर्वप्रजायाः समग्रलोकस्य सर्वप्रकृतेः सकलजनस्य पीडार्तिस्तस्या अपहरणे दूरीकरणे क्षमाभ्यां समर्थाभ्यां भुजाभ्यां बाहुभ्यामवलम्ब्यालम्बनीकृत्याब्रवीदभ्यधादवोचत् । किं तदित्याह - देवेति । हे देवि, यदिति हेत्वर्थे । यथा येन प्रकारेणावयोस्तारापीडविलासवत्योः सुकृतैः पुण्यैरपत्यतां प्रसूतितामुपगतः प्राप्तः । 'सुकृती पुण्यवान्धन्यः' इति कोशः । तथाप्ययं देवतामूर्तिरेव देवस्वरूप एवाशोचनीयो न शोचनीयः शुचं कर्तुमयोग्यः । तत्तस्माद्धेतोरिदानीं सांप्रतमयं मुच्यतां त्यज्यताम् मनुष्यलोकस्योचितो योग्यः शोचितव्यवृत्तान्तः
टिप्पo - 1 यस्य, स्वां पीडामगणयन्नित्यर्थः । 2 ' यद्यप्यावयोः सुकृतैरपत्यतामुपगतः' इति पाठो मनोरमः ।
पाटा० - १ औदासीन्य; अनुदासीन. २ दोर्भ्याम् ३ यद्यप्यावयोः ४ उपगतोऽपत्यताम् ५ तन्मुच्यताम् ६ मनुष्यस्नेहोचितशोचितव्यवृत्तान्तस्य; मनुष्यलोकोचितः परिशोचितव्यवृत्तान्त. ७ न शोके कृते.
विलासवत्याः शोकः
उत्तरभागः ।
667
Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246