Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 195
________________ निरर्थक प्रलपितमेव नियति वदनान जीवितम् । निरासङ्गं नयनजलमेव पतति न शरीरम् । अपि च वत्सस्यादर्शनमात्रमेवावयोः पीडाकरम् । तच्चैवमालोक्यमाने मुखेऽस्य दूरापेतम् । अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भ कृत्वा मनोरमा शुकनासश्च संधारणीयौ ययोर्लोकान्तरितो वैशम्पायनः । तिष्ठतां तावदेतावपि । यस्याः प्रभावापुनरनुभवनीयो वैत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवैवं गन्धर्वराजतनया वधूस्तेऽस्मदागमनशोकोर्मिसंक्रान्तिमूढा सनामग्रहणमुन्मुक्ताक्रन्दाभिः प्रियसखीभिह्यमाणाऽद्यापि संज्ञा न प्रतिलभते । तदेनां तावदुत्थाप्याङ्के कृत्वा चेतना लम्भय । ततो यथेच्छं रोदिष्यसि । इत्यभिहिता राज्ञा विलासवती - 'क्व सा मे वत्सस्य जीवितनिबन्धनं वधूः' इत्यभिदधत्येव ससंभ्रममुपसृत्याप्रतिपन्नसंज्ञामेवाकेनादाय, कादम्बरी करेण, मूछनिमीलनाहितद्विगुणतरनयनशोभं वदनमालोक्य, अनवरतनयनसलिलस्नानामिन्दुशकलशीतलं स्वकपोलं कपोलयोः, ललाटे ललाटम्, लोचनयोश्च लोचने निवेशयन्ती, चन्द्रापीडस्पर्शशिशिरेण च पाणिना - *********** शोचनार्हः शोचितव्यस्तस्य वृत्तान्त उदन्तः । अस्माकं शोके कृते न किंचिदपि भवति नाधिकं किमपि जायते । केवलं रटतो रुदतो गल एव निगरण एव स्फुटति स्फोटं प्राप्नोति न हृदयम् । वदनान्मुखान्निरर्थं व्यर्थं प्रलपितं जल्पितमेव निर्याति बहिरायाति न जीवितं न प्राणितम् । निरासङ्गं निःसंबन्धं नयनजलमेवाश्रुपानीयमेव पतति संसते न शरीरं न देहः । अपि चेति । वत्सस्य चन्द्रापीडस्यादर्शनमात्रमेवानवलोकनमात्रमेवानिरीक्षणमात्रमेवावयोः पीडाकरमार्तिजनकम् । अस्य चन्द्रापीडस्यैवमालोक्यमाने मुखे तरापेतं दविष्ठापेतं दुरापास्तम् । अपरमन्यदस्यामवस्थायां दशायामावाभ्यामपि दम्पतीभ्यामपि परममुत्कृष्टमवष्टम्भं प्रतिबन्धं कृत्वा मनोरमा शुकनासश्च संधारणीयौ । मृत्यो रक्षणीयावित्यर्थः । ययोर्दयोर्मध्ये लोकान्तरितो वर्तते वैशम्पायनः । तिष्ठतां वा तावदेतावपि मनोरमाशुकनासावपि तिष्ठतामित्यर्थः । यस्याः कादम्बर्याः प्रभावात्पुनर्वत्सस्य जीवितस्य प्रतिलम्भः प्रकर्षेण लाभस्तस्याभ्युदयस्तस्य मह उत्सवोऽनुभवनीयोऽनुभवविषयीकरणीयः । सैवेयं गन्धर्वराजतनया ते तव वधूरस्माकमागमनेन यः शोकः शुक् तस्योर्मयस्तरङ्गाः कल्लोलास्तेषां संक्रान्तिः संक्रमणं तेन मूढा अज्ञा सनामग्रहणं नामग्रहणपूर्वं यथा स्यात्तथोन्मुक्त आक्रन्दो याभिरेवंविधाभिः प्रियसखीभिग्राह्यमाणा ध्रियमाणा अयापि सांप्रतमपि संज्ञां चेतनां न प्रतिलभते । तत्तस्माद्धेतोस्तावदादावेनामुत्थाप्याङ्क उत्सङ्के कृत्वा चेतनां संज्ञा लम्भय प्रापय । ततो यथेच्छं इच्छा यथा स्यात्तथा रोदिष्यसि रुदनं करिष्यसि । इति राज्ञाभिहिता कथिता विलासवती मे मम वत्सस्य जीवितनिबन्धनं कारणं वधूः क्वेत्यभिदधत्येवेति कथयन्त्येव ससंभ्रमं संभ्रमेण सहितं ससंभ्रमं सादरं सभयं वोपसृत्य समीपे निकटे गत्वाप्रतिपन्नसंज्ञामेवाप्तचेतनामेवाकेनोत्सङ्गेनादाय कादम्बरी मूर्छानिमीलनेनाहिता स्थापिता द्विगुणतरनयनशोभा यस्मिन्नेतादृशं वदनं मुखमालोक्य निभाल्यानवरतं निरन्तरं नयनसलिलेन लोचनजलेन स्नानमाप्लवस्तेनार्द्रमुनमत एवेन्दुशकलवच्चन्द्रखण्डवच्छीतलं शिशिरं स्वकपोलं कपोलयोर्ललाटं ललाटे, लोचनयोश्च लोचने, निवेशयन्ती, स्थापयन्ती । 'अध - टिप्प० -1 ययोर्वर्तमानयोः, ययोर्वैशम्पायनः (यत्पुत्रो वैशम्पायनः, तथा च संबन्धे षष्ठी) इत्यर्थो वा योग्यः । 2 नीचैधृतः पाठोऽत्र परिग्रहीतव्यः, व्याख्या स्पष्टा, टीकयाऽनया सुगमा च । - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ परं बदनात्. २ तिष्ठ; तिष्ठेताम्. ३ अस्य. ४ गृह्यमाणापि. ५ एताम्. ६ अङ्के कृत्वोत्थाप्य. ७ विलासवती तु तच्छ्रुत्वा ससंभ्रमोन्मुक्तचन्द्रापीडचरणा तत्क्व सा मे जीवितप्रतिलम्भहेतुर्वत्सस्य बघूरिति घावमाना चोपसृत्य तदवस्थां तु तामुत्थाप्याङ्के कृत्वा मूर्छानिमीलनाहितद्धिगुणतरनयनशोभं वदनमालोक्य. ८ अप्रतिपत्तिसंज्ञाम्. ९ निमीलित. १० ललाटेन. 668 कादम्बरी।। कथायाम्

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246