Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 182
________________ वदेव मनोरथशतवाञ्छितस्य वस्तुनो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न गतम् । सर्वाभिवाञ्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि किं वृत्तं वत्सस्यैतदद्याप्यपरिस्फुटं केनचिदेवे न कथितम् । एतावत्तु मयाऽव्यक्तमेव तदैव परिजनात्कथयतः कर्णे कृतम् । यथास्माहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामायातः । स वेत्ति सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तत्तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतरदङ्गीकरिष्यामः' इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रतीहारः 'त्वरितमारान्महीतलनिवेशितोत्तमाङ्गमालोकयतु देवः' इति दर्शितवान् । राजा तु तथा तमालोक्य, चन्द्रापीडोहात् ‘एोहि' इत्याहूय, हस्तेनोत्तमाङ्गे स्पृष्ट्वाऽऽदिष्टवान् - 'भद्र, कथय किं वृत्तं वत्सस्य येनागमनाय मया तन्मात्राऽमात्येन च लिखितेऽपि नायातः ? ' अनागमनकारणं वा किंचिन्न प्रतिलेखितवान्' इति । स त्वेवमादिष्टो रोजागमनतः प्रभृति - *********** कारितस्य शिरो मस्तकं समाघ्रातं चुम्बितम् । दिशामाशानां ककुभां विजय आत्मसात्करणमात्माधीनमात्मसात्तस्मादागतस्य प्रणमतः प्रणाम कुर्वतो नमस्कार क्रियमाणस्याङ्गानि परिष्वक्तान्यालिङ्गितानि संश्लेषितानि । परमेतावदेवैतदेव मनोरथशतेनाभिलाषशतेन वाञ्छितस्य वस्तुनो न संपन्न न जातम् । किं तदित्याह - यदिति । वधूसमेतस्यास्य निजपदे स्वपदे प्रतिष्ठां स्थापनां कृत्वा तपोवने मुनिजनाश्रमे न गतं न प्राप्तम् । सर्वं सकलं समग्रं यदभिवाञ्छितमभिलषितं तस्य प्राप्तिश्च महतो गरीयसः पुण्यराशेः सुकृतसमूहस्य फलं साध्यम् । अतः समग्रपुण्याभावात्तन्न प्राप्तमिति भावः । अपरमप्यन्यदप्यन्यतरदपि वत्सस्य पुत्रस्य चन्द्रापीडस्य किं वृत्तं किमाचरणं किं जातम् । एतदद्याप्यपरिस्फुटमप्रकटम् । यतःकेनचिदेव पुंसा मे मम न कथितं न निवेदितम् । तीबागतं कथमित्याशयेनाह - एतावदिति । एतावतु मयाऽव्यक्तमेवाप्रकटमेवास्फुटमेव तदैव परिजनात्परिवारलोकात्समस्तपरिच्छदलोकात्कथयतो निवेदयतोऽन्योन्यम् । परस्परमिति शेषः । कर्णे कृतं श्रवणे कृतं श्रोत्रे कृतम् । तदेव प्रदर्शयन्नाह - यथेति । अस्माहितैर्लेखहारिभिः सदेशहारकैः सहापरोऽन्यो मे मम वत्सस्य सुतस्य बालसेवक आ बाल्याङ्कृत्यतां गतस्त्वरितकनामायातः । सर्ववृत्तान्तं समग्रोदन्तं स वेत्ति स जानाति सोऽपि त्वया भवत्या न पृष्टो न प्रश्नित एवेति । तत् तं तु तावदादौ पृच्छामः प्रश्नयामः । ततस्तदनन्तरं जीवितमरणयोरन्यतरदगीकरिष्यामः स्वीकरिष्यामः । तज्जीविते जीवितं तन्मरणे मरणमिति भावः । इत्यभिवदत्येवेति कथयत्येव राजनि तारापीडे परिजनेन परिच्छदेनान्तरितं व्यवहितं त्वरितकनामानं कुमारभृत्यं कुमारसेवकमाहूयाह्वानं कृत्वा निमन्त्रणं कारयित्वा प्रतीहारो द्वारपालकस्त्वरितं शीघ्रमारात्समीपात् । 'आरादूरसमीपयोः' इति हैमः । महीतले वसुधाधोभागे निवेशितं स्थापितमुत्तमाङ्ग शिरो येनैवंभूतमालोकयतु पश्यतु देवो भवानिति दर्शितवानवलोकनं कारितवान् । राजा तु नृपस्त्ववनीपस्तु तथा तेन प्रकारेण तं त्वरितकनामानं सेवकमालोक्य विलोक्य निरीक्ष्य चन्द्रापीडस्य स्नेहाप्रेग्णः प्रीते । एह्यह्यागच्छागच्छेत्याहूयेति निमन्त्र्य हस्तेन करेणोत्तमाङ्गे मस्तके शिरसि स्पृष्ट्वा स्पर्श कृत्वादिष्टवान्कथितवानित्याह - हे भद्र, कथय ब्रूहि । वत्सस्य पुत्रस्य सूनोः किं वृत्तं किं जातं किमाचरणं निष्पन्नं येन कारणेनागमनाय मया तन्मात्रामात्येन सचिवेन शुकनासेन मन्त्रिणा च लिखितेऽपि लिपीकृतेऽपि नायातो नागतः । अनागमनकारणं वा न किंचित्पतिलेखितवानिति प्रतिलेखे लिपीकृतवानिति । स त्वेवमादिष्ट - - - - - - - टिप्प० - 1 कुर्वत इति वाच्यम् । पाठा० - १ गन्तव्यम्. २ इत्येतत्. ३ अत्र कथितं मे. ४ तावत्. ५ तत्तु; तं तु. ६ त्वरितकम्. ७ वत्सस्य मे. ८ चामात्येन च. ९ लिखिते आदिष्टेऽपि. १० स नायातः. ११ राज्ञागमनतः. राज्ञा विलासवत्याः सान्त्वनम् उत्तरभागः। 1655)

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246