Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 184
________________ काष्ठानि काष्ठिकाः । किं तिष्ठतैवं संकुचिताः कञ्चुकिनः ? गत्वा निष्कामयत हुताशनप्रवेशोपकरणानि । निष्कारणरुदितेन किमधुना ? उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्विजेभ्यः कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य मे । यात यथाभूमिं भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्रजास्तथा करिष्यथ । कथावशेषीभूतो ते वत्सः, कॅमपरं संविधाय यामि' एवमार्तप्रलापिनं तारापीडमचेतितात्मपीडया विलासवत्यैव धृतशरीरमार्ततरस्त्वरितको व्यज्ञापयत् - 'देव, स्फुटिते हृदये ध्रियते शरीरेण युवराजः । शापदोषाद्वैशम्पायनस्य च यथा जन्म तथा निरवशेषं श्रृणोतु तावद्देवः' इति ।। तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेष सत्सर्वमश्रौषीत् । श्रुत्वा - *********** पेऽभ्यणे निकटे सपदि शीघ्रं परिचारकान्भृत्यान्सेवकांश्चिताया रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्टान्येधासि रचयत रचनां कुरुत गृहाकारेण गृहबद्रचनां कुरुत । भोः कञ्चुकिनः । 'सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वहावग्नौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि निष्कामयत बहिःकर्षणं कारयत । गृहाद्वढेः पूजासामग्रीमानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोपरोधेन यः परिलम्बो विलम्बस्तेन विनाशेष समग्रं कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते । अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालनादिक रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधाधीशा राजानः, यथाभूमिमात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् । यथा चाद्यैवास्य चन्द्रापीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव वार्तेवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय कृत्वा यामि व्रजामि । एवंप्रकारेणार्तं च प्रलापिन चार्तालापिनं तारापीडमचेतिताऽज्ञातात्मपीडा स्वपीडा ययैवंविधया विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञापयत् । किं तदित्याह - देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः शरीरेण ध्रियते धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषायथा जन्म येन प्रकारेणान्यत्रोत्पत्तिस्तथा निरवशेषं सर्वं देवो भवास्तावदादौ पूर्व श्रृणोत्वाकर्णयत्विति । तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो व्यवहितः शोकावेगो यस्य स तथा विगतनिमेषेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेषणम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'पुरोधः ! (ह पुरोहित) परिलम्बात् (विलम्बात्) विना' इत्येव पाठः । 2 'यात यथाभूमि (अव्ययीभावः भूमिपतयः' इत्येव पाठः । नीचैःपाठो मध्यगतोस्ति । अर्थात् - 'देव यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये ध्रियते शरीरेण युवराजः' इति । पाठा० - १ अवरोधपटलं दापय, पुरोधःपरिलम्बाद्विना प्रविश्य दापय. २ काशम्. ३ करणीयमेव. ४ यात यथाभूमि भूमिपालः; यात यथाभूमिपतयः. ५ तथोत्सृष्टाः स्थ; दृष्टाः स्थ. ६ अस्य वा दुःखम्; अनाथतादुःखम्. ७ कथमपरं संविधाय यामि; कमपरं संविधापयामि. ८ आर्त प्रलपन्तं च. ९ आर्तः. १० व्यज्ञपत्. ११ देव, यथा त्वं हृदये संभावयसि न तथा. (सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसायः उत्तरभागः।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246