Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दुःश्रवं च कौतुककरं च युवराजवैशम्पायनयोवृत्तान्तमीषदिव विवर्तिताननो विमर्शस्तिमिततारका दृष्टिं निर्विशेषावस्थे शुकनासमुखेऽभ्यपातयत् । सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यात्मदुःखं सुहृदुःखापनोदायैव यतन्ते । यतः शुकनासस्तदवस्थोऽपि स्वस्थवदवनिपतिमुवाच
'देव, विचित्रेऽस्मिन्संसारे संचरत्सु सुखदुःखमयेषु देवासुरतिर्यग्योनिमानुषेषु, त्रिगुणात्मनः प्रधानस्यापि परिणामात्, परमाण्वादेर्ब्रह्माण्डपर्यन्तस्योत्पत्तिस्थितिप्रलयकारणस्येश्वरस्येच्छया, धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां विपीक -
***********
त्कृतं च निरवशेषं तत्सर्वमश्रौषीदाकर्णयामास । अनेकचिकैरनेकाभिज्ञानरुत्पादितो जनितो निष्पादितः प्रत्ययो विश्वासो यस्य स तम् । अश्रद्धेयं श्रद्धातुमयोग्यं च निरतिशयो भूयान्यः शोकः शुक् तस्य कारणं निदानं च विस्मयस्य कौतुकस्याश्चर्यस्यास्पदभूतं पात्रभूतं स्थानभूतं च दुःश्रवं च दुःखेन कष्टेनाकर्णनीयं च कौतुककरं च विस्मयकरं चाश्चर्यकरं चैवंविधमेतादृशं युवराजवैशम्पायनयोवृत्तान्तमुदन्तं श्रुत्वा चाकर्ण्य चेषदिव विवर्तितं पराङ्मुखीकृतं पश्चान्मुखीकृतमाननं मुखं येन सः । राज्ञो विशेषणम् । विमर्शो विचारो वितर्कस्तेन स्तिमिता निश्चला तारका कनीनिका यस्यामेवंविधामेतादृशीं दृष्टिं दृशम् । निर्गतो विशेषो यस्याः सा निर्गतविशेषा एवंविधावस्था दशा यस्य स तथा तस्मिन् । स्वसदृशावस्थ आत्मसदृशावस्थे शुकनासस्य मुख आननेऽभ्यपातयदस्थापयत् । यतः कारणात्सुहृदस्तु स्वयं दुःखिता अप्यात्मदुःखं निधानीकृत्यं सुहृदां मित्राणां दुःखस्य कष्टस्यापनोदायैव दूरीकरणायैव यतन्ते यत्नं कुर्वन्ति । अतः शुकनासस्तदवस्थोऽपि स्वस्थवनिःशोकवदवनिपतिं राजानमुवाच ।
किं तदित्याह - देवेति । हे देव, विचित्रे बहुविधेऽस्मिन्संसारे संचरन्ति परिभ्रमन्ति यानि यानि सुखदुःखानि तैर्निष्पन्नेषु तन्मयेषु देवा भवनपत्यादयः, असुरादयोऽधोवासिनः, तिर्यग्योनिकाः शुकादयः, मृत्युलोके मानवा मनुष्या नराः, एतेषां द्वंद्वः । तेषु त्रिगुणाः सत्वरजस्तमोरूपास्त एवात्मा स्वरूपं यस्यैवंभूतस्य प्रधानस्यापि मूलप्रकृतेराद्यस्वभावस्यापि परिणामात्मपरिणमनात्परमाणुर्निरवयवोऽवयवरहितः क्रियावान्स आदौ प्रथम यस्यैवंभूतस्य ब्रह्माण्डपर्यन्तस्योत्पत्तिर्जन्म । 'उत्पत्तिर्जन्मजनुषी' इति हैमः । स्थितिरवस्थान स्थिरीभवन प्रलयः क्षयो विनाश एतेषां सर्वेषां कारणस्य निदानभूतस्येश्वरस्य महादेवस्येच्छया कृत्या स्पृहया । धर्मोऽदृष्टं तद्विपरीतोऽधर्मस्तयोः साधनांना कारणानां निमित्तभूतानामिष्टानिष्टे ईप्सितानीप्सिते वाञ्छितावाञ्छितफले साध्ये तयोर्दयोः संबन्धकारिणां वा शुभाशुभानां कर्मणां विपाकभावाद्वा तदुदयावस्थानुभवनाद्वा, स्वयमेवात्मा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 द्विवचनमुचितम् । 2 'विस्मृत्याऽऽत्मदुःखम्' इत्येव पाठः । 3 वाक्यस्याशयं लिखामि पाठं च सूचयामि - संसारे संसरत्सु (कर्मबन्धाद्धमत्सु) देवादिमानुषान्तेषु प्रधानस्य (मूलप्रकृतेः, 'मूलप्रकृतिरविकृतिः०' इत्यादिसांख्यलक्षिताया) परिणामात् (विवर्तात्), परमाणुमारभ्य ब्रह्माण्डपर्यन्तस्योत्पादयितुरीश्वरस्येच्छया, धर्माधर्मेत्यादिविशेषितानां शुभाशुभकर्मणां विपाकात, स्वभावाद्वा (निसर्गादा) (ततश्च - 'विपाकात् स्वभावाद्वा इति पाठः । स्वयमनेकप्रकारैः उत्पत्तिस्थितिविनाशाननुभवतः स्थावरजङ्गमस्य सर्वाऽप्यवस्था संभवति ।
पाठा० - १ दृशम्. २ शुकनासे. ३ न्यपातयत्. ४ च. ५ दुःखं दुःखिताः. ६ विस्मृत्य. ७ वर्तन्ते. ८ संचरत्सुखदुःखमयेषु; चरत्सु सुखदुःखमोहमयेषु. ९ मनुष्येषु. १० प्रधानस्य. ११ परिणामादात्मन. १२ विपाकाद्वा; विभावाद्वा; विपाकात्स्वभावाद्वा.
658
कादम्बरी।
कथायाम्
ܡܡܡܡܡܡܡܡܡܡܡܡܡ
Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246