Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 187
________________ ययातेस्तारुण्ये एव जरसा भङ्गः । त्रिशङ्कोश्च पितृशापाच्चाण्डालभावः । श्रूयते च स्वर्गवासी महाभिषो नाम राजास्मिल्लोके शन्तनुरुत्पन्नः । तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषादष्टानामपि वसूनां मनुष्येषत्पत्तिः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतामुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेर्दशरथस्य तथैव मथुरायां वसुदेवस्य । तन्मनुष्येषु देवतानामुत्पत्तित्रैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देव । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रासंभावनीयम् । अपि च गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः, तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोस्त्येिव संदेहः । विनष्टयोः शरीरस्याविनाशः कथम्, कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्राखिललोकप्रत्याख्यातप्रभावममृतमेवैकं कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्येव वार्ता । तत्सर्वमेतदित्थमेवावगच्छतु देवः । अन्यच्च तादृशाकारकान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्नचिराच्छापावसाने निर्वर्तितगन्धर्वसुतोद्वाहमङ्गलस्य गलनयनपयसो वध्वा सह पादयोः - *********** सया कृत्वा भङ्गो हानिः । त्रिशङ्कोच पितृशापाच्चाण्डालभावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकवासी महाभिषो नाम राजास्मिल्लोक इहलोकेशन्तनुर्नाम राजोत्पन्नोऽवतरितोऽवतारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं तत्स्त्रीत्वमुपगतायाः प्राप्ताया गङ्गायाः शापदोषादष्टानामष्टसंख्यानामपि वसूनां मनुष्येषत्पत्तिर्जन्म प्रादुर्भावः प्रकटीभावः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतां पुत्रतां पुत्रभावमुपगतः प्राप्तो जातः । श्रूयते चाकर्ण्यते च पुनरात्मानं चतुर्धा चतुःप्रकारेण विभज्य विभागीकृत्य राजर्षेर्दशरथस्य तनयत्वमुपगतः प्राप्तः । तथैव मथुरायां मधुपुरि वसुदेवस्य तनयत्वमुपागतः पुत्रत्वं प्राप्तः । तदिति हेत्वर्थे । मनुष्येषु नरेषु देवतानां देवानामुत्पत्तिनिष्पत्ति३वासंभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परिहीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः कमलनाभात्सकाशाच्चन्द्रमाः शशाङ्कश्चन्द्रोऽतिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयमसंभाव्यम् । अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वंश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्दयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः । विनष्टयोः कथं शरीरस्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रापीहाप्यखिललोकेषु समग्रलोकेषु प्रत्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् । तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्थमेवेति देवोऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेर्युतेरखिललोकस्य समग्रजनस्याह्लादकारिणः प्रमोदजननस्यानन्दकारकस्यान्यत्र संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैनचिरादल्पकालेन शापस्याक्षेपवचनस्यावसाने प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्बर्या उद्घाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षर - - - - - टिप्प० -1 'प्रख्यात इत्युचितः पाठः । 2 'संभव एव तस्य (चन्द्रस्य) इति पाठः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ चण्डालभावः. २ महाधिषः. ३ शान्तनुः; शान्तनुपत्नीत्वम्. ४ उपागतायां च गङ्गायाम्; उपागतायाः स्वर्गङ्गायाः, उपगतायां गङ्गायाम्. ५ जामदग्नेः. ६ उपागतः. ७ असंभाविता. ८ संभावनीयम्. ९ कथम्. १० प्रलम्भः. ११ प्रख्यात. १२ अमृतमनेककारणम्; अमृतमेव कारणम्. १३ सत्यमित्थमे. १४ ईदृशस्याकारस्य कान्तेः; ईदृशाकारकान्तेः. १५ अचिरात्. १६ निवर्तित. 1660 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246