Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 186
________________ भावाद्वा, स्वयमेवानेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वानियतवृत्तेः स्थावरजङ्गमस्य न कदाचिदवस्था सा या न संभवति । तत्कुतोऽयं देवस्यात्र वस्तुनि विमर्शः ? यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यपि संवादीनि दृश्यन्ते । मुद्राबन्धाढ्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः । अयस्कान्तस्य चायसः समाकर्षणे भ्रमणे वा, मन्त्राणां वैदिकानामवैदिकानां वानेकप्रकारेषु कर्मसु सिद्धौ, नानाविधद्रव्यसंयोगानां वामरणं मान्याधुत्पादनापहरणवशीकरणविद्वेषणादिषु, शक्तेः समुत्पादनादन्येषां बहुतराणामेवंविधानां च तत्र तत्र सर्वस्मिन्नेवागमः प्रमाणम् । आगमेषु सर्वेष्वेव पुराणरामायणभारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा । महेन्द्रपदवर्तिनो नहुषस्य राजर्षेरगस्त्यशापादजगरता । सौदासस्य च वसिष्ठसुतशापान्मानुषादत्वम् । असुरगुरुशापाच्च - *********** नमेवानेकप्रकार बहुधा बहुप्रकारं बहुविधमुत्पद्यमानस्य जायमानस्य निष्पद्यमानस्य तिष्ठतः स्थितिं कुर्वतो विनश्यतो विनाशं प्राप्नुवतो वानियतवृत्तेरस्थिरवृत्तेरनिश्चितवर्तनस्यैवंभूतस्य स्थावरजङ्गमस्य चराचररूपस्य न कदाचित्कस्मिन्नपि काले सावस्था दशा या न संभवति न जायते न निष्पद्यते । तत्कुतोऽयं युक्तिविहितो देवस्य निर्जरस्यास्मिन्वस्तुनि विमर्शो विचारो वितर्कः । यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितानि तर्कवर्जितान्यागमप्रामाण्यादेवाभ्युपंगतान्यप्यङ्गीकृतान्यपि संवादीन्यव्यभिचारीणि दृश्यन्ते विलोक्यन्ते निरीक्ष्यन्ते । मुद्रा शरीरं तस्या बन्धान्मन्त्रेण बन्धप्रदानाद्ध्यानाद्वा तादृशनागमन्त्र (सर्पमन्त्र) चिन्तनाद्वा विषप्रसुप्तस्य गरलमूर्छितस्य विषधारितस्योत्थापने सज्जीकरणे निर्विषीकरणे कीदृशी युक्तिः । अयस्कान्तस्य दृषदश्चुम्बकप्रस्तरस्यायसो लोहस्य समाकर्षण आकृष्टौ भ्रमणे वा शक्तेः समुत्पादनानिष्पादनात् । तथा वैदिकानां वेदोक्तानामवैदिकानां शाबराणां वा मन्त्राणामनेकप्रकारेषु बहुविधेषु, बहुभेदेषु कर्मसु कृत्येषु सिद्धौ निष्पत्ती, शक्तेः समुत्पादनात् । तथा नानाविधा बहुप्रकारा बहुविधा ये द्रव्यसंयोगा द्रव्यसमुदायास्तेषां वामरणमामृत्युं मरणं मृत्युः, मदो दर्पः, अहंकारो गर्वः, मान्यमपाटवमकुशलमादौ यस्य स मान्यादिस्तस्योत्पादनं निष्पादनम्, अपहरणमपहतिः, वशीकरणं संवननम्, विद्वेषणं विद्वेषोत्पादनम्, एतेषां द्वन्द्वः । एतान्यादौ येषां कर्मणां तेषु शक्तेः समुत्पादनानिष्पादनादेवंविधानामेतादृशानामेवंप्रकाराणामन्येषां बहुतराणां तत्र तत्र स्थले सर्वस्मिनेवागमः प्रमाणम् । पुराणरामायणमहाभारतादिषु सर्वेष्वेवागमेषु शास्त्रेषु सम्यकप्रकारेणानेकप्रकारा बहुभेदभित्राः शापवार्ताः शापप्रदानकिंवदन्त्यः । श्रूयन्त इति शेषः । तदेव प्रदर्शयति - तद्यथेति । महेन्द्रपदवर्तिन इन्द्रस्थानस्थायिनः शक्रस्थानस्थायिनो नहुषनाम्नो राजर्षे राज्यावस्थायां मुनिकल्पस्य साधुसदृशस्यागस्त्यमुनेः कुम्भजन्मनः शापादाक्रोशवचनादजगरता पारीन्द्रता । जातेति शेषः । 'आक्रोशाभिषङ्गाक्षेपाः शापः साक्षारणा मता' इति हैमः । सौदासस्य च वसिष्ठस्यारुन्धतीजानेः सुतस्य पुत्रस्य शापान्मानुषादत्वं मनुष्यभक्षकत्वं नरादनत्वम् । असुरगुरुः शुक्रस्तस्य शापादाक्रोशाययाते राज्ञस्तारुण्य एव यौवन एव यौवनावस्थायामेव जरसा विस - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 भवत इत्यर्थो विद्यार्थिभिर्बोध्यः । 2 नानाविधद्रव्यसंयोगानां (संयोगस्य वैचित्र्यावहत्वात्) मरणमदमान्द्याद्युत्पादनादिषु या शक्तिः समुत्पद्यते एतस्मात् - कारणात् च, एवंविधानामन्येषां च बहुतराणामाश्चर्यकर्मणाम् तत्र तत्र स्थले आगमाः (शास्त्राणि) प्रमाणभूतानि सन्तीत्याशयः । पाठा०-१ तत्कि कुतो ऽयम्. २ मुक्तेः. ३ एव. ४ अविसंवादीनि; विसंवादरहितानि. ५ वा. ६ भ्रामणे. ७ संयोगद्रव्याणामु. ८ मरणामरणमदनादि; मरणमदमान्य. ९ तत्र. १० आगमाः. ११ रामायणमहाभारतादिषु. १२ नहुषस्य. शुकनासस्य सान्त्वनम् उत्तरभागः। 1659)

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246