Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
पीडस्य ततो न जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्लव्योपगमेन तुच्छता नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नौधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रास्ते । यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च पराधीनवृत्तौ सर्वस्मिन्न किं वास्माभिर्लब्धम् । वत्सस्यातिदुर्लभो जन्मोत्सवः संभावितः । अङ्कगतस्य मुखमवलोकितम् । उत्तानशयस्योच्चुम्ब्य चरणावुत्तमाङ्गे कृतौ । जानुसंचारिणो रेणुधूसरशरीरस्याङ्के लुलतः स्पर्शसुखमनुभूतम् । अव्यक्तमनोहारीणि प्रथमजल्पितानि श्रोत्रे कृतानि । विचेष्टमानस्य बालचाटवो दृष्टाः । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् । उपारूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषिक्तस्य यौवराज्ये शिरः समाघ्रातम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एता -
***********
देवि, यदि सत्यमेवावितथमेव किमपि वत्सस्य चन्द्रापीडस्यान्यादृशं वैरूप्यं ततो न जीव्यन्त एव प्राणा न प्रियन्त एव । तर्हि किमर्थं निःप्रयोजनमयमात्मा जीवो वत्सस्य पुत्रस्य सूनोः कृते कार्ये सकललोकसाधारणेन प्राकृतजनानुचीर्णेन पामरजनव्याप्तेनामुनानेन प्रत्यक्षोपलभ्यमानेन वैक्लव्योपगमेन विह्वलतोपगमेन विकलभावोपनतेन तुच्छतां स्वल्पतां नीयते प्राप्यते नीचजनाचीर्णमार्गाश्रयणादिति भावः । इयन्त्येतावन्ति शुभानि कर्माण्युपात्तानि गृहीतान्यर्जितानि । अपरं द्वितीयमन्यत्किं क्रियते अस्माभिः, नाधिकस्य सुखस्य सौभाग्यस्य वयं भाजनमास्पदं पात्रम् । हृदयताडनमपि कुर्वद्भिरात्मेच्छया । हि यस्मात्कारणादनुपात्तमनागृहीतमनुपार्जितं न लभ्यत एव न प्राप्यत एव । नामेति कोमलामन्त्रणे । नाम निश्चयेन । विधिर्विधाता ब्रह्मा अपरो द्वितीयः कोऽप्यत्रास्ते । यत्तस्मै विधये प्रजापतये रोचते रुचिविषयीभवति तत्करोति विदधाति निष्पादयति । नासौ विधिर्ब्रह्मा कस्यचिदप्यायत्तः पराधीनः किन्तु स्वायत्त एव । एवं च सर्वस्मिञ्जने सर्वस्मिलोके पराधीनवृत्तौ सत्यामस्माभिः किं न प्राप्तं किं न लब्धम् । अपि तु सर्वमेव सर्वस्वमेव प्राप्तं लब्धम् । एतदेव प्रदर्शयन्नाह - वत्सस्येति । वत्सस्य पुत्रस्य सुतस्य चन्द्रापीडस्यातिदुर्लभोऽतिदुष्प्रापो जन्मोत्सव उत्पत्तिमहः संभावितो विहितो निष्पादितः । अङ्कगतस्य मुखमवलोकितं वीक्षितं निरीक्षितम् । उत्तानशयस्योर्ध्वाननस्योच्चास्यशयितस्योच्चुम्ब्योच्चुम्बनं कृत्वा चुम्बनं विधाय पादौ चरणावुत्तमाङ्गे शिरसि कृतौ विहितौ निष्पादितौ । जानुना नलकीलेन संचारिणो गमनशीलस्य गमनस्वभावस्य, अत एव रेणुधूसरस्य धूलिमलिनस्य धूलिकदमितस्याङ्के क्रोड उत्सङ्गे लुलतो लुठतः स्पर्शसुखं संश्लेषसातमालिङ्गनसुखमनुभूतम् । अव्यक्तेनाप्रकटत्वेनास्फुटत्वेन मनोहारीणि चारूणि प्रथमजल्पिता न्यायभाषितानि पूर्ववाक्यानि श्रोत्रे कर्णे कृतानि धारितानि । विचेष्टमानस्य क्रीडां कुर्वाणस्य बालचाटवः शिशुचाटूनि दृष्टा दृष्टिविषयीकृताः । 'चटु चाटु प्रियप्रायम्' इति हैमः । गृहीतविद्यस्य स्वीकृतकलाभ्यासस्य गुणवत्तया गुणस्वभावतया हृदयमानन्दितं प्रमुदितं हर्षितम् । उपारूढयौवनस्य प्राप्ततारुण्यस्य प्राप्तयौवनस्यामानुषी मनुष्येष्वसंभाविनी रूपशोभा सौन्दर्यश्रीर्मनोहरश्रीः शक्तिश्च तदनुयायि सामर्थ्य च प्रत्यक्षीकृता साक्षात्प्रत्यक्षादवलोकिता निरीक्षिता । यौवराज्ये कौमार्येऽभिषिक्तस्याभिषेकं -
- - - - - - - - - - - - - - - टिप्प० - 1 'न जीव्यत एव' इति पाठः । यदि वत्सस्य अशुभं तर्हि न जीव्यत एव, आवाभ्यामिति शेषः । 2 'सति' इति वक्तव्यम् ।
-
-
-
-
-
पाठा० -१ जीव्यते. २ नातोऽधिकस्य. ३ उपात्तम. ४ हृदयस्य. ५ वृत्ते. ६ च. ७ शरीरक. ८ ललतः; लगतः. ९ मनोहराणि.
654
कादम्बरी।
कथायाम्
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246