Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
नमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात, दुर्लभक, न जानाम्येव किमाजन्मनः प्रभृति शैशवं ते स्मृत्वात्मानमनुशोचामि उत यौवनाभोगकारिणीं वर्तमानां रूपशोभाम्, आहोस्विदवष्टम्भधीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनी प्रभुताम्' इति । एवं विलपन्ती मामवलोक्य हृदयस्थितो मैवं कृथाश्चेतसि पुत्र ! यथा विनापि मया जीवत्येव विलासवती । जात, त्वया विना जीवन्त्यापि पितरेव ते कथं मया वदनं दर्शितम् । न वेद्मि किमपि । प्रियतया ते, किमाकृतेः प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेव, इत्यद्यापि न श्रद्दधाति मे हृदयमनिष्टं ते । येन न सहसधा स्फुटति । स्फुटीकर्तुं च वार्ता भीता ते त्वरितकोपनीतामेव नेच्छामि । वरमनाकर्येवाश्रवणीयमुपरतास्मीति । तात, किं ब्रवीषि, यथा किममुना सुतस्नेहानुचितेन लोकलज्जाकरेण वैक्लव्येनेति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न रोदिमि ।' इत्यभिदधानैवासन्नसखीजनावलम्वितशरीरा मोहमगमत् ।
अथानेकसहससंख्येन प्रधावता विलासवतीपरिजनेनावेदिते तस्मिन्वृत्तान्ते, मन्दरास्फा -
***********
जल्पतस्ते तव वदनं मुखमास्यमवलोकयितुं वीक्षितुमुत्कण्ठितमुत्सुकं मे मम हृदयं चेतः । जात हे पुत्र, अपत्यादिषु दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेम्येव । किमाजन्मनः प्रभृत्युत्पत्तेरारभ्य प्रारभ्य ते तव शैशवं बाल्यं स्मृत्वा स्मरणं कृत्वात्मानं स्वमनुशोचामि शोकविषयीकरोमि पश्चात्तापं करोमि । उतेति पक्षान्तरे । यौवनस्य तारुण्यस्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा ता, वर्तमानां संप्रतिसमयवर्तिनी रूपशोभा सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोस्विदिति वितर्के । अवष्टम्भः प्रारम्भस्तेन धीरा स्थिरामागामिनीमेष्यत्कालभाविनी प्रभुतामैश्चर्यमुत्प्रेक्ष्य विमृश्य विमृश्यानुशोचामि । इत्येवं विलपन्तीं विलापं कुर्वन्तीं हृदयस्थितश्चित्तान्तर्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यधत्थाः । किं तदित्याह - यथेति । हे पुत्र, यथा मया विनापि चन्द्रापीडं विनापि विलासवती जीवत्येव । तर्हि मृता कथं नेत्याशङ्कायामाह - जातेति । जात हे पुत्र हे वत्स, त्वया विना भवद्व्यतिरेकेण जीवन्त्यापि जीवनं धारयन्त्यापि पितुरेव ते तव कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह - न वेद्मीति । अहमत्र कारणं किमपि न वेद्मि न जाने संशयारूढत्वेन सम्यक्तया नावबुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह - प्रियतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्पन्नस्य मूढभावादेवाज्ञानभावादेवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते । येन कृत्वा सहसधा सहसप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरितकेनोपनीता प्रापितामेव वार्ता प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमनाकघैव वरमिति उपरतास्मि । हे तात, किं त्वमिति ब्रवीषि वदसि । यथा किं सतस्नेहस्यानचितेनायोग्येनामना वैक्लव्येन वैक्लव्यं विहलत्वं तेनेति । एषा विल तव वचनात्तूष्णीं मौनं स्थितास्मि । न रोदिमि । इत्यभिदधानैवेति ब्रुवाणैवासनः समीपवर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमवधृतं शरीरं यस्याः सैवंविधा मोहं मूर्छामगमदन्वगात् ।
अथेति । मूर्छागमनानन्तरमनेकसहस्राणि संख्या यस्यैवंभूतेन प्रधावतेतस्ततस्त्वरितगत्या गच्छता विला - टिप्प० - 1 'आत्मनाऽनुशोचामि' इति पाठः । 2 अवष्टम्भो धैर्यावलम्बो लोकावलम्बो वा तेन स्थिराम्, इत्यर्थः ।
हे वत्स
ते
-
-
-
-
-
-
पाठा० - १ हरिणीम्. २ वर्तमानरूप, वर्तमानस्वरूप. ३ पुनरेवम्. ४ किमिति. ५ वार्ता ते त्वरितकाडीतेव. ६ ब्रवीमि. ७ तथा. ८ अनेन स्नेहानुचितेन.
1652
कादम्बरी ।
कथायाम
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246