Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 176
________________ क्षामहे महानश्चवारैरनुभूतः क्लेश इति । कुशलं महाश्वपतेरवसेनस्य ? श्वशुरोऽसावस्माकम् । विस्मयः कृतोऽस्मत्पित्रापि, यच्चिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ युवराजभवने दृष्टो भवद्भिता मे भरतसेनः ? सपरिजनस्य सेनापतेर्भद्रं भद्रसेनस्य ? सेवाव्यसनी सूनुर्मे कुमारवर्मा । तंत्र चलगतिबलाधिकृतस्य का वार्तावन्तिसेनस्य ? रोषितस्तेनासीनासीरार्थं युवराजः । राजकुले कः प्रसादवित्तो वर्धेनो मान्यते वा ? केन वा किं लब्धमेतावद्भिर्दिवसैः ? राजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्वमेवान्यत् । येन दृष्टः स कथयतु सर्वसेनसूनोर्वीरसेनस्य वार्ताम् । पितर्युपरते प्रथममेव स प्रविष्टो यात्राम् । मात्राऽस्य दुःखान्तरितप्रत्यग्रपतिमरणशोकादशनक्रियैव परित्यक्ता । न विद्म एवं कथं सा जीवति' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानानप्यदत्तवचसो नासाग्रस्थितमन्युगर्भदृष्टीनाविष्टानिवाध्वश्रमनिःसहाङ्गानपि पदाकृष्टिसंभावितोद्यमाऽऽयासि - *********** मातृभ्रातुर्वार्ता प्रवृत्तिं कथयत । उत्प्रेक्षामह आशङ्क्यामहेऽश्ववारैः सादिभिर्महान्भूयान्क्लेशोऽनुभूत इति । महाश्वपतेर्महाश्वसाधनाधिपतेरश्वसेनस्य कुशलं वर्तते । अस्माकमसौ श्वशुरो भवति । अस्मत्पित्राप्यस्मदीयजनकेनापि विस्मयः कृतः, भवता हस्ते यत्किंचिच्चिह्नकमप्यभिज्ञानकमपि न प्रहितं न प्रेषितम् । आहितः स्थापितो भरो भारो यस्मिन्नेवंविधोऽसौ युवराजभवने भवद्भिर्धाता मे भरतसेनो दृष्टोऽवलोकितः । सपरिजनस्य सपरिच्छदस्य सेनापतेर्भद्रसेनस्य भद्रं वर्तते । सेवाव्यसनी कुमारवर्मा मे मम सूनुः पुत्रः । तत्र चलगतिबलाधिकृतस्यावन्तिसेनस्य का वार्ता किंवदन्ती । तेनावन्तिसेनेन नासीरार्थमग्रयानार्थं युवराजो रोषितः कोपित आसीत् । 'नासीरं त्वग्रयान स्यादवमर्दस्तु पीडनम् इति हैमः । राजकुले नृपकुले को वा मान्यते पूज्यते, प्रसादे प्रसन्नतायां वित्तं यस्यैवंभूतो वर्धमानो वृद्धिं प्राप्यमाणः । एतावद्भिर्दिवसैदिनैः केन वा किं लब्धं किं प्राप्तम् । अनुजीविष्विति शेषः । राजनिका राज्ञः संबन्धिनः । खलु निश्चयेन । बहवोऽनेकेऽभिनवा नूतनाः सेवकाः सपर्याकारिणो जाताः संपन्नाः । यातु तिष्ठतु तावत्सर्वमेवान्यदितरत् । अव्यक्त नपुंसकम् । एतेन नवीनसपर्याकारिवार्तायां सर्वथानादरः सूचितः । येन दृष्टो वीक्षितः स कथयतु निवेदयतु सर्वसेनसूनोर्वीरसेनस्य वार्ता कुशलम् । पितरि जनक उपरते मृते सति प्रथममेवादावेव स यात्रां व्रज्यां प्रविष्टो गतः । अस्य वीरसेनस्य मात्रा जनन्या दुःखेन सूनुसक्तेनान्तरितो व्यवहितो यः प्रत्यग्रो नूतनः पतिमरणशोको भर्तृमृत्युशुक् तस्मादशनक्रियैव भोजनविधिरेव परित्यक्तोज्झिता । न विद्मो न जानीम एवममुना प्रकारेण सा कथं जीवति कथं प्राणिति । आदिदेशेत्यन्वयस्तु पूर्वमेवोक्तः । इतो लेखहारकाविशेषयन्नाह - नासेति । नासाग्रे नासिकाप्रान्ते संस्थितो मन्युः दैन्यं गर्भे यस्या एवंविधा दृष्टीदृशो येषां ते तथा तान् आविष्टानिव भूतग्रस्तानिवाध्वश्रमेण निःसहान्यसक्तान्यङ्गानि येषामेवंविधानपि पदानामाकृष्टिराकर्षस्तेन संभावितोऽनुमितो य उद्यम - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'सेवाव्यसनी सूनुर्मे कुमार(कपाल)वर्मा, तत्र अवलगति बलाधिकृतः ? (मम सूनुविषये सेनाधिकारी सज्जते, तदनुकूलोस्ति ?), तस्य का वार्ताऽवन्तिसेनस्य ?' इति पाठः । 2 'आजीवनिकाः (ग्रासाच्छादनमात्रभागिनः) बहवः खल्वभिनवसेवका जाताः ग्रासाच्छादनमात्रमादाय बहवः पामरा नवीनाः सेवका जाता इति तेषामाक्रोशः । 3 दृष्टय इत्युचितम् । पाठा० - १ पित्रा स्वचिह्नकम्. २ कलापवर्मा; कपालवर्मा. ३ तत्र लगति; तत्र चलति; तत्रावलगति. ४ बलाधिकृतस्तस्य. ५ वर्तमाने. ६ आजीवनिकाः. ७ एवं. ८ अदत्तप्रतिवचसः. देवमन्दिरे विलासवत्या दूतानामाह्वानम् उत्तरभागः।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246