Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 175
________________ ४ कुशलं मे वत्सस्य ?' इति पृच्छन्त्येवाद्राक्षीत् । इतस्ततो यथादर्शनसंबन्धशः प्रधावितेन नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोज्जयिनीनिवासिना जनेने “आगतः युवराजः कियद्दूरे भवद्भिः परित्यक्तः, दिवसेष्वेतेषु क्व वर्तते, क्व वा भवद्भिर्यात्वौ दृष्टः, क्व वातिकष्टस्तेनातिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरगपृष्ठगतस्य मन्ये बह एवास्याप्रक्रान्तः । त्वरितक एतद्वेत्ति, किमनेन विदितेनापि ? सतत्कथयतु, यदर्थमयं क्लेशः कृतो युवराजेन सं दृष्टो वैशम्पायनः प्रत्यानीतो वा ? मिलितोऽस्य पत्रलेखासहितो मेघनादः ? दत्तः कथं कश्चिदपि सदेशो देववर्धनेन ? मे मित्रमेवासावद्यारभ्य । राभसिकतयैव विनाशं बलाद्गतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्तां पृच्छन्नपि । जीवत्यसावस्य वाजी यो युवराजेन प्रसादीकृतः । प्रसीदत, सादिनां प्रथमस्य पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे - 1 इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्यमानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथितप्रतिवचसः । एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथादर्शनं यथावलोकनं तस्य संबन्धशः संबन्धेभ्यः प्रधातवितेनातित्वरितेन नरपतिप्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेन चोज्जयिनीनिवासिना विशालावास्तव्येन जनेन, आगतः समायातो युवराजश्चन्द्रपीडो भवद्भिर्युष्माभिः कियद्दूरे परित्यक्तो मुक्तः । एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क्व वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवराजेन वाहनमात्रसाधनेन केवलाश्वसैन्येनातिर्कष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रातिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरगपृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षासमयः । त्वरितक एतत् पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेत्तोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलोकितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखासहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा कश्चिदपि सदेशो वाचिकं कथं दत्तो वितीर्णः.? अद्यारभ्याद्यप्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवानालोचितवृत्त्यैव बलाद्धाद्विनाशं बलात्पाथेयाद्गतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्तां किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ जीवति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो बाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य ** टिप्पo - 1 'यथादर्शनं संघशः प्रधावितेन' इत्युचितः पाठः । यथादर्शनम् ( दर्शनकालोत्तरमेव ) पृथक् पृथक् समूहीभूय प्रधावितेन उज्जयिनीवासिना जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः । 2 'क्व वातिकष्टैस्तेनातिवाहितः' इत्युचितः पाठः । न किल जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् । 3 'मे मित्रमेव असौ (देववर्धनः ) । अद्यारभ्य राभसिकतयैवात्मना बलाद्गतस्य' इत्येव पाठः । रामसिकतया (वेगशालितया, अनालोचितप्रवृत्ततया वा ) हटादेव स्वतः (स्वेच्छया) गतस्य, इति तदर्थः । 4 'जीवत्यसौ, अस्य वाऽऽजीवो युवराजेन प्रसादीकृतः ?' असौ (बलधर्मा) जीवति ? अस्मै युवराजेन आजीवः (जीवनोपायः, वेतनम् ) किमु प्रसादीकृतः, इत्युचितः पाठः । परीक्ष्यतां तारतम्यं सहृदयैः । 648 पाठा०-१ यथादर्शनं सर्वशः २ अनुगतः; आयातः ३ गत्वा ४ दृष्टः सः ५ मिलितो वास्य; मिलितो वा तस्य ६ न दत्तः ७ आत्मना ८ प्रष्टुमपि ९ वो. १० प्रसीदतास्य. ११ पृथुवर्त्मनः. कादम्बरी | - कथायाम्

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246