Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
नोत्सिच्यन्ते । क्षिप्यमाणा नापरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा हितप्रियं विज्ञपयन्ति । अनादिष्टाः कुर्वन्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते । विकत्थ्यमाना अपि लज्जामुदहन्ति । महाहवेष्वग्रतो ध्वजभूता इव लक्ष्यन्ते । दानकाले पलाय्य पृष्ठतो निलीयन्ते । धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति । गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम, असंतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽपि स्वात्मन्यस्वाधीनसकलेन्द्रियवृत्तयः, पश्यन्तोऽप्यन्धा इव, श्रृण्वन्तोऽपि बधिरा इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुपहतकरचरणा अपि पङ्गव इव, क्लीबा इवाकिंचित्कराः, स्वात्मनः स्वामिचिन्तादर्श प्रतिबिम्बवद्वर्तन्ते । तत्सर्वमेवंस्थितो -
***********
क्षिप्यमाणास्तिरस्क्रियमाणा नापरागं विरक्ततां गृह्णन्त्याददते । उच्यमानाः । विरूपमिति शेषः । भाष्यमाणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवते । पृष्टा अनुयोजिता हितं च तप्रियं च हितप्रियं विज्ञपयन्ति निवेदयन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य पराक्रमं कृत्वा न विकत्थन्ते न श्लाघन्ते । विकत्थ्यमाना अपि श्लाघ्यमाना अपि लज्जा त्रपामुद्रहन्ति धारयन्ति । महाहवेषु महारणेष्वग्रतो ध्वजभूता इव केतुभूता इव लक्ष्यन्ते विलोक्यन्ते । 'अभ्यामर्दः समाघातः सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धनाद् द्रव्यात्स्नेह प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितासुरोऽग्रे । स्वामिन इति शेषः । मरणं मृत्युमभिवाञ्छन्त्यभिलषन्ति । गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीशचरणोपान्ते सुखं यथा स्यात्तथा तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पादसेवायां तृष्णा स्पृहा । हृदयाराधने चित्तप्रसादनेऽसंतोषः । आननावलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुणग्रहणे परगुणानां शौर्यादीनामादाने । भर्तुः स्वामिनोऽपरित्यागेऽमोचने कार्पण्यं कृपणत्वम् । ये च सेवका विद्यमानेऽपि स्वात्मनि जीवति सत्यप्यस्वाधीनसकलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषा ते तथा । पश्यन्तोऽपि विलोकयन्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । श्रृणवन्तोऽप्याकर्णयन्तोऽपि बधिरा इव । परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव । परदूषणवक्तव्यतायामिति भावः । 'वाग्मी वाचस्पतौ पटौ' इति विश्वः । जानन्तोऽप्यवबुध्यन्तोऽपि जडा इव मूर्खा इव । प्रभुप्रतिपादितकथादिश्रवणेष्वित्यर्थः । कराश्च चरणाश्च करचरणम् । 'द्वन्द्वश्च प्राणितूर्य-' इत्येकवद्भावः । अनुपहतमखण्डितं करचरणं येषां ते तथैवंविधा अपि पङ्गव इव श्रोणा इव, क्लीबा इव षण्ढा इव, अकिंचित्करा निरर्थकाः । स्वात्मनः स्वस्वामिनोऽधिपतेचिन्ता सैवादर्शो मुकुरस्तस्मिन्प्रतिबिम्बवत्प्रतिच्छायवद्वर्तन्ते । तत्सर्वमेवाव्यक्ते - --------------------- टिप्प० - 1 'अनुपहतकरचरणा अपि कुणय इव पङ्गव इव' इत्युचितः पाठः । कररहितः कुणिः, विकलपादः पङ्गः, ते तु करपदसत्तायामपि तद्रहिता इत्यर्थः । 2 'स्वात्मना स्वामिचित्तादर्श प्रतिबिम्बवत्' इत्युचितः पाठः । स्वामिनश्चित्तरूपे आदर्श (दर्पणे) स्वात्मना प्रतिबिम्बवत् वर्तन्ते, स्वामिनश्चित्ते सर्वदा येषां स्थितिर्भवतीत्याशयः ।
-
-
-
-
-
--
पाठा० - १ अपराधम्; अपरज्यन्ते. २ प्रियहितम्; प्रियं हितम्. ३ कथ्यमानाः. ४ नापि. ५ व्यसनतानवलोकने. ६ गुणाग्रहणे. ७ आत्मनि. ८ न स्वाधीन. ९ कृपणा इव पङ्गवः; कुणप इव पङ्गवः. १० स्वात्मना. ११ चित्ता. १२ सर्वः.
IN
(646
कादम्बरी।।
कथायाम्
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246