Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 172
________________ च संभाव्यं प्रेषितानामप्रोषितजीवितानामगमनं तु दूरापेतमेव । गत्वापि दयिततमतनयवार्ताश्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदनानामस्माकमैवस्थानमशक्यमेव' इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी मेघनादमवादीत् - 'मेघनाद, वेद्मि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणां चेतःपीडार्मैवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःखमायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहापरः कचिच्छ्रद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः संप्रत्ययाय व्रजतु' इति । एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्तव्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापाः संजायन्ते । स्तूयमाना - *********** तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूरापेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्तिस्तस्याः श्रवणमाकर्णनं तत्र लालसस्य सस्पृहस्य राज्ञो देव्या आर्यशुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि वक्त्राण्युट्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृतिवर्जितानामस्माकमवस्थानमशक्यमेव दुष्करमेव । तैर्लेखहारकैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा कादम्बरी मेघनादमवादीदब्रवीत् । किं तदित्याह - मेघनादेति । हे मेघनाद, अहं वेद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतदनिवेदनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतःपीडामवेक्ष्यमा॑णया विलोक्यमानया मयैतत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति तदा कीदृशं महावज्रपतनसदृशं महापविपाततुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो येनैवंविधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु । - एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते । सकल एवायं भृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्णयं कृत्वा स्थितोऽस्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रापीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति । भृत्या अपि अनुचरा अपि त एव ये संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यां कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं प्राप्यमाणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति । टिप्प० - 1 ‘अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव । 2 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारणप्रियवियोगजनितदुःखमेव अनिर्वाच्यं भवति), इदं (पुत्रवियोगजम्) तु किं पुनः ? अयमेव पाठः । पाटा० - १ संभाष्य २ अगमनं दूरत एव ३ अवस्थानमनुचितमशक्यमेव. ४ अवेक्षमाणया; अपेक्षमाणया ५ आपतति; अतः ६ श्रद्धेयवाक्यः ७ व्रजतु संप्रत्ययायेति. ८ भृत्यवर्गेऽपि. (तत्स्वीकृत्य तैः सह त्वरितकप्रेषणम् उत्तरभागः । 645

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246