Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 171
________________ अन्यत्रादृष्टपूर्वो मनुष्येषु प्रत्यक्षीकृत एवायं वृत्तान्तो भवद्भिरपि । दृष्टं च पुरेवोक्षततनोर्देवस्य वदनम् । संभाषणापि या देवेन विना न संभवति सापि संभावितैव । तद्गम्यतामधुना वार्तोत्सुकमतर्देवस्य पादमूलम् । न चायं प्रत्यक्षदृष्टोऽप्युपरतशरीराविनाशवृत्तान्तः प्रकाशनीयः । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्येतदेवावेदनीयम् । यतः कारणादुपरतिः खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति । शरीराविनाशः पुनः प्राणैर्विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्याऽऽवेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमद्भुतभूतोऽर्थो गुरुजनेष्वाप्रकटीभविष्यति । इत्येवमादिष्टाश्च ते व्यंज्ञापयन् - 'देवि, कि विज्ञापयामः । द्वाभ्यामेवापरिज्ञानमस्यवस्तुनः संभवेदगमनेनास्मदीयेनाकथनेन वा । तदस्माकं तु हस्ते द्वयमप्येतनास्ति । युवराजवैशम्पायनयोर्वार्ता विना दुःखं तिष्ठता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन - *********** ऽनवलोकितपूर्वोऽयं वृत्तान्तो भवद्भिरपि युष्माभिरपि प्रत्यक्षीकृत एव । साक्षात्कृत एवेति भावः । अक्षततनोरखण्डितशरीरस्य देवस्य चन्द्रापीडस्य वदनं पुरेव दृष्टमवलोकितम् । संभाषणाप्यन्योन्यालापोऽपि या देवेन विना न संभवति नोपपद्यते सापि संभाषणापि संभावितैव संभावनाविषयीकृतैव । तदिति हेत्वर्थे । तत्तस्मात्कारणाद्वार्तायां प्रवृत्तौ उत्सुकोत्कण्ठिता मतिर्बुद्धिर्यस्यैवंविधस्य देवस्य तारापीडस्य पादमूलं चरणसमीपं युष्माभिरधुना गम्यतां यायताम् । अयं प्रत्यक्षदृष्टोऽपि साक्षानिरीक्षितोऽप्युपरतं निर्जीवं यच्छरीरं तस्याविनाशस्तथैवावस्थानं तस्य वृत्तान्त उदन्तो न च प्रकाशनीयो न प्रकटीकार्यः । तर्हि किं वाच्यमित्याशयेनाह - दृष्ट इति । अच्छोदसरसि तिष्ठति विद्यते, दृष्टो विलोकितोऽस्माभिरेतदेवावेदनीयं कथनीयम् । यतः कारणादुपरतिर्मरणम् । खलु निश्चयेन । प्राणिनामवश्यंभाविनी कथंचित्प्रत्ययं विश्वासमुत्पादयति । प्राणैर्विनाकृतानां रहितानां शरीराविनाशः पुनदृश्यमानोऽपि विलोक्यमानोऽप्यश्रद्धेय एवास्थारहित एव । तदस्यावेदनेन ज्ञापनेन सुदूरस्थितमप्यतिदविष्ठस्थितमपि गुरुजनं श्वशुरजनं मरणसंशये मृत्युद्धापरे निक्षिप्य वर्तमाने प्रयोजनमेवार्थ एव नास्ति । प्रत्यागतं पश्चादागतं जीवितं यस्यैवंविधे जीवितं प्राणितं तस्य ईश्चरे चन्द्रापीडे स्वयमेवायमद्भुतोऽर्थो गुरुजनेषु वशुरकुलेष्वासमन्तात्प्रकटीभविष्यति सर्वं विदितं भविष्यति । इत्येवमादिष्टाः कथिताश्च ते व्यज्ञापयन्विज्ञप्तिं चक्रुः । हे देवि, किं विज्ञापयामः कां विज्ञप्तिं कुर्मः । अनिवेदनरूपस्यास्य वस्तुनो द्वाभ्यामेवापरिज्ञानं संभवत् । एतदेव स्पष्टयनाह - अगमनेनेति । अस्मदीयेनाऽगमनेनाऽयानेनाऽकथनेन वाऽनिवेदनेन वा, तवयमप्यस्माकं तु हस्ते पाणौ नास्ति । अस्मदधीनं न विद्यत इत्यर्थः । तत्प्रदर्शयन्नाह - युवराजेति । युवराजश्चन्द्रापीडो वैशम्पायनो मन्त्रिसुत एतयोर्वार्ता प्रवृत्तिं विना दुःखं तिष्ठता कृच्छ्रेण स्थितिं कुर्वता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च संभाव्य विचार्य प्रेषि - - - - टिप्प० - 1 नीचैः पाठो द्रष्टव्यः । जीवाद्विना संभावना (शरीरगता कान्तिः) न संभवति, सा भवद्भिः संभावितैव दृष्टैवेत्याशयः । 2 'आङ् निपातस्य नासीत्स्वारस्यम् । अत एव 'गुरुजने जने वा' इति पाठगतस्य 'वा' पदस्य सत्तां सूचयति । 3 'संभाष्य' (सौम्याः ! गम्यतामित्यादरेण संबोध्य) इत्येव पाठो योग्यः । - - - - पाटा० - १ प्रत्यक्षतः. २ च दृष्टं च; दुष्टो दुष्टं च. ३ पुनरेवाक्षत; पुनरेवाविकृत. ४ संभावनापि या जीवाद्विना. ५ यतः कारणम्; किं कारणम्, ६ न कचित्. ७ गुरुजने जने वा प्रकटीभविष्यति. ८ व्यज्ञपयन्. ९ किंचिज्ञापयामः. १० हस्तात्. ११ विना वार्ताम्; वार्तया विना. 644 कादम्बरी। कथायाम् कथायाम

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246