Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 169
________________ वानेव देवः । किमद्य जातं येन देवस्य पादारविन्दवन्दनाप्रसादेनासंविभज्य विसृज्यामहे । त एव वयं पादलग्नाश्चरणरेणवः । तद्विज्ञाप्य देवी देवस्य युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्यप्रत्यक्षीकृतयुवराजशरीरा गताः सन्तः किं देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो विज्ञापयितव्यः' इत्यावेदिते, 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे, तत्कालसमुप्रेक्षितानाधास्यश्वशुरकुलवैक्लव्या, विलीयमानेव शुचा, अन्तःसंचितं बाष्पमाकुलिततरलतारकाभ्यामापिबन्ती लोचनाभ्याम्, उद्गदिकयावगृह्यमाणकण्ठी, कथंकथमपि चिरात्कादम्बरी प्रत्युवाच - 'स्थान एव हि तैरगमनमङ्गीकृतम् । अनवलोक्य देवमेवमेव याताः सन्तः किमुच्यन्ताम् ? अपि च वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलोकनेनापि न संप्रत्ययः समुत्पद्यते, किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शितप्रेमपल्लवा वल्ल - *********** किं जातं किं जज्ञे देवस्य चन्द्रापीडस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसादस्तेनासंविभज्यासंविभागीकृत्य विसृज्यामहे । ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । तद्विज्ञाप्य विज्ञप्तिं कृत्वा देवी कादम्बरी देवस्य युवराजस्य पादप्रणामेनास्माकमागमनपरिश्रम भवान्मेघनादः सफलयतु सफलीकरोतु । अन्यथोक्तवैपरीत्ये । एतावती भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रत्यक्षीकृतं युवराजशरीरं यैस्तेऽप्रत्यक्षीकृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थितवति मौनं कृतवति मेघनादे, तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्चास्यमाश्वसनावर्जितं श्वशुरकुलस्य स्वपतिवंशस्य वैक्लव्यं विह्वलता यया सा तथा । शुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तःसंचितं मध्ये संघातीकृतं बाष्पमश्वाकुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्राभ्यामापिबन्ती पानं कुर्वन्ती, उत्प्राबल्येन गद्गदिकया गद्गदस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा तथा । कथंकथमपि महता कष्टेन चिरादहुकालेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् । हि निश्चितम् । तैलेखहारकैरगमनमयानमङ्गीकृतं स्वीकृतं तत्स्थान एव युक्तमेव । देवं चन्द्रापीडमनवलोक्यानिरीक्ष्यैवमेव यथागतं तथैव याताः पश्चाद्वलिताः सन्तस्तत्र तैः किमुच्यतां किं कथ्यताम् । अपि चेति युक्त्यन्तरे । अयमेवंविधो वृत्तान्त उदन्तो लोकातीतोऽनिर्वचनस्वरूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि न संप्रत्ययो न विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुनर्भण्यते । सुतरामविश्वासो भवत्येवेति भावः । कैतवमात्रेण केवलदम्भेनोपदर्शिताः प्रकटिताः प्रेमपल्लवाः स्नेहकिसलया यैस्ते तथा वल्लभतममतिशयेन - टिप्प० - 1 'कैतवमात्रोपदर्शितप्रेमफला वल्लभतमजीविता वयमपि यावत्पश्यामस्तम्' इत्येव पाठः । कपटमात्रेण प्रकटितं प्रेमफलम् (प्रणयकार्यम्) याभिस्ताः, अस्माभिः स्वप्रणयकार्यं दम्भरूपेणैव प्रकटितं यदि अस्माकं प्रेम सत्यमभविष्यत् तर्हि अस्माभिरपि जीवितमत्यक्ष्यत । अत एव - चन्द्रापीडादपि वल्लभतम जीवितं यासाम् ईदृश्यो वयमिति । पाटा० -१ विसामहे. २ कृतशरीराः. ३ देवेन. ४ च. ५ तत्कालम्. ६ गद्गदिकावगृह्यमाणकण्ठा; उद्गदिकावगृह्यमाणकण्ठी; उद्गदिकयावगृह्यमाणकण्ठी. ७ देवदेवम्. ८ किमुच्यताम्; किमुच्यन्तात एव. ९ अयमेवंविधो लोकातीतो वृत्तान्तः. १० फलाः. (642 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246