Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 149
________________ मात्रेण लघुकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थं कुलक्रमो न गणितः, गुरवो नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजनः खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं मयेत्येतदपि चेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणान्प्रतिपालयन्ती त्वयैवं किमुक्ताहम् । अस्मिन्समये मरणमेव जीवितम् । जीवितं पुनर्मरणम् । तद्यदि ममोपरि स्नेहं करोषि मत्प्रियं हितं वा, तन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा चे मच्छोकादात्मानं परित्यजतः, यथा च मयि, वाञ्छितं मनोरथं त्वयि पूरयतः, परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि । *********** ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभिमुखस्य देवस्य चन्द्रापीडस्य रुदितेनाश्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादावनुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखान्येव दूरीभूतानि । किमद्यापि मया रुद्यते । यदर्थं यत्कृते कुलक्रमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न नियन्त्रितः । जनवादात्कौलीनान भीतं न त्रस्तम् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशमनक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वेतायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थं कादम्बर्या एवोज्झितप्राणे त्यक्तजीविते तस्मिंश्चन्द्रापीडाख्ये प्राणेवरे प्राणानसून्प्रतिपालयन्ती रक्षन्ती त्वयैवं भवत्या किमुक्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरणमेव जीवितं प्राणत्यागमेव प्राणितम् । जीवितं पुनर्मरणं प्राणत्यागः । त्रपाजनकत्वात् । तयदि ममोपरि स्नेहं प्रीति मत्प्रियं मदल्लभं हितमायतिसुन्दरं वा त्वं करोषि विदधासि तन्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रियसख्या वल्लभवयस्या (स्यया) तथा कर्तव्यं तथा विधेयं यथा तातचित्ररथोऽम्बा मदिरा च मच्छोकान्मदिरहजनितदुःखादात्मानं न परित्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथमभिलषितं कामं त्वयि पूरयतः परिपूर्णीकुरुतः । परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्रदानायर्यायं पुत्रकस्त्वयि भवः । यथा च मे मम सखीजनः परिजनो वा परिच्छदलोको वा दुःखाभिभूतो भृत्यजनो न स्मरति न स्मृतिगोचरीकरोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं मद - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'त्वयैव किं वक्ष्येऽहम्' इत्येव पाठः । 2 नीचैर्दत्ते पाठान्तरेऽपि सहृदयैर्देया दृष्टिः । 3 तन्ममोपरीत्यस्याऽऽब्रेडनं दृष्ट्वा पाठान्तरमनुसंधेयम् । 4 'अयम् कः ? अत एव नीचैः पाठान्तरमेव सम्यक् । पाठा० - १ जनापवादात्. २ मम. ३ अस्मिंस्तु. ४ मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं न पुनर्मरणम्. ५ तन्मदीयमप्यात्मनि स्नेहमारोप्य. ६ वा. ७ अवाञ्छितम्. ८ येन परलोकगताया अपि मे जलाञ्जलिदायी पुत्रको भविष्यति. ९ वापि. १० भवनम्. 622 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246