Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अद्य मे शिरः समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाप्यहमद्यैव प्रियसखी संजाता । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया ? केन वापरेणोपदेष्टव्यम् ? तदेवं गते यत्करणीयं तदुपोदिशतु मे प्रियसखी । नाहमात्मना किंचिदपि वेद्मि, किं कृत्वा श्रेयः ?' इत्युक्तवती कादम्बरी महाश्वेता प्रत्यवादीत् - 'प्रियसखि, किमत्र प्रश्नेनोपदेशेन वा । यदेवेयमनतिक्रमणीया प्रियतमसमागमप्रत्याशा कारयति, तदेव करणीयम् । पुण्डरीकवृत्तान्तोऽद्य कपिञ्जलाख्यानात्स्फुटीभूतः । तत्कालं तु वाङ्मात्रकेणैव समाधासितया मया न पारितमन्यत्किंचिदपि वक्तुम् । तत्त्वमन्यत्किं करोषि यस्याः प्रत्ययस्थानमिदं चन्द्रापीडशरीरमक एवास्ते । तदन्यथात्वेऽस्य करणीयचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां -
***********
विद्यते यस्याः सा तुल्यदुःखिनी तस्या भावस्तुल्यदुःखिता तां नयता प्रापयता भगवता विधात्रा । खलु निश्चयेन । असुखं न स्थापितास्म्यसुखे न रक्षितास्मि । अद्य मे शिरः समुद्घाटितम् । अद्य मया शिरः कर्षितमित्यर्थः । अद्य ते तव वदनं दर्शयन्त्यवलोकनं कारयन्ती प्रियसखि इति भाषमाणेति जल्पमाना न लज्जे न त्रपे । समदुःखत्वादिति भावः । तवापि भवत्या अप्यथैवाहं प्रियसखी वल्लभवयस्या संजाता । पूर्वं भवत्या एव दुःखितत्वेन वचनमात्रेण प्रियसखित्वमभूत, सांप्रतं तु समदुःखसुखित्वेनेति भावः । संप्रतीदानीं मरणं जीवित वा मे मम पूर्वोक्तहेतोरेव न दुःखाय दुःखहेतवे । तत्तस्माद्धेतोरपरोऽन्यः को मया प्रष्टव्यः पृच्छाविषयीकार्यः । केन वापरेणान्येनोपदेष्टव्यमुपदेशो दातव्यः । तदेव गते प्राप्ते सति यत्करणीयं यदेव विधेयं तप्रियसखी मे ममोपादिशतु कथयतु । नाहमात्मना किंचिदपि वेद्मि किं कृत्वा श्रेयः कल्याणं स्यात् । इत्युक्तवती कादम्बरी महाश्वेता प्रत्यवादीप्रत्यब्रवीत् - हे प्रियसखि, अत्रास्मिन्नर्थे प्रश्नेन पृच्छयोपदेशेन वा किम् । यदेवेयमनतिक्रमणीयानुल्लङ्घनीया प्रियतमसमागमप्रत्याशा वल्लभजनमेलापकसमीहा कारयति निष्पादयति तदेव करणीयं कार्यम् । भवत्या इति शेषः । पुण्डरीकस्य वृत्तान्त उदन्तोऽद्य कपिजलस्याख्यानात्कथनात्स्फुटीभूतः प्रकटीभूतः । तत्कालं तदात्वे वाङ्मात्रकेणैव वचनमात्रेणैव समाधासिंतयाश्वासनं कारितया मयान्यत्किंचिदपि वक्तुं कथयितुं न पारितं न शक्तम् । तत्तस्माद्धेतोस्त्वमन्यदितरत्किं करोषि विदधासि । यस्या भवत्याः प्रत्ययस्थानं विश्वासस्थलमिदं चन्द्रापीडशरीरमक उत्सङ्ग एवास्ते तिष्ठति । तत्तस्मात्कारणादस्य शरीरस्यान्यथात्वेऽनेकस्थायित्वे करणीयचिन्ता कर्तव्यचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्य शरीरस्यानुवृत्तिं सपर्या मुक्त्वा किमन्यत्करणीयं विधेयम् । हि यस्मात्कारणादप्रत्यक्षाणां परोक्षाणां देवतानां देवानां मृन्मृत्तिका, अश्मा दृषत्, -
- - - - - - - - -- - - - - - - - - - - टिप्प० - 1 तुल्यं यथा तथा दुःखिताम् इत्यर्थ उचितः । वस्तुतस्तु - 'तुल्यदुःखताम् (तुल्यं दुःखं ययोः ते तुल्यदुःखे, तत्ताम्) इत्येव पाठः सम्यक् । 2 अद्य मे शिरः समुद्घाटितं समुत्रमितं (विधात्रा) । 3 कोर्थ इति स्वयं जानीयात्, लेखे प्रमादकारी लेखको वा । कदाचित् 'अनेवस्थायित्वे करणीया चिन्ता । इति पाठः स्यात् । शरीरस्यैवमेव अस्थितौ (विकारे सति) चिन्ता कार्या, इति तदर्थः । 4 'तावदस्याऽनुवृत्तिं मुक्त्वा' इत्येव पाठः ।
पाटा० - १ तुल्यदुःखतां कुर्वता तेन चिरात्खल्वय सुखम्. २ उपदिशतु. ३ त्वद्य. ४ हस्तात्. ५ तदा तु. ६ कर्तुम्. ७ तत्किमन्यत्. ८ तदन्यथा त्वस्य. ९ करणीया. १० अविनाशि तावदेव,
(634
कादम्बरी।
कथायाम्-)
Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246