Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 163
________________ गता, विगतजीवितेव शून्यमुखी, मुखावलोकिनी चन्द्रापीडस्य, पीडितोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षम्, उद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती, तथैवाङ्के समारोपितचन्द्रापीडचरणद्वया, दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्नस्नानपानभोजनेनापि मुक्तात्मना राजुपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेषं दिवसमक्षिपत् । यथैव च दिवसमशेष क्षपितवती तथैव तां गम्भीरमेघोपरोघभीमामनवरतगर्जितध्वानकम्पितहृदयबन्धामाबद्धकलकैलापिकुलकेकाकोलाहलाकुलितचेतोवृत्तिमुद्दामदुर्दुरारटितबधिरितश्रोत्रेन्द्रियां दुर्दर्शतडित्संपातपीडितदिशर्मतिनिहादापादितभुवनज्वरां ज्वलत्खद्योतनिकरजर्जरिततरुगहनतलतमःप्रसरभीषणतमा तमस्विनीमपि दूरीकृत्याऽबलासहभुवं भीतिम्, अपरित्यक्तचन्द्रापीडॅचरणकमला, अचेतितस्वशरीरखेदा जाग्रती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीरमवलोक्य शनैःशनैः पाणिना - *********** रूपान्तरमाकारान्तरमागतेव विगतजीवितेव गतप्राणेवात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते पश्यतीत्येवंशीला । पीडितेन पीडयोत्पीडितं व्याप्तं हृदयं वक्षो यस्या एवंविधापि बाष्पमोक्षमश्रुपातं रक्षन्ती रुन्धन्त्युद्दामा कठिना वृत्तिर्वर्तनं यस्यैवंभूताच्छोकादपि खेदादपि मरणादपि मृत्योरपि कष्टतमामतिशयेन कृच्छ्रामवस्थां दशामनुभवन्ती साक्षात्कुर्वन्ती । तथैव पूर्वोक्तरीत्या अङ्क उत्सङ्गे समारोपितं स्थापित चन्द्रापीडचरणद्वयं यया सा । दूरायदागमनं तेन खिनेनापि संजातखेदेनापि बुभुक्षितेनापि क्षुधितेनाप्यप्रतिपन्नान्यनङ्गीकृतानि स्नानपानभोजनान्याप्लवपानभक्षणानि येन स तथा तेन । मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्रलोकेन स्वपरिजनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्रं दिवसं दिनमक्षिपनिर्गमयामास । यथैव च येन प्रकारेण दिवसमशेष क्षपितवती तथैव तेन प्रकारेण समुपविष्टैवासेदुष्येव क्षणमिव क्षपां त्रियामां क्षपितवतीति दूरेणान्चयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह - गम्भीरो यो मेघस्तेनोपरोधः प्रतिबन्धस्तेन भीमा भीषणाम् । अनवरतं निरन्तर यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो हृदयबन्धो भुजान्तरबन्धो यया सा ताम् । आबद्धं मिलितं यत्कलं मनोज्ञ कलापिकुलं मयूरान्ववायस्तस्य केकावाण्यस्तासां कोलाहलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दाम भीषणं य१राणां भेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिहादेनातिगर्जितेनापादितो विहितो भुवनस्य ज्वरस्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूहस्तेन जर्जरितं शिथिलीभूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्धकारं तस्य प्रसरो विस्तारस्तेन भीषणतमामतिभैरवामेतादृशीं तमस्विनीं तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनुज्झितं चन्द्रापीडचरणकमलं यया सा । अचेतितोऽविचारितः स्वशरीरखेदो यया सा । जाग्रती जागरा क्षणमिव क्षपां क्षपितवती । अन्वयस्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र - - - - टिप्प० - 1 त्यक्तात्मना जीवितनिरपेक्षेणेत्यर्थः । 2 कुले कलशब्दस्य किं स्वारस्यम् ? आबद्धः कलः (मधुराऽस्फुटः स्वनः) यैः तथाविधानां कलापिकुलाना केकाकोलाहलैरित्यादिरों वाच्यः । 3 तमोयुक्ता रात्रिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्त्वात् । 4 जागरा किम् ? अस्वपतीत्यर्थः । पाठा० - १ पीडोत्पीडित. २ अक्षपयत्. ३ कलापिकेका. ४ आकुलीकृत. ५ दृशम्. ६ अशनिनिर्याततर्जनापादित; अशनिनिहादतर्जनापादित. ७ गहनतर. ८ चरणाचेतितशरीर. ९ आलोक्य. (636 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246