Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 159
________________ कर्मुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽहमात्मनैवाधुना । 'देव, प्रसीद । कुरु दयाम् । देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युच्चारयन्त्यपि लज्जे । मन्ये च तवाप्येवैमुत्पन्नं मन्दभाग्यायां मयि वैराग्यं येनैवमपि विप्रैलपन्त्यां न प्रतिवचनं ददसि । हा, हतास्म्यनेनैवात्मनो जीवितस्योर्पर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोरस्ताङमवनावात्मानमपातयत् । कपिञ्जलस्तु तथार्तकृतप्रलापां तां सानुकम्पमवादीत् - 'गन्धर्वराजपुत्रि, कस्तवात्र दोषो येनैवमनिन्दनीयमात्मानं पर्योजयति । काखपकेऽनुभवनीये दुःखत्यावसरः, } पेनैवात्मानं शुचा व्याप । सह्यतरं तत्त्वया निर्व्यूढं हँतहृदयस्यास्यैव समागमप्रत्याशया । यथा च शापदोषादिदमुपगतं भवत्योर्द्वयोरपि दुःखं तथा मया कथितमेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव । तदुन्मुच्यतामयमात्मनो वयस्यस्य चाश्रेयस्करः शोर्कानुबन्धः । द्वयोरेवँ श्रेयसे यदेव भवत्याङ्गीकृतं तदेवानुबध्यतां व्रतपरिग्रहोचितं - कं शरणं त्राणमुपयामि गच्छामि । मयि विषये दयां कृपां को वा करोतु विदधातु । अधुना सांप्रतमहमात्मनैव याचे प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृपां कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर । इत्येतान्यक्षराणि वर्णानुच्चारयन्त्यपि कथयन्त्यपि लज्जे त्रपे । मन्ये च जाने च मन्दभाग्यायां भाग्यरहितायां मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन्त्यामपि विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं न ददासि न प्रयच्छसि । हा इति खेदे । अहं हता व्यापादितास्मि । अनेनैवात्मनः स्वस्य जीवितस्य प्राणितस्योपर्यनिर्वेदेनाऽस्वावमानेनेत्युन्मुक्त आर्तनादः करुणस्वरो यया सा । 'निर्वेदः स्वावमाननम्' इति । सोरस्ताडं वक्षस्ताडनं यथा स्यात्तथावना पृथिव्यामात्मानमपातयत्पातितवती । कपिलस्तु तथा तेन प्रकारेणार्तः करुणः कृतो विहितः प्रलापो यया सा तां सानुकम्पं सदयं यथा स्यात्तथावादीदवोचत् - हे गन्धर्वराजपुत्रि, कस्तव भवत्या अत्र दोषो दूषणम्, येनैवमनिन्दनीयमगर्हणीयमात्मानं स्वं निन्दापदैर्गर्हावाक्यैर्योजयसि संयुक्तं करोषि । नामे कोमलामन्त्रणे । को बाधुनेदानीं सुखपाकेऽनुभवनीये सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्रस्यावसरः प्रस्तावः । येनैवं येन हेतुना शुचा कृत्वात्मानं व्यापादयसि शरीरात्पृथक्करोषि । यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूढमतिक्रान्तं हतं हृदयं यस्यैवंभूत पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाञ्छया । यथा च भवत्योर्द्वयोः शापदोषादिदं दुःखमसातमुपगतं प्राप्तं मया कथितमेव निवेदितमेव । चन्द्रमसोऽपि चन्द्रस्यापि भारती वाणी भवतीभ्यां श्रुतैवाकर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छोकानुबन्धः शोचनप्रबन्ध उन्मुच्यतां त्यज्यताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्याङ्गीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुबध्यतां टिप्प० - 1 ' तथा कृतार्तप्रलापाम्' इत्येव पाठः । 2 'येनैवमात्मानं शुचा व्यापादयसि' इत्येव पाठः । येनाऽवसरेण एवम् (अनेन प्रकारेण ) आत्मानं व्यापादयसीति तदर्थः । 3 'यदसह्यं तत्त्वया निर्व्यूढम् दृढीकृतं च हृदयं समागमप्रत्याशया' इति पाठान्तरम् । यथेच्छमुपादीयतां विज्ञैः । पाठा० - १ किम्. २ अपराद्धा. ३ उत्पन्नमेव. ४ विलपन्त्या. ५ मे ददासि ६ अनिर्वेदना. ७ सोरस्ताडनम् ८ तथा कृतार्त. ९ को वा. १० सुखमात्रके . ११ यदेवम्. १२ अलङ्घयतरम्. १३ तु. १४ दृढीकृतहृदयस्य. १५ उपनतम् १६ शोकानुबन्धावेगः १७ अपि 632 कादम्बरी | कथायाम्

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246