Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 157
________________ अहं तु विना वयस्येन शोकावेगान्धो गीर्वाणवर्मनि धावन्नन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु मां दहन्निव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत् - 'दुरात्मन्, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरङ्गमेणेवोपलचितस्तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर' इति । अहं तु तमुद्धाष्पपक्ष्मा कृताञ्जलिरवदम् - 'भगवन्, वयस्यशोकान्धेन त्वं मयोल्लचित्तो नावज्ञया । तत्प्रसीद । उपसंहर शापमाशु त्वमिमम् इति । स तु मां पुनरवादीत् - 'यन्मयोक्तं तन्नान्यथा भवितुमर्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि' इति । एवमुक्तस्तु पुनस्तमहमवदम् - 'भगवन्, यद्येवं ततो विज्ञापयामि । तेनापि मंप्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य, यथा तुरङ्गमत्वेऽपि मे तेनैव प्रियवयस्येन सहाऽवियोगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत् - 'अनया - *********** अहं तु वयस्येन मित्रेण शोकस्य शुच आवेगस्तेनान्धो गताक्षो गीर्वाणवम॑नि देवपथि धावस्त्वरया गच्छन्नन्यतमं वैमानिकानां मध्येऽन्यमतिक्रोधनमत्यन्तकोपनं वैमानिक देवमलवयं व्यतिक्रमम् । स तु वैमानिको मां रोषहुतभुजा क्रोधवह्निना दहन्निव भस्मीकुर्वनीव भृकुटिभृकुटिस्तया विकरालेन विकृतेन । भीषणेनेति यावत् । चक्षुषा नेत्रेण निरीक्ष्यावलोक्याब्रवीदवोचत् । हे दुरात्मन् दुष्टात्मन्, मिथ्या वृथा तपोबलेन . तपस्तेजसा गर्वित गर्वं प्राप्त, यदेवमतिविस्तीर्णेऽतिवितते गगनमार्गे व्योमपथि त्वया भवताहमुद्दामप्रचारिणोद्धतगमनशीलेन तुरंगमेणेवाश्वेनेवोपलपित्त उल्लचित्तस्तस्मात्त्वं मर्त्यलोके तुरंगम एव ययुरेव भूत्वा मर्त्यलोके मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिकमुदूर्ध्वं बाष्यो यस्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः संयोजितपाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक् तेनान्धस्तेन मया त्वमुल्लङ्घितो नावज्ञयाशातनया । तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव । त्वमिम शापमाशूपसंहर निवर्तय । स तु वैमानिकः पुनर्द्वितीयवारमवादीदब्रवीत् । यन्मयोक्तं कथितं तदन्यथा कथितादन्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव करोम्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैवं पुंसो वाहनता युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव पुंसोऽवसानेऽन्ते स्नात्वा स्नपनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसि इति । एवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् - हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह - तेनेति । तेनापि मप्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणादेतावन्तमपीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषाज्ञानलोचनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेप्यश्चत्वेऽपि तेनैव प्रियवयस्येन सहावियोगेन संयुक्तेन कालोऽनेहा यायाद्गच्छेदिति । स त्वेवं पूर्वोक्तप्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मामवादीदभ्य - - - - - - - - - - - - - - - - टिप्प० - 1 पुनः पुङ्गवत्वं प्रदर्श्यते । 'ययुरश्चोऽश्वमेधीयः' इति कोषादश्वमेधाश्च एव ययुः, न तु अश्वसामान्यम् । पाठा० - १ विनाकृतः. २ शोकावेशान्धः. ३ गीर्वाणवर्त्मना. ४ उल्लकित्तः. ५ इति वोटव्यं त्वया. ६ अवज्ञायाः; अवज्ञानात्. ७ इम शापमुपसंहरेति. ८ दत्त एव शापः संप्रति मया नान्यथा. ९ बाह्यताम्. १० तम्, ११ मे प्रिय. 630 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246