Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनी समुत्सृज्य वयस्यस्नेहादाबद्धपरिकरः 'क्व मे प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय तं पुरुषमनुबध्नञ्जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमानिकैः, अवगुण्ठितमुखीभिरवमुच्यमानगमनमार्गो दिव्याङ्गनाभिः, अभिसारिकाभिरालोलतारकेक्षणाभिरितस्ततः प्रणम्यमानस्तारकाभिः अम्बरसरःकुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभिरामसकललोकं चन्द्रलोकमगच्छत् । तत्र च महोदयाख्यायां सभायामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत् - 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं खेलूदयं गतो जगदनुग्रहाय स्वव्यापारमनुतिष्ठन् अनेन ते प्रियवयस्येन कामापराधाज्जीवितमुत्सृजता निरपराधः संशप्तः 'दुरात्मनिन्दुहतक, यथाहं त्वया करैः संतोपित उत्पन्नानुरागः सनसंप्राप्तहृदयवल्लभासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते वर्षे जन्मनि जन्म -
***********
श्रूयतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रित काल्पनिकव्याहारो यया सा तामपि त्वामेकाकिनीमसहायां समुत्सृज्य त्यक्त्वा वयस्यस्नेहान्मित्रप्रीतेराबद्धः परिकरः कटिप्रदेशो येन सः । क्वेति । कुत्र मे मम प्रियसुहृदं वल्लभवयस्यमिममपहृत्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबध्नन्ननुधावजवेन वेगेनोदपतमूर्ध्वमगच्छम् । स तु पुमान्मे मम प्रतिवचनं प्रत्युत्तरमदत्त्वैवाकथयित्वैव गीर्वाणवम॑न्याकाशे विस्मयेनाश्चर्येणोत्फुल्लानि विकसितानि नयनानि नेत्राणि येषां तैर्वैमानिकैर्विमानवासिभिः सुरैरवलोक्यमानो वीक्ष्यमाणोऽवगुण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभिसारिकास्ताभिरवमुच्यमानस्त्यज्यमानो गमनमार्गो यस्य सः । आलोलाश्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे ईक्षणे यासा ताभिस्तारकाभिस्ताराभिरितस्ततः प्रणम्यमानो नमस्क्रियमाणः । अम्बरमेव सरस्तस्मिन्कुमुदाकरमिव । कुमुदसमूहमिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्योल्लङ्घय चन्द्रिका ज्योत्स्ना तयाभिरामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके महोदया इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्तस्तेन निष्पन्न इन्दुकान्तमये महत्यायते पर्यङ्के पल्यड्के तत्पुण्डरीकशरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिजल, चन्द्रमसं ग्रहं मां जानीह्यवबुद्ध्यस्व । स्वव्यापारं परिभ्रमणलक्षणमनुतिष्ठन्कुर्वजगतोऽनुग्रहायाभ्युपपत्तयेऽहमुदयं गतः । अनेन ते तव प्रियवयस्येन कामापराधात्कन्दर्पागसो जीवितमुत्सृजता त्यजताह निरपराधोऽपि निरागाः संशप्तः शापविषयीकृतः । तदेव दर्शनयन्नाह - दुरात्मनिति । हे दुरात्मन् हे दुष्टात्मन्, हे इन्दुहतक, यथाहं त्वया करैः किरणैः संतापितः पीडितः उत्पन्नः संजातोऽनुरागोऽनुरतिर्यस्यैवंभूतः सन् असंप्राप्तमलब्धं हृदयवल्लभस्य समागमसुखं येन सः, प्राणैरसुभिर्वियोजितः पृथक्कृतः, तथा त्वमपि भवानपि कर्मभूमितां भूते प्राप्ते 'यत्रैव क्रियते कर्म कर्मभूमिरतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु सापरा ॥' इत्युक्तः । अकर्मभूमिः कर्मभूमिः संपद्यत इति कर्मभूमीभूत इति वा । अस्मिन्भारते वर्षे भरतक्षेत्रे जन्मनि जन्मन्येवोत्पन्नानुरागः -
टिप्प० - 1 तारकाणामपि तारकाः, ता अपि आलोलाः, किं कारणमालोलत्वे ? 'दिव्याङ्गनाभि रित्यस्याग्रे - 'त्यज्यमानोऽभिसारिकाभिरालोलतारकेक्षणाभिः', इति पाठः । माद्राक्षीदिति भयेन विलोलतारके ईक्षणे यासामीदृशीभिः अभिसारिकाभिः परिहियमाण इति तदर्थः । 2 वल्लभाया इत्युचितम् ।
पाठा० - १ दिव्याङ्गनाभिसारिकाभिः. २ चन्द्राभिराम. ३ उदयगतः. ४ अनुकुर्वन्. ५ संताप्य. ६ प्राप्त.
628
कादम्बरी।
कथायाम्-)
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246