Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 158
________________ स्नेहलतया ते ममार्दीकृतं हृदयम् । तदालोकितं मया । उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञः सनिदर्शन चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसि इति । अहं तु तद्वचनानन्तरमेवाधः स्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोदतिष्ठम् । संज्ञा तु मे तुरंगमत्वेऽपि ने व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुरागसंस्कारादभिलषन्नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः' इति । एतच्छ्रुत्वा । “हा देव पुण्डरीक, जन्मान्तरेष्वविस्मृतमदनुराग, मप्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मयसकलजीवलोक, लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पुनःपुनस्तेव्यापादनम् । स्वयं हत्वा च पापकारिणी कमुपालभे ? कि ब्रवीमि, किमाक्रन्दामि, - *********** धात् । ते तवानंया स्नेहलस्य भावः स्नेहलता तयानामा संपन्नमित्यार्दीकृतं मम हृदयं चेतः । तत्तस्मादालोकितं निरीक्षितं मया । उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्नो राज्ञः सनिदर्शनं सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तुश्चन्द्र एवात्मा यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्यस्युपगमिष्यसीति । अहं तद्वचनानन्तस्मेव तद्भाषितादन्वधःस्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवाचीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंगमत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी एतामेतावती भूमिमानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरागोऽनुरतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छनजानन्त्याज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः सोऽपि मे मम वयस्यपुण्डरीकस्यावतारः । इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, जन्मान्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममानुरागो यस्य तस्य संबोधनम् । मय्येव प्रतिबद्धं जीवितं प्राणितं यस्य तस्य संबोधनम् । मम शरणं यस्य संबोधनम् । मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् । मन्मयो मद्व्याप्तः । मत्स्वरूप इति यावत् । सकलजीवलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्तरप्राप्तस्यापि विनाशाय मरणायाहमेव राक्षस्युपजाता प्रादुर्भूता । दग्धप्रजापतेर्भस्मीभूतविधातुर्मनिर्माणे मज्जनने दीर्घजीवितप्रदाने च चिरंजीवित्ववितरणे चेयदेवैतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनः पुनस्ते व्यापादनं मारणम् । स्वयमात्मना हत्वा चाहं पापकारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं ब्रवीमि किं वच्मि । किमाक्रन्दाम्याक्रन्दं करोमि । टिप्प० - 1 सनिदर्शनम् निदर्शनेन अभिज्ञानेन (अयं चन्द्र एव, यतो हि चन्द्रापीडेति नामाऽस्याभिज्ञानम् इति) सहितम्, इत्यर्थः । 2 'देवस्य चन्द्रमसः' इति स्यात् । वस्तुतस्तु - 'आनीतश्चन्द्रमसोवतारः' इत्येव पाठः । 3 बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि इत्येव पाठः । पाठा० - १ आतिम्. २ तस्यैव परमोपकारिणः. ३ अधःस्थितः. ४ तुरंगमत्वेन. ५ नैवोपयाता. ६ तदेव. ७ प्राक्तनादेव. ८ एतछ्रुत्वा महाश्वेता. ९ कथं लोकान्तर. १० किम्. ११ कम्. १२ ब्रवीमि कस्यै कथयामि. १३ कम्. - - - - - - - - - - - - - - - - - - - - - - (कपिजलस्य वृत्तान्तः उत्तरभागः। 1631)

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246