Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 150
________________ पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयैव माधवीलतया सहोद्वाहमङ्गलं स्वयमेव निर्वर्तनीयम् । मच्चरणतललालितस्याशोकविटपस्य कर्णपूरार्थमपि न पल्लवः । खण्डनीयः । मत्संवर्तिताया मालत्याः कुसुमानि देवतार्चनायैवोच्चेयानि । वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः । मया स्वयं रोपिताश्चतवृक्षो यथा फलं गृह्णन्ति तथा संवर्धनीयाः । पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ । मदङ्कशायिनी नकुलिका स्वाङ्क एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः कस्मिंश्चित्तपोवने समर्पणीयः । पाणितलसंवर्धितं मे जीवजीवमिथुनं क्रीडापर्वते यथा न विपद्यते तथा केर्तव्यम् । पादसहसंचारी हंसको यथा न हन्यते केनचित्तथा विधेयैः । अपरिचितगृहवंसतिः सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्सष्टव्या । क्रीडापर्वतकः कस्मैचिदुपशान्ताय तपस्विने प्रतिपादयितव्यः । शरीरोपकरणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि । वीणा पुनरात्मन एवाङ्कप्रणयिनी कार्या । अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम् । अहं - लेखा तथा करिष्यसीत्यर्थः । मे मम पुत्रकस्य भवनागणे सहकारपोतस्य त्वया भवत्या मच्चिन्तयैव मम चिन्तयैव माधवीलतयातिमुक्तकलतया सहोद्वाहमङ्गलं विवाहकल्याणं स्वयमेवात्मनैव निर्वर्तनीयं करणीयम् । 'आम्रचतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । मच्चरणयोर्मदग्र्योस्तलमधोभागस्तेन लालिर्तस्य पालितस्याशोकविटपस्य कङ्केल्लिवृक्षस्य कर्णपूरार्थमपि श्रवणभूषणार्थमपि न पल्लवः किसलयः खण्डनीयश्छेदनीयः । मत्संवर्धिताया मयैव वृद्धिं नीताया मालत्या जात्याः कुसुमानि पुष्पाणि देवतार्चनायैव देवपूजार्थमेवोच्चेयानि ग्राह्याणि । वासभवने निवाससद्मनि मे मम शिरोभागे मस्तकप्रदेशे निहितः स्थापितः कामदेवपटः पाटनीयः खण्डशः कार्यः । मया स्वयमात्मना रोपिता उप्ताश्चतवृक्षा आम्रवृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीया वृद्धिं प्रापणीयाः । पञ्जरबन्धदुःखाद्वराक्यनाथा कालिन्दीनाम्नी सारिका पीतपादा शुकश्च परिहासाख्यो द्वावपि मोक्तव्यौ मोचनीयौ । मदङ्कशायिनी मदीयक्रोडशयनकारिणी नकुलिका पिङ्गलिका स्वाक एव स्वकीयक्रोड एव शाययितव्या शयनं कारयितव्या । मे मम पुत्रकस्तरलकञ्चञ्चलो बालहरिणः शिशुकुरङ्गः कस्मिंश्चित्तपोवने मुनिस्थाने समर्पणीयः प्रदातव्यः । मे मम पाणितलेन करतलेन संवर्धितं वृद्धिं प्रापितं जीवजीवकमिथुनं विषदर्शनमृत्युकयुग्मं चकोरयुगलं क्रीडापर्वते यथा न विपद्यते विलयं न याति तथा कर्तव्यं तथा विधेयम् । पादाभ्यां सहसंचारी हंसको यथा केनचिन्न हन्यते न व्यापाद्यते तथा विधेयः कर्तव्यः । अपरिचिता गृहवसतिः सौधावस्थानं ययैवंविधा तपस्विनी वराकी वनमानुषी बलाद्धठाद्विधृता गृहीता सा च वन एवोत्सष्टव्या मोच्या । क्रीडापर्वतकः ‘पवयी' इति प्राकृतलोके । कस्मैचिदनिर्दिष्टनाम्न उपशान्ताय शीतलप्रकृतये तपस्विने मुनीश्वराय प्रतिपादयितव्यः प्रदातव्यः । शरीरस्य देहस्य मे ममोपकरणानि ब्राह्मणेभ्यो विप्रेभ्यः प्रतिपादनीयानि दातव्यानि । वीणा वल्लकी पुनरात्मनः स्वस्यैवाङ्के प्रणयः स्नेहो यस्याः सैवंविधा कार्या । अपरमप्यन्यदपि यद्वस्तु ते तव रोचते रुचिविषयीभवति तदपि वस्तु स्वीकर्तव्यमङ्गीकार्यम् । अहं कादम्बरी पुनरिममात्मानमेतैः शीतलवस्तुभिः कृत्वा दग्धैशेषं ज्वलितोर्वरितमुज्ज्वला - टिप्प० - 1 न प्रसङ्गः सम्यक् । अत एव - 'मच्चितया ' ( मत्पालितया) इति पाठः । 2 पुष्पितीकृतस्य 'पादाघातादशोकः ०' इति । 3 प्रियवियोगावस्थायां शीतलैरप्येभिर्वस्तुभिर्मम शरीरमदह्यत, दग्धशेषमेव तच्छरीरं संप्रति चितानले निर्वापयामीत्याशयः । पाठा० - १ इव. २ निवर्तनीयम्. ३ बालाशोक. ४ पल्लवलवः. ५ वृक्षकाः. ६ क्वचित्. ७ जीवजीवक. ८ क्रीडापर्वतके. ९ कार्यम्. १० चारी. ११ विधेयम्. १२ वसति तपस्विनी बलाद्धृता; निवासा बलाद्विधृता तपस्विनी. १३ सर्वाण्येव ब्राह्मणसात्कर्तव्यानि १४ कर्तव्या. कादम्बर्या विलापः उत्तरभागः । 623

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246