Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 152
________________ न्तरसमागमाय' इत्यभिधायोत्पद्यमानपुलककेसरोद्भासिनी, असमसाध्वसानिलाहता, उत्कम्पोत्तरयमाणा, आनन्दबाष्पवेगोर्मितरला, संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी, मुकुलायमाननयनकुमुदा कुमुदिनीव चन्द्रापीडचन्द्रास्तमयविधुरा, तदवस्थेऽपि हृदयवल्लभे समागमसुखमिवानुभवन्ती सरभसमुपरि पर्यस्तचिकुरहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रापीडचरणौ सवत्स्वेदामृतार्द्राभ्यां कैराभ्यामुत्क्षिप्याकेन घृतवती । अथ तत्करस्पर्शेनोच्छ्रंसत इव चन्द्रापीडदेहाज्झटिति तुहिनमयमिव सकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोर्ज्जगाम । अनन्तरं चान्तरिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत - 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाप्याय्यमानमविनाशि भूयस्त्वत्संमागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्याय्यमानं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमप्यन्तरात्मना कृतशरीरसंक्रान्तेर्योगिन इव शरीरमत्रैव भवत्योः *********** भवान्तरे समागमाय मेलापकाय प्रियसखीमामन्त्रये निमन्त्रये । इत्यभिधायेत्युक्त्वोत्पद्यमानः संजायमानो यः पुलको रोमाञ्चः स एव केसर कुङ्कुमं तेनोद्भासिनी शोभमानाऽसमं विषमं यत्साध्वसं भयं तस्मादनिलः श्वासप्रवृद्धिस्तेनाहता ताडिता, उत्कम्पेनोत्तरङ्ग्यमाणोच्चैर्नीयमाना, आनन्दबाष्पवेगोर्मिभिर्हर्षाश्रुरंहस्तरंगैस्तरला चञ्चला, सम्यक्प्रकारेण गलन्स्वेदो घर्मजलं स एव मकरन्दबिन्दुस्तस्य निस्यन्दिनी क्षरणशीला मुकुलायमाने संकोचं प्राप्यमाणे नयने एव कुमुदे यस्याः सा कुमुदिनीव कैरविणीव चन्द्रापीड इव चन्द्रः शशाङ्कस्तस्यास्तमयोऽस्तमनं तेन विधुरा दुःखिता । 'विधुरं प्रेत्यभावे स्यात्कष्टविश्लेषयोरपि' इति विश्वः । तदवस्थेऽपि तादृशरूपेपि हृदयवल्लभे प्राणप्रिये समागमसुखमिव मेलापकसातमिवानुभवन्ती साक्षात्कुर्वन्ती सरभसमुपरि पर्यस्तो निपतितो यश्चिकुरहस्तः केशकलापस्तस्मादुद्वान्तः कुसुमानां पुष्पाणां निवहो येनैवंविधेन मूर्ध्ना शिरसा चन्द्रापीडस्य चरणौ पादावर्चयित्वा पूजां कृत्वा सवन्क्षरन्यः स्वेद एवामृतद्रवस्तेनार्द्राभ्यामुन्नाभ्यां कराभ्यामुत्क्षिप्योत्थाप्याङ्केन क्रोडेन धृतवती धारितवती । अथेति चरणन्यसनानन्तरं तस्याः कादम्बर्याः करस्पर्शेन पाणिसंश्लेषेणोच्छ्रसत इव उज्जव इव चन्द्रापीडदेहाज्झटिति शीघ्रं सकलमेव समग्रमेव तं प्रदेशं तुहिनमयमिव हिमनिर्मितमिव कुर्वाणं विदधानमव्यक्तरूपमप्रकटस्वरूपं चन्द्रवद्धवलं शुभ्रं ज्योतिस्तेज इवोज्जगाम प्रादुर्बभूव । - अनन्तरं तदनन्तरं चान्तरिक्ष आकाशेऽमृतं पीयूषं क्षरन्तीव सवन्तीवाशरीरिणी वाग्वाण्यश्रूयताकर्ण्यत । एतदेव स्पष्टीकुर्वन्नाह - वत्से इति । हे वत्से हे पुत्रि महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्याश्वासनां कारितव्या वर्तसे । तत्ते तव पुण्डरीकशरीरं मल्लोके मत्तेजसा मद्धाम्नाप्याय्यमानं शीतलीक्रियमाणमत एवाविनाश्यविनश्वरं भूयः पुनरपि त्वया सह समागमो मेलापस्तस्मै तिष्ठत्येव । इदमपरमन्यन्मत्तेजसा निष्पन्नं मत्तेजोमयमतः स्वत एव स्वभावत एवाविनाश्यविनश्वरं विशेषतः कादम्बरीकरस्पर्शेनाप्याय्यमानं शीतलीक्रियमाणं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमपि रहितमप्यन्तरात्मैना मध्यवर्तिना जीवेन कृता विहिता शरीरे देहान्तरे संक्रान्तिः संक्रमणं तस्य योगिन इव आपरमवेदिनो योगिनस्तस्येव भवत्योर्महाश्वेताकादम्बर्योः प्रत्ययार्थं विश्वासार्थमाशा - टिप्प० - 1 'कुमुदिनीव' इति उपमानुरोधेन 'नयने कुमुदे इव' इत्युपमितसमास एवोचितः । 2 'चन्द्रापीडश्चन्द्र इव' इत्युचितम् । 3 आत्मना कृता शरीरे (अपरस्य पुरुषस्य शरीरे) संक्रान्तिः प्रवेशो येन तस्य, अन्यस्मिन् शरीरे कृतप्रवेशस्य योगिनः पूर्वशरीरं यथा तिष्ठति तथेत्याशयः । पाटा० - १ उत्पुञ्ज्यमान. २ हस्ताभ्याम् ३ समुच्छ्रसित. ४ सकलमपि ५ कुर्वत. ६ एव. ७ अन्तरिक्षे ८ समाश्वासिता ९ पुण्डरीक. १० समागमाय. ११ चन्द्रापीडस्य शरीरम्. १२ आत्मना. आकाशवाण्या कादम्बर्याः सान्त्वनम् उत्तरभागः । 625

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246