Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 151
________________ पुनरिमममृतकिरणरश्मिभिरनाश्यानचन्दनचर्चाभिरनवरतधारागृहासारसेकैरनेकसंतानतुहिनकिरणकिरणनिकरतारकिततारहारार्पणैर्मणिदर्पणप्रणयनेन मलयजजलापद्मिनीपत्रास्तरणेन सरसबिसकिसैलयप्रस्तरैरकठोरमृणालतल्पकल्पनयोगविकसितकमलकुमुदकुवलयशयनीयैश्च दग्धशेषेमुज्ज्वलचिताज्वालामालिनि विभावसौ देवस्य कण्ठलग्ना निर्वापयाम्यात्मानम्' इत्यभिदधानैव कृतावधारंणानुबन्धां मदलेखामर्वक्षिप्योपसृत्य महाश्वेतां कण्ठे गृहीत्वा निर्विकारवदनैव पुनस्तामवादीत् - 'प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा ययानुरागपरवशा पुनः समागमाकाङ्क्षिणी क्षणे क्षणे मरणाभ्यधिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकरमननुशोच्यमनुपहसनीयमवाच्यं धारयसि । मम पुनः सर्वतो हताशायाः सापि नास्ति । तदामन्त्रये प्रियसखी पुनर्जन्मा - *********** दीप्ताश्चितायाचितेर्चाला अर्चिषस्ताभिर्मालत इत्येवंशीलः स तथा तस्मिन्नेवंभूते विभावसावग्नौ देवस्य राज्ञः । 'देवः सुरे वने राज्ञि देवमाख्यातमिन्द्रियम्' इति यादवप्रकाशः । कण्ठे निगरणे लग्नासक्ता निर्वापयामि शीतलीकरोमि । एतेन वह्नितप्तेविरहज निततापस्याधिक्यमसूचि । एतैः कैरित्यपेक्षायामाह - अमृतेत्यादि । अमृतकिरणश्चन्द्रस्तस्य रश्मिभिः किरणैरनाश्यानमशुष्कं यच्चन्दनं मलयज तस्य चर्चाभिः समालम्भनरनवरतं निरन्तरं धारागृहाणामासारो वेगवदृष्टिस्तेन सेकैः सेचनैरनेकसताना अनेकपरंपरा ते तुहिनकिरणस्य चन्द्रमसः किरणास्तेषां निकरः समूहस्तेन तारकिताः संजाततारका ये तारा उज्ज्वला हारा मुक्ताकलापास्तेषामर्पणैर्व्यसनैर्मणिदर्पणानां रतादर्शानां प्रणयनेन ग्रहणेन । अत्यन्तशीतलत्वात्तेषामिति भावः । मलयजजलेन चन्दनपानीयेनार्द्राणि स्विन्नानि यानि पद्मिनी कमलिनी तस्याः पत्राणि दलानि तेषामास्तरणेन प्रस्तरणेन सरसानि रसोपेतानि बिसकिसलयानि तन्तुलपल्लवास्तेषां प्रस्तरैरास्तरैरकठोराणि मृदूनि यानि मृणालानि तैः सह तल्पकल्पनयोगो विद्यते येषां तानि विकसितानि यानि कमलकुमुदकुवलयानि तेषां शयनीयैश्च । अन्वयस्तु प्रागेवोक्तः । इति पूर्वप्रतिपादितमभिदधाना ब्रुवाणा एव कृतो विहितोऽवधारणे देहपरित्यागेऽनुबन्धो निश्चयो यया सैवंविधां मदलेखामवक्षिप्य दूरीकृत्य महाश्वेतामुपसृत्य समीपे गत्वा कण्ठे निगरणे गृहीत्वा । कण्ठाश्लेषं विधायेत्यर्थः । निर्विकारवदना एव शुग्जनितविकृतिवर्जितानना एव पुनस्तां महाश्वेतामवादीदवोचत् । हे प्रियसखि महाश्वेते, तव भवत्याः कीदृश्यप्यनिर्दिष्टनाम्न्यपि प्रत्याशा लिप्सा वर्तते यया प्रत्याशयानुरागपरवशानुरत्याधीना पुनर्वितीयवारं पुण्डरीकस्य समागमस्तस्याकाङ्क्षिणी तद्वाञ्छाविधायिनी क्षणे क्षणे मरणेभ्योऽधिकानि दुःखानि कृच्छ्राण्येवमनुभवन्त्यनुभवविषयीकुर्वन्ती । अलज्जाकरमत्रपोत्पादकमननुशोच्यमविमर्श्यमनुपहसनीयं परेषामनुपहसनार्हमवाच्यमवचनीयमेवंविधं जीवितं धारयसि दधासि । मम पुनः सर्वतोऽभितो हता ध्वस्ताशा वाञ्छा यस्याः सैवंविधायाः सापि प्रत्याशापि नास्ति । तत्तस्माद्धेतोरहं पुनर्जन्मान्तरे - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनेकसंतानतानतुहिनकरकिरण०' इत्यादिरघोधृतः पाठः । अनेके संतानानाम् (विस्तृतीनाम्) तानाः (विस्ताराः) येषां तथाभूता ये तुहिनकर (चन्द्र) किरणाः, अग्रे टीकायाम् । 2 'विधारणानुबन्धाम् इत्युचितः पाठः । कृतो विधारणे देहपरित्यागे इत्यादिस्तस्यार्थः स्यात् । पाठा० - १ इयम्. २ अनेकसंतानतुहिनकरकिरण; अनन्तसंतानतुहिनकरकिरण. ३ किसलयैः सस्तरैः; किसलयसस्तरैः. ४ मृणालिनी. ५ उद्विकासकमलकुमुदकुवलय; विकसितकुमुदकुवलय. ६ उज्ज्वलितचितानले ज्वालामालिनी. ७ अभिदधाना कृतमरणानुबन्धा. ८ विदारण. ९ अवच्छिद्य. १० अपसृत्य च. ११ मरणादधिकानि. १२ पुनर्जन्मान्तरे. 624 कादम्बरी। कथायाम

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246