Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 49
________________ प्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचनकारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैतावता स्थास्यतीति । अन्यथा क्व निष्प्रयोजनाश्वमुखानुसरणेनामानुषभूमिगमनम्, क्व च तंत्र तृषितस्याच्छोददर्शनम्, क्व तत्र तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम्, क्व तज्जिज्ञासागतस्य महाश्वेतावलोकनम्, क्व तत्र तरलिकया सह तवाभिगमनेन मद्गमनप्रस्तावः, क्य महाश्वेतया सह हेमकूटगमनम्, क्व तत्र देवीवदनदर्शनम्, क्व रागोत्पत्तिरस्मिञ्जने देव्याः, क्व वाऽपरिपूर्णमनोरथस्य मे पितुरलङ्घनीयाऽऽगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणास्मत्कर्मबलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे । इत्यभिदधत्येव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः, तत्किमपरमहमेनमात्मतेजसा संतापयामि इत्युत्पन्नदय इव भगवास्तिग्मदीधितिरुत्तप्तकनकद्रवस्फुलिङ्गपिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहसम् । अस्तानुसारेण च रवे - *********** एवानुभवविषयीकरणीय एव । यथा चेति । दुःखस्यैकमद्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुर्घटा एवंविधा या घटना पदार्थानामन्योन्य संबन्धस्तत्र पण्डितस्य विबुधस्य । यत्किंचन यदेव तदेव करोतीत्येवंशीलस्य यत्किंचनकारिणः । निष्कारणं निर्निमित्तं कुपितस्य कोपं प्राप्तस्यास्य हत विधेर्दुष्टविधातुर्यथा सर्वतः सर्वत्र विसंस्थुलं विसदृशं समारम्भ निर्माण पश्याम्यवलोकयामि । तथेति । तेन प्रकारेणेति जानाम्याकलयामि । इतीति किम् । नेति । एतावतैतावत्कालं न स्थास्यति नावस्थानं करिष्यति । अन्यथेत्युक्तविपर्यये । निष्प्रयोजनेन निष्कारणेनाश्चमुखाः किंनरास्तेषामनुसरणेनानुगमनेनामानुषभूमिगमनं मनुष्यरहितक्षितौ यानम् । क्व क्वेति महदन्तरे । तत्रामानुषभूमौ तृषितस्य पिपासित स्याच्छोददर्शनं क्व । तत्रेति । तत्राच्छोदनाम्नस्तीरे विश्रान्तस्य गृहीतविश्रामस्यामानुषाः किंनरास्तेषां गीतध्वने यशब्दस्याकर्णनं श्रवणं क्व । तस्य ज्ञातुमिच्छा तज्जिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अवलोकनं निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन मद्गमनप्रस्तावो मदीययानावसरः क्व । महाश्वेतया सह साधु हेमकूटगमनं क्व । तत्र हेमकूटे देवीवदनदर्शनं कादम्बरीमुखावलोकनं क्व । अस्मिन् जने देव्याः कादम्बर्या रागोत्पत्तिः क्व । अपरिपूर्णमनोरथस्यापरिपूर्णाभिलाषस्य मे मम पितुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमननियोगः क्व । तदिति । तत्तस्माद्धेतोः सुदूरमत्युच्चैरारोप्यारोहणं कारयित्वा अनेनाकार्यकारिणाऽकृत्यकारिणास्माकं यत्कर्मबलं तस्य नियोगो व्यापारणं तत्र दक्षेण विबुधेन दग्धवेधसा ज्वलितधात्रा । खलु निश्चयेन वयं पातिता अधःस्थल प्रापिताः । तथापीति । तथाप्येवं सत्यपि देवीं संभावयितुमाश्चासयितुं प्रयतामहे प्रयत्नं कुर्महे । इत्यभिदधत्येवेति कथयत्येव चन्द्रापीडे नितरामतिशयेनायं चन्द्रापीडोऽनेन पूर्वोक्तेनैव कादम्बरीवृत्तान्तेन कुमारिकोदन्तेन संतापितः संताप प्रापितः । तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीयवर्चसा परं संतापयामि । इत्युत्पन्नदय इवेति संजातकृप इव भगवास्तिग्मदीधितिः सूर्यः करसहसं संजहारापससार । करसहसं विशेषयन्नाह - उत्तप्तेति । उत्तप्तमुष्णीकृतं यत्कनकं सुवर्णं तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला कपिला युतिः कान्तिर्यस्मिंस्तत्तथा । दिग्विकीर्णा विक्षिप्ता या धूर्जटिजटा ईश्वरसटास्तासां मण्डलं तदनुकारि तत्सादृश्यकरणशीलम् । अस्तेति । रवेः सूर्यस्यास्तानुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि - टिप्प० - 1 अपसारयामासेत्युचितम् । पाठा० - १ विसंस्थुलं. २ नैवायमेतावता. ३ अश्वमुखमिथुन. ४ तत्तीरे. ५ अनुराग. ६ पर. ७ पिङ्गलगलद्युति. ८ मण्डलाकारी. - - - - -- - - 522 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246