Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 141
________________ मुत्सष्टव्यम् । तच्चिराद्देवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां मे यातं प्राणसंधारणम् इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याब्रवीत् - 'चन्द्रमुखि, हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमार्तमप्रतीकारक्षममात्मना त्वदायत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव । तद्यदि मामात्मप्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशिरकराभ्याम्' इति । अहं तु तदाकर्ण्य धिगित्युत्तमाङ्गनिर्गतज्वालेव रोषानलेन निर्दहन्तीव तम्, उन्मिषद्वाष्पस्फुलिङ्गया दृष्ट्या तांतर्जयन्तीव, आपादतलादुत्कम्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षाक्षरमवदम् - आः पाप, कथमेवं वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम् ? अवशीर्णा वा न सहसधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ? मन्ये च न सन्त्येव तेऽस्मिञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं - *********** तत्तस्मात्कारणाच्चिराच्चिरकालेन देवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया पुनरवलोकनवाञ्छया दुःखादसातादुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे मम व्यर्थतां निष्फलतां यातं प्राप्तम् । इत्येवं विचिन्तयन्तीमेव ध्यायन्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवोचत् । किं तदित्याह - हे चन्द्रमुखि हे शशाङ्कमुखि, मामयं कुसुमशरः कामस्तस्य सहायः साहाय्यकारी चन्द्रमाः कुमुदबान्धवो हन्तुं व्यापादयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राणमनाथपनीश्वरमार्तं प्रपीडितमप्रतीकारक्षममप्रतिक्रियासहं मां रक्ष त्राहि । त्वदायत्तं जीवितं प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपस्विनां तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्पणेनात्र न संभावयसि न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां कामबाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापादितोऽस्मि । इति पूर्वोक्तमहं महाश्वेता तदाकर्ण्य श्रुत्वा धिगिति धिगस्त्विति उत्तमाङ्गाच्छिरसो निर्गता प्रादुर्भूता ज्वालार्चिर्यस्या एवंविधेव रोषानलेन क्रोधवह्निना तं वैशम्पायनं निर्दहन्तीव ज्वालयन्तीव उन्मिषन्तः प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । तदव्यक्ते नपुंसकम् । आतर्जयन्तीव तिरस्कुर्वन्तीव । आपादतलात्पादतलं मर्यादीकृत्योत्कम्पिता प्रचलिता गात्रयष्टिरञ्जयष्टिर्यस्याः सा तथा । आविष्टेव भूतगृहीतेव । आत्मानमपि स्वमप्यचेतयमानाज्ञायमाना क्रोधस्य क्रुध आवेगस्त्वरिस्तेन रूक्षाक्षरमसिग्धवर्णं यथा स्यात्तथावदमब्रवम् । आः पाप हे पापिष्ठ, एवं मां वदतो ब्रुवतः कथं ते तवोत्तमाङ्गे शिरसि न निपतितं वर्ज पविः, सहसधा सहसप्रकारेण जिह्वा रसना नावशीर्णा न शटिता, वाणी भाषा विह्वलतां विक्लवतां वा न गता, न नष्टानि वने प्रपलायितानि वाक्षराणि वर्णा वा । मन्येऽहं जाने च ते तवास्मिशरीरे देहे सकललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशकलक्षणानि न सन्त्येव एतदर्थे हेतुमाह - येनेति । येन कारणेनैवं वदन्ब्रुवन्नग्निना - - - -- - - - - - - - - - - - - - -- - - - - - - - - - - टिप्प० - 1 दुःखोत्तरं दुःखबहुलं, दुःखमुत्तरं (अनन्तरम्) वा यस्य, ईदृशं प्राणसंधारणमङ्गीकृतमपि व्यर्थतां यातम् । 2 'त्वदायत्तं मे जीवितम् । इत्येव पाठः । अन्यथा 'आत्मना' इति पदस्यान्वयो न घटेत । 'त्वदायत्तं मे इति व्यस्तपाठे तु 'अशरणादिविशिष्टं माम् आत्मना (स्वशरीरेण) रक्ष, इति पूर्ववाक्यान्चयः । 3 'तदातर्जनायेव (तस्य वैशम्पा० भर्त्सनायेव) आपादतलात् उत्कम्पितगात्रयष्टिः,' इति पाठः । पाठा० - १ चिरात्. २ अङ्गीकृत्य. ३ एवं, एव. ४ अप्रतीकाराक्षमम्. ५ त्वदायत्तं मे जीवितम्. ६ प्रसादेन. ७ शिशिरकिरणाभ्याम्. ८ झटिति, झगिति. ९ तर्जनायैव. १० हताश. ११ एवंवादिनस्तव नोत्तमाङ्गे. 614 कादम्बरी। कथायाम

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246