Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 135
________________ दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यसनिनी निर्लज्जा निघृणा च दुःश्रवणमपि श्रावयामि दुःखमिदम् । श्रूयताम् । केयूरकाद्भवद्गमनमाकर्ण्य विदीर्यमाणमनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम्, न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्कादम्बरीस्नेहपाशानपि छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवायाता, यावदत्र महाभागस्येव तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रणष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिदृष्टपूर्वोऽपि प्रत्यभिजाननिव, असंस्तुतोऽपि चिरपरिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरनिव, दुःखिताकारोऽपि - *********** स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसनमासक्तिर्यस्याः सा तथा निर्लज्जा निस्त्रपा निघृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमेतादृशमपि श्रावयामि श्रुतिगोचरीकारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थानमाकर्ण्य विदीर्यमाणं मनो मानसं यस्याः तया । स्फुटमानहृदययेत्यर्थः । मया महाश्वेतया चित्ररथस्य पितुर्मनोरथोऽभिलाषो न पूरितो न पूर्णीकृतः । नापि मदिराया मातुः प्रार्थना याञ्चा कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रियमिष्टमनुष्ठितमादरितम् । न चापि हृदयस्य चेतसो वल्लभो जनस्तस्य समागमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी वीक्षिता विलोकितेति हेतोरुत्पन्न प्रादुर्भूतं यदनेकगुणमुत्कृष्टं वैराग्यं विरागता तस्यासमन्ताद्गाढबन्धोऽत्युग्रग्रन्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्धितीयवार कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य चरणायासेवनायात्रैव गुम्फायामेव यावत् आयातागता तावत्, अत्र महाभागस्य भवतस्तुल्याकृति सदृशाकारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुखमुत्कम्यं मुखं यस्य स तमुत्प्लुतमुत्पतितमाबद्धं यल्लक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रणष्टमिव गतमिव किमपि किंचिदितस्ततोऽपि विलोकयन्तं पश्यन्तं ब्राह्मणयुवानमपश्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य नान्यस्मिन्दृष्टिर्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षेणावगच्छनिव, असंस्तुतोऽप्यपरिचितोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितोऽप्यसंभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिनेतादृश इव, अस्निग्धोऽप्यवत्सलोऽपि परवानिव पराधीन इव । 'परतन्त्रः पराधीनः परवानाथवानपि' इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मरन्निव किंचित्स्मृतिगोचरीकुर्वनिव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति सुखायते - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चित्ररथ-मदिरे कादम्बर्याः पिता च माता च । 2 यस्याः सा, ईदृश्यहमिति व्याख्यातव्यम् । 3 गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या बोद्धव्या । 4 उत्प्लुता बाष्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टिः) तया । 5 सुखं वेदयनिवेति सुखायमान इव, सुखं मम संजातमिति प्रकटयनिवेत्याशयः । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । पाठा० - १ निष्करुणापि. २ श्रूयताम्. ३ भवतो गमनम्। भवदागमनम्. ४ विदीर्णमानसा. ५ गृहात्प्रत्यागतस्य. ६ निवृत्ता. ७ भित्त्वा. ८ तुल्यवयसमाकृतिमन्तम्. HOBaaaaaaaaaaaaM कादम्बरी । MA कथायाम् )

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246