Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 133
________________ पत्रलेखासकाशान्मदागमनमुपलभ्य प्रथममेवापक्रान्तो येनावस्थानचिह्नमात्रेकमपि कथमपि नोपलक्ष्यते । निरुद्धोद्देश गतश्च क्वाप्यस्माभिरसावेवान्विष्टोऽपि न दृष्टः । तत्कष्टतरमापतितम् । वैशम्पायनमदृष्ट्वास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते । मे मन्मथशरविक्षिप्ताश्च कादम्बरीदर्शनमात्रालम्बनाः क्षणमपि विलम्बमन्तरीकर्तुमक्षमाः क्षामतया मा यासिषुः प्राणाः । सर्वथा विनष्टोऽस्मि, न दृष्टा देवी कादम्बरी, नापि वैशम्पायन' इति । एवमुत्पनिश्चयोऽप्यपरिच्छेद्यस्वभावत्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां तावत्पश्यामि । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाश्रमस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यसमायोगैमपनीय सर्पनिर्मोकपरिलघुनी घनोज्झिातज्योत्स्नाभिरामे परिधाय वाससी तथास्थितपर्याणमेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम । *********** व्यलोकयत् तदेति चेतसि चित्ते चकार निर्ममे । नियतं निश्चितमसौ वैशम्पायनः पत्रलेखायाः सकाशात्समीपान्मदागमनं चन्द्रापीडागमनमुपलभ्य प्राप्य प्रथममेवादावेवापक्रान्तो गतो येन कारणेनावस्थानचिह्नमात्रकमपि निवासज्ञापकाभिज्ञानमात्रमपि कथमपि महता कष्टेन नोपलक्ष्यते न ज्ञायते । निरुद्धोद्देशं निरुद्धप्रद्देशं गतश्च प्राप्तश्चासावेव वैशम्पायन एवास्माभिरन्विष्टोऽपि विलोकितोऽपि क्वापि न दृष्टो न दृक्पथमायातः । तत्तस्माद्धेतोः कष्टतरमतिकृच्छ्रमापतितमायातम् । तदेव प्रदर्शयन्नाह - वैशम्पायनेति । वैशम्पायनमदृष्ट्वानवेक्ष्यास्माठप्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते नोद्यमं कुर्वाते । मे मम मन्मथः कंदर्पस्तस्य शरैर्बाणैर्विक्षिप्ता नोदिताश्च प्राणा असवः गताः कथं नेत्याकाङ्क्षायामाह - कादम्बरीति । केवलं कादम्बरीदर्शनमेवालम्बनं येषां ते तथा । तद्दर्शनावलम्बनेन स्थिता इत्यर्थः । अन्तरा मध्ये क्षणमपि निमेषमात्रमपि विलम्बं कर्तुं विधातुमक्षमा असमर्थाः क्षामतया क्षीणतया मा यासिषुः प्राणाः । न विलोकिता देवी कादम्बरी न वैशम्पायन इति हेतोः सर्वथा सर्वात्मनाहं विनष्टो गतप्राय एवास्मि । एवमुत्पन्ननिश्चयोऽपि संजातनिर्णयोऽप्यपरिच्छेद्यस्वभावत्वादनावेद्यप्रकृतित्वात्प्रत्याशायाः प्रतिलिप्साया अस्य पूर्वोक्तवृत्तान्तस्य कदाचिदभिज्ञा वेत्री महाश्वेतापि भवत्येव । तत्तस्माद्धेतोस्तावदादौ तां महाश्वेतां पश्यामि विलोकयामि । ततस्तदनन्तरं यथायुक्तं यथोचितं प्रतिपत्स्येऽङ्गीकरिष्ये हृदये चेतसीत्यारोप्येत्याधाय तस्या महाश्वेताया आश्रमस्य गुम्फाया नातिदूरे नातिविप्रकृष्टे निवेशितं स्थापितं तुरगसैन्यमश्वबलं येनैवंभूतः सैन्यसमायोगं वाहिन्याः संबन्धमपनीय दूरीकृत्य सर्पस्याहेर्निर्मोकः कञ्चुकः । 'फणोऽहिकोशे तु निर्ध्वयनी निर्मोककञ्चुकाः' इति हैमः । तद्वत्परिलघुन्यगुरूणी, घनेन मेघेनोज्झिता त्यक्ता या ज्योत्स्ना चन्द्रिका तद्वदभिरामे मनोहरे वाससी वस्त्रे परिधायं परिधानं कृत्वा । अत्र वस्त्रद्वयग्रहणं देशाचारविशेषादेव मन्तव्यम् । यथा पूर्वं स्थापितं तथैव स्थितं पर्याणं पल्ययनं यस्यैवंभूतमेवेन्द्रायुधमश्चमारुह्यारोहणं कृत्वा महाश्वेताश्रममुपाजगामोपाययौ । - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत एव 'निरुद्देशम् (नास्ति उद्देशो यत्र तथा तत्) इत्युचितः पाठः । 2 'एवम् अस्माभिः अन्विष्टोपि न दृष्टः, इत्येव पाठः । 3 वाक्यादौ 'मे' इति प्रयोगोप्यवैयाकरणत्वम् । अतः मे इति पूर्वान्वयि, मे पादौ नोत्सहेते इति । 4 आशायाः स्वभावो न इदंतया निश्चेतुं शक्यः नानारूपा आशा भवतीत्याशयः । पाठा० - १ प्रथमतरम्. २ मात्रकमपि. ३ निरुद्देशम्. ४ कष्टम्, कष्टतमम्. ५ क्षामतयामी प्राणाः; क्षोभमवप्राणाः. ६ अपहाय. 606 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246