Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 91
________________ चिकुरहस्ताभिरुपगृहीतसुरभिकोमलजलाकाभिरनाश्यानचन्दनाङ्गरागहारिणीभिरिवलयमात्राभरणाभिरवतंसितबालशैवलप्रवालाभिमृणालतालवृन्तकर्पूरपटवासहरिचन्दनचन्द्रकान्तमणिदर्पणाद्युपकरणपाणिभिर्बह्वीभिर्वाराङ्गानाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य, निदानमिव शीतकालस्य, निवेशमिव वारिवाहानाम्, तिरस्कारमिव रविकिरणानाम्, हृदयमिव सरसः, सहायमिव हिमगिरेः, स्वरूपमिव जडिम्नः, आवासमिव विभावरीणाम्, प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् । तत्र चातिरम्यतया क्षुभितमकरध्वजोत्कलिकासहसविषमं जलासारशिशिरतया संधुक्षितसुहृद्वियोगानलं महासमुद्रमिव गम्भीरं तं दिवसमेकाकी कथंकथमपि स्वधैर्ययानपात्रेणालङ्घयत् । लोहितायमानातपे च सायाह्ने निर्गत्य बहुलगोमयोपलेपहरिते मन्दमन्दमारुता - *********** रहस्तः केशकलापो यासां ताभिः । आर्द्रत्वसाम्यदुप्रेक्षते - जलदेवताभिरिव जलाधिष्ठात्रीभिरिव - उपेति । उपगृहिताः स्वीकृताः सुरभयः कोमला मृदवो जलाकाः क्लिन्नवासांसि याभिस्तास्ताभिः । 'जला क्लिन्नवाससि' इत्यभिधानचिन्तामणिः । अनेति । अनाश्यानोऽशुष्को यश्चन्दनाङ्गरागचन्दनविलेपनं तेन हारिणीभी रुचिराभिः । हारेति । हारश्च वलये चेति द्वन्द्वः । केवले हारवलये हारवलयमात्रमाभरणमलकारो यासां ताभिः । अवेति । अवतसिताः शेखरीकृता बाला नव्याः शैवलप्रवालाः शैवलकिसलयानि याभिः । मृणालेति । मृणालानि बिसानि, तालवृन्तानि व्यजनानि, कर्पूरो हिमवालुका, पटवासः पिष्टातः, हरिचन्दनं चन्दनम्, चन्द्रकान्तमणयश्चन्द्रमणयः, दर्पणो मुकुरः, एत आदौ येषामेतादृशमुपकरणमुपस्करः पाणौ हस्ते यासां ताभिः । परीति । निदाघसमयस्योष्णकालस्य परिभवस्थानमिव पराभवस्थलमिव । शीतकालस्य शिशिरसमयस्य निदानमिव कारणमिव । वारिवाहानां मेघानां निवेशमिवाश्रममिव । रविकराणां सूर्यकिरणानां तिरस्कारमिव न्यक्कारमिव । हृदयमिति । सरसस्तटाकस्य हृदयमिव मध्यमिव । सहायमिव सखायमिव हिमगिरेस्तुहिनाचलस्य । क्वचित् ‘सहोदरमिव' इति पाठः । तत्र भ्रातरमिवेत्यर्थः । जडिम्नो जडतायाः स्वरूपमिव स्वलक्षणमिव । विभावरीणां रजनीनामावासमिव गृहमिव । दिवर वासरस्य प्रत्याघातमिव प्रहारमिव जलमण्डपमयासीदित्यन्वयस्तु प्रागेवोक्तः । तत्र चेति । तस्मिन्स्थलेऽतिरम्यतयातिमनोहरतयकाक्यसहायस्तं दिवसं कथंकथमपि महता कष्टेन स्वकीयं यद्धैर्यं तदेव यानपात्रं वाहनं तेनालङ्घयदुल्लङ्क्त्तिवान् । दिवसं विशेषयन्नाह - क्षुभितेति । क्षुभितं क्षुब्धं यन्मकरध्वजस्य कंदर्पस्योत्कलिकासहसमुत्कण्ठासहसं तेन विषम विकटं जलस्याम्भस आसारो वेगवदृष्टिस्तेन शिशिरतया शीतलतया संधुक्षितः प्रकटीकर्तुमारब्धः सुहृद्वियोगानलो मित्रविरहानलो येन स तम् । महासमुद्रमिव महाजलधिमिव गम्भीरं गभीरम् । विरहाकुलितचेतस्कत्वादप्राप्तप्रान्तमित्यर्थः । लोहितायमानो रक्तायमान आतप आलोको यस्मिन्नेतादृशे च सायाह्ने संध्यायां निर्गत्य गृहादहिरागत्य बहुलं दृढं यद्गोमयं छगणं तेनोपलेप उपलिम्पनं तेन हरिते नीले नीलवणे, मन्दं मन्दं यथा स्यात्तथा मारुतेन वायुनाहतस्ताडितोऽत - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 उपगृहीताः जलार्दिकाः (जलार्द्राः) पद्मपत्रतालवृन्तानि याभिरित्यर्थः । 'तथा जला पवनैर्न निर्ववी' इति माघः । 2 'सुहृद्वियोगौनिलम्' इत्येव पाठः । जलासारेण और्वः (वाडवः) अनल एव संधुक्ष्यते, न साधारणः । पाठा० - १ निवेशनम्. २ रविकराणाम्. ३ हिमगिरेः स्वरूपमिव. ४ हृदय. ५ वियोगौनिलम्. ६ कथमपि. (564) 564 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246