Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
वहंश्च तस्मादेव वासरादारभ्यैवमचेतित एव “ परापत्य कृतापक्रान्तेस्त्रपया पृष्ठतोऽनुगम्य बलाद्दत्तकण्ठग्रहः 'क्व परं पलाय्यते' इति वैशम्पायनस्य वैलक्ष्यमपनयामि, एवं तत्समागमसुखमनुभूय निष्कारणप्रसन्नामनघामतर्कितोपनतमदवलोकनोपजातहर्षविशेषां पुरस्ताद्गमनसिद्धये पुनर्महाश्वेतां पश्यामि एवं महाश्वेताश्रमसमीपे पुनःस्थापिताशेषतुरगसैन्यस्तया सहैव हेमकूटं गच्छामि, एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमधावितेनेतस्ततः कादम्बरीपरिजनेन प्रणम्यमानः प्रविश्य मदागमननिवेदनोत्फुल्लनयनेन सखीजनेनापह्रियमाणपूर्णपात्राम्, 'क्वासौ, केन कथितम्, कियद्दूरे वर्तते' इति तठप्रश्नोन्मुखीम्, तत्क्षणोत्पन्नया तापोपशान्त्या त्रपया च युगपदुरसि निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरणतामुपनयन्तीम्, आभरणतां नीतनि कर्मलिनीमृणालान्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभरणस्थानेषु धारयन्तीम्, तापोपशमार्पितहारमात्राभरणाम्, अत्युल्बणहरिचन्दनचर्चान्तरि -
**
वहंश्च गच्छंश्च तस्मादेवात्मगमनोपलक्षितादेव वासराद्दिनादारभ्यारम्भं कृत्वैवैतान्यग्रे वक्ष्यमाणान्यन्यानि तदितराणि च चिन्तयन्विमर्शयन्नचेतिता अज्ञाताः क्षुत्क्षुधा, पिपासा तृट् आतपो घर्मः, श्रम आयासः, उज्जागरो जागरः, एतेषां व्यथा पीडा येनैवंभूतो दिवारात्रार्वहर्निशेवावहदगच्छदिति दूरेणान्वयः । एतानि कानीत्यपेक्षायामाह - अचेतित इति । अचेतित एवाज्ञात एव परापत्य गत्वा त्रपया लज्जया कृता विहितापक्रान्तिरपक्रमणं येनैवंभूतस्य वैशम्पायनस्य पृष्ठतोऽनुगम्यानुगमनं कृत्वा बलाद्दत्तो विहितः कण्ठग्रहः कण्ठालिङ्गनं येनैवंभूतोऽहं परं केवलं क्व पलाय्यते कुत्र पलायनं क्रियत इति वैलक्ष्यं वैगुण्यमपनयामि दूरिकरोमि । एवं तस्य वैशम्पायनस्य समागमः संगमस्तस्मासुखं सौख्यमनुभूयास्वाद्य, निष्कारणमनिमित्तं प्रसन्नं विकसितं मनश्चेतो यस्याः सा तामनघां निष्पापामतर्कितमविचारितमुपनतं प्राप्तं यन्मदवलोकनं मद्वीक्षणं तेनोपजात उत्पन्नो हर्षविशेषोऽतिशायिप्रमोदो यस्याः सा तां पुरस्तादग्रे यद्गमनं तस्य सिद्धये । निर्विघ्नगमनायेत्यर्थः । पुनः पूर्वविशेषयोरित्युक्तेः पूर्वं प्रथमं महाश्वेतां पश्याम्यवलोकयामि । एवंप्रकारेण महाश्वेताया आश्रमसमीपे मुनिस्थानाभ्यर्णे पुनः स्थापितं न्यस्तमशेषं समग्रं तुरगसैन्यमश्वानीकं येनैवंभूतोऽहं तया महाश्वेतया सहैव सार्धमेव हेमकूटं हेमकूटाभिधानं नगं गच्छामि व्रजामि । एवंप्रकारेण तत्र नगे सोऽयं चन्द्रापीड इति मम प्रत्यभिज्ञानं तस्माद्यः संभ्रम आदरः । ' संभ्रमस्त्वादरे भये' इति कोशः । तेन प्रधावितेनोच्चैश्चलितेनेतस्ततः कादम्बर्याः परिजनेन परिच्छदेन प्रणम्यमानो नमस्क्रियमाणः प्रविश्य प्रवेशं कृत्वा । इतः कादम्बरीं विशेषयन्नाह - मदेति । ममागमनं तस्य निवेदनं कथनं तेनोत्फुल्ले विकसिते नयने यस्यैवंभूतेन सखीजनेनालिसमुदायेनापह्रियमाणं गृह्यमाणं पूर्णपात्रं पूर्णानकं यस्याः सा ताम् । 'उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्' इति हैमः । क्वासौ चन्द्रापीडः, केन जनेनेदं चन्द्रापीडसमागमनं कथितम्, कियद्दूरे वर्तत इति यत्तस्य जनस्य प्रश्ना नियोजनानि तत्रोन्मुखीमूर्ध्वाननाम् । तत्क्षणं तत्कालं युगपत्समकालमुत्पन्नया संजातया तापोपशान्त्या तप्त्युपशमेन त्रपया लज्जया चोरसि हृदये निहितं स्थापितं पद्मिनीपत्रं कमलिनीदलमपनीय दूरीकृत्योत्तरीयांशुकं संव्यानवस्त्रं तस्याञ्चलं प्रान्तप्रदेशं कुचयोः स्तनयोरावरणतामाच्छादनतामुपनयन्तीं प्रापयन्तीम् । आभरणतां भूषणतां नीतानि प्रापितानि कमलिन्याः सरोजिन्या मृणालानि बिसान्यपास्य दूरीकृत्य भूषणेभ्य आभरणेभ्योऽधिकामतिशायिनीं स्वस्वकीयं यच्छरीरं देहस्तस्य शोभा तामेव सर्वाभरणस्थानेषु समग्रभूषणस्थलेषु धारयन्तीं बिभ्रतीम् । तापोपशमार्थं तप्तिदूरीकरणार्थं अर्पितो दत्तः केवलं हा हारमात्रमाभरणं भूषणं यस्याः सा ताम् । अत्युल्बणमत्यु -
टिप्प० - 1 'दिवारात्रौ चाऽवहत्' इत्यस्य दिवा दिने रात्रौ चेत्यर्थ उचितः ।
पाठा० - १ परिपलाय्यते. २ नयनसखी. ३ निहित. ४ उपनीतानि. ५ मृणालानि.
592
कादम्बरी ।
कथायाम्
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246