Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
तलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नयन्तीम्, अङ्गलग्नानि शयनीयकृतकमलकुमुदकुवलयदलकिञल्कशकलानि पुलकोद्गमेनैवोपास्यन्तीम्, कपोलसङ्गिनी च मणिदर्पणे विलोक्यायास्थितां करेण कबरीमंसदेशे निवेशयन्तीम्, आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्तीम्, उत्सृष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुतभुजो निवृत्तिमावेदयन्तीम्, अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरीकुर्वन्तीम्, कादम्बरीमालोकयन्, दर्शनीयावलोकनफलेन चक्षुषी कृतार्थतां नयामि । एवं मदलेखां साञ्जलिप्रणामेन कण्ठग्रहेण संभाव्य, चरणपतिता पत्रलेखामुत्थाप्य, केयूरक पुनःपुनः परिष्वज्य निर्भरम्, एवं महावेतोपपादितोद्वाहमङ्गलस्त्वरितसखीवृन्दनिवर्तितवैवाहिकस्नानमङ्गलविधिर्भुव इव वर्षाभिषिक्तायाः करग्रहणं देव्या -
***********
त्कटं यद्धरिचन्दनं गोशीर्षचन्दनं तेन चर्चा पूजा तयान्तरिता व्यवहिता लावण्यशोभा येषामेवंविधान्यङ्गानि प्रतीकाः करेण परामर्शो मार्जन तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामतिशयेन विलोकनीयतां नयन्तीं प्रापयन्तीम् । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ इति प्राञ्चः । तथाङ्गलग्नानि शरीरसंबद्धानि यानि शयनीयकृतानि तलिनीकृतानि कमलं पद्मम्, कुमुदं घेतकमलम्, कुवलयमुत्पलम्, एतेषां दलानि पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलकोद्गमेनैव रोमाञ्चोद्गमेनैवापास्यन्ती निराकुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन तत्पातादिति भावः । 'घेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम्' इति हैमः । कपोलसङ्गिनीं च गल्लात्परप्रदेशलग्नां च कबरी वेणीमयथास्थितामयथास्थायिनी मणिदर्पणे रत्नादर्श विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेशयन्ती स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यैवंभूतेन नेत्रपुटाभ्यामावर्जितेनाहृतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानलस्तस्य संतापः संचरस्तस्मै जलाञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलिप्रदानेनैव सर्वथा तदभावः सूचितः उत्सृष्टशेषेण दूरीकृतावशेषेणाश्यानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्वसाम्याद् भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवळे निवृत्तिमुपशममावेदयन्ती कथयन्तीम् । निर्वाणवनेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं तस्य प्रसङ्गेनैव संबन्धेनैव कुसुमशय्यां पुष्पशयनीयं दूरीकुर्वन्ती निराकुर्वन्तीमहमेतादृशीं कादम्बरीमालोकयन्पश्यन्दर्शनीयस्यावलोकनीयस्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां नयामि प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजनादिकृतनमस्कारेण कण्ठग्रहेण कण्ठश्लेषेण मदलेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुनरिवार परिष्वज्यालिङ्गय एवं महाश्वेतयोपपादितं विहितमुद्वाहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्रं सखीवृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उदाहसंबन्धी स्नानमङ्गलविधिर्यस्यैवंभूतो वर्षाभिषिक्ताया जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निवर्तयामि करोमि । एवं पूर्वोक्तप्रकारे -
- - - - - - - - -- टिप्प० - 1 प्रतीकान् इत्युचितम् । 2 अशयनानि (अतथाभूतान्यपि) शयनानिकृतानि इति शयनीकृतानी तल्पीकृतानि इति पाठः । 3 परं मूलग्रन्थे 'कुर्वतीम् इत्येवास्ति, नान्यथेति बोध्यं विद्यार्थिभिः । 4 सखीपदस्वारस्येन किं न ज्ञायते यत् - 'सखीवृन्देन निर्वर्तितो वैवाहिकसानमङ्गलविधिर्यस्याः तथाभूतायाः कादम्बर्याः' इति पाठानुसारी अर्थ उचितः ? पाठा० - १ शयनीकृत. २ कुवलयकिजल्क; किञ्जल्ककुवलयदल. ३ अपश्यन्तीम्. ४ कपोलसङ्गिनीम्. ५ मणिदर्पणेनालोक्य. ६ उपस्थिताम्. ७ कृतार्थयामि. ८ च संभावयामि. ९ संभाव्य. १० पुनः. ११ विधेः. १२ करग्रहणं निर्वर्तयामि.
-
-
-
-
-
-
-
-
-
मार्गे गच्छतश्चन्द्रापीडस्य भावनाः
उत्तरभागः।
593
Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246