Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 115
________________ उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्, अहितसहसोद्धरणेनैवातिदुरुद्धरम् अपि च समवृत्तितयैवातिविषमम्, अनेकतीर्थकल्पनयैव दुरवतारम्, कॅण्टकशोधनेनैव दुर्ग्रहम्, अखिलप्रजापालनव्यवहारेणैव दुःपालम्, नोविक्रान्ते नामहोत्साहे नाप्रियवादिनि नासत्यसंधे नाप्राज्ञे नाविवेकिनि नाकृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्मरुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्रवत्सले नावश्यात्मनि नानिर्जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्च - - - प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहितानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्धदुःखेनोद्धर्तुं शक्यम् । पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । समाऽविषमा या वृत्तिर्वर्तनं तयैवातिविषमं कठिनम् । तस्याः कर्तुमशक्यत्वादिति भावः । इयं विशेषोक्तिः । अनेकानि यानि तीर्थान्युपायास्तेषां कल्पनं प्रयोगस्तेनैव दुःखेनावतीर्यत इति दुरवतारम् । दुस्तरमित्यर्थः । 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति हलायुधः । 'तीर्थं योनौ जलावतारे च' इत्यमरः । अनेकजलावतरणेनैव नद्यादि सूत्तरं भवति । इदं तु दुरुत्तरमिति विशेषोक्तिः । कण्टकाः खलास्तेषां शोधनेन दूरीकरणेन दुर्ग्रहं दुःखेन ग्रहीतुं शक्यम् । अखिलः समग्रा याः प्रजा जनपदवासिनो लोकास्तासां पालनं रक्षणम् । एतदेव व्यवहारो व्यवसायस्तेनैव दुःपालं दुःखेन पालयितुं योग्यं राज्यमेतादृशेषु पुरुषेषु पदं स्थानमादधाति करोतीत्यन्वयः । आङ्पूर्वस्य दधातेः करणार्थत्वादित्यर्थः । ' पदे व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तानेवाह - नाविक्रान्त इत्यादि । विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रान्तस्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । महा विद्यते यस्मिन्स महोत्साहस्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्रियवादी तद्धिन्नोऽप्रियवादी तस्मिन् । कटुकभाषिणीत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्संधास्थाभ्युपायः' इति हैमः । तद्भिन्नोऽसत्यसंधस्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्तद्भिन्नोऽप्राज्ञस्तस्मिन् । मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी तस्मिन् । सदसद्व्यत्यस्तकारिणीत्यर्थः । कृतं जानातीति कृतज्ञस्तद्भिन्नोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहृतिर्व्यवसायो यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्यवहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग्विभजनं संविभागस्तस्य शीलं स्वभावों यस्मिन्स संविभागशीलस्तद्भिन्नोऽसंविभागशीलस्तस्मिन् । यथोचितानर्पक इत्यर्थः । अन्यायोऽनीतिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् । न्यायवर्जित इत्यर्थः । न विद्यते धर्मरुचिर्यस्य सोऽधर्मरुचिस्तस्मिन् । सर्वथा पापकारिणीत्यर्थः । न शास्त्रेण कामन्दक्यादिना व्यवहरतीत्येवंशीलोऽशास्त्रव्यवहारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः । न शरणाय योग्योऽशरण्यस्तस्मिन् । अत्रायक इत्यर्थः । न ब्रह्मनिष्ठोऽब्रह्मण्यस्तस्मिन् । ब्राह्मणाहितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोऽकृपालुस्तस्मिन् । दयावर्जित इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं स्निग्धत्वं यस्येत्यमित्रवत्सलस्तस्मिन् । वयस्यहितवर्जित इत्यर्थः । न वश्य आत्मा यस्येति सोऽवश्यात्मा तस्मिन् । अनियन्त्रितात्मनीत्यर्थः । अनिर्जितान्यवशीकृतानीन्द्रियाणि येन सोऽनिर्जितेन्द्रियस्तस्मिन् । अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्यसेवकस्तस्मिन् । सपर्यावर्जित इत्यर्थः । कस्मिन्राज्यं पदं दधातीत्याशयेनाह - यः खल्विति । खलु निश्चये । यः पुमान्समग्रैः सकलैर्गुणैः क्षान्त्यादिभि टिप्पo - 1 नातिमृदुर्नातितीक्ष्णा च । 2 अपि च समवृत्तित्वेऽपि विषमतेति विरोधः । 3 'दुष्पालम्' । इत्यस्याग्रे 'सर्वाशाप्राप्त्यैव' इत्यादिः पाठो यः पाठान्तरेषु धृतोऽवश्यं दृश्यः । - पाठा० - १ दुर्धरम्. २ कटक. ३ व्यापारेण. ४ दुःपालनम्; दुष्पारम्; दुष्पाल्यम्. ५ सर्वाशाप्राप्त्यैव च दुष्प्रापम्, नामहासत्त्वे नास्थिरप्रकृतौ नादातरि नास्थूललक्ष्ये नाशुचौ नाविक्रान्ते नातिक्रान्ते. ६ अप्रज्ञे. ७ नापुरुषान्तरज्ञे. ८ अनियतेन्द्रिये. 588 कादम्बरी । कथायाम

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246