Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 56
________________ श्रुत्वा समुच्छसितचेताश्चकार चेतसि - 'अहो धन्योऽस्मि । अहो विधेर्भगवतोऽनुग्राह्योऽस्मि, यस्य मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । प्रहर्षपरवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रणाम केयूरकमवादीत् - 'केयूरक, करतलवर्तिनी सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः' इति । स तु तदाकर्ण्य गमनपरिलम्बकृतया चिन्तयान्तःशून्य एव 'भद्रकमापतितम्, महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिदधदेवोपसृत्योपविश्य पार्थे, वैशम्पायनागमनालापमेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् - 'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहकोब्राहम्, उपारूढश्यामिका मेघलेखेव सलिलागमनम्, उपदर्शितपाण्डुच्छविः प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्लसितरागा पल्लवोद्गतिरिव कुसुमनिर्गमम्, विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेयमावेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा - *********** श्रुत्वाकर्ण्य समुच्छसितमुल्लसितं चेतः स्वान्तं यस्यैवंविधश्चेतसि चित्ते चकार कृतवान् । इतीति शेषः । तदेव दर्शयन्नाह - अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो महात्म्यवतो विधेर्विधातुरनुग्राह्योऽनुग्रहविषयीकरणयोग्योस्मि । तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रापीडस्यानुध्यानानन्तरमेवानुस्मरणानन्तरमेव द्वितीयं हृदयं वैशम्पायनो मन्त्रिपुत्रः परागतः समायातः । अमुना प्रकारेण प्रहर्षपरवशः प्रमोदपरतन्त्रः । च पुनरर्थे । प्रविशन्तं प्रवेशं कुर्वन्तं दूरत एव दविष्टप्रदेशादेव कृतप्रणामं विहितनमस्कार केयूरकमालोक्य निरीक्ष्येत्यवादीदिदमब्रवीत् । इतिवाच्यमाह - केयूरक इति । हे केयूरक, अधुना सांप्रतं करतलवर्तिनी हस्ततलगतां सिद्धिं कार्यनिष्पत्तिमवधारय जानीहि । यतो वैशम्पायनः प्राप्तः समागतः । स त्विति । स केयूरकस्तत्पूर्वोक्तमाकर्ण्य निशम्य गमनस्य यात्रायाः परिलम्बो विलम्बस्तेन कृतयोत्पादितया चिन्तयाान्तःशून्य एव 'भद्रकं कल्याणमापतितं संजातम् । देवस्य भवतो महत्यत्यायता हृदयनिवृतिश्चित्तसंतुष्टिर्जाता ।' इत्यभिदधदेवेति कथयन्नेवोपसृत्योपसरणं कृत्वा पार्थेऽन्तिक उपविश्यास्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुबध्यारभ्य संज्ञयोत्सारितो दूरीकृतः समस्तपरिजनः समग्रसेवकजनो येनैवंभूतं चन्द्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचक्रे । देव इति । हे देव हे स्वामिन्, इयमवस्थैव निःसंशयं निरारेक देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः । केवेत्यपेक्षायामाह - सर्वत इति । बलाहकस्य मेघस्योबाहमागमनं सर्वतोऽभितो विस्फुरन्ती देदीप्यमाना तडिदिव विद्युदिव । आवेदयतीत्यस्य सर्वत्र संबन्धः । तथा सलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका ययैवंविधा मेघस्य लेखा पङ्क्तिरिव । तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्वी छविः कान्तिर्ययैवंविधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामाद गलातीत्येवंशीला मलयानिलस्य मलयाचलवायोरागतिरिवागमनमिव । तथा पल्लवस्य किसलयस्योद्भेदमुद्गमनं समुच्छसितो वृद्धिं प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव । तथा कुसुमस्य पुष्पस्य निर्गमं निःसरणमुल्लसित उल्लासं प्राप्तो रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव । तथा शरदारम्भं घनात्ययप्रारम्भ विकलिता विनिद्रिता काशकुसुममञ्जरीव । इयमवस्थैव देवस्य गमनं यानमावेदयतीत्यन्वयस्तु प्रागेवोक्तः । अवश्यं चेति । देवस्य स्वामिनोऽवश्यं निश्चयेन देवीप्राप्त्या भवितव्यम् । अवार्थ उपपत्तिमाह - केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्स्नारहितश्चन्द्रिकावर्जितश्चन्द्रमाः कुमुदबा - पाठा० -१ प्राप्तो हि. २ गगन. ३ उन्नादम्. ४ अभ्युच्छ्रित. ५ रागपल्लव. ६ आवेदयति देवस्य. (वैशम्पायनस्यागमनश्रवणम् । । उत्तरभागः।। 529

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246