Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 66
________________ विलासवतीमूर्ध्वस्थित एवावादीत् - 'देवि, पश्यैषा त्वमपि वधूमुखावलोकनसुखस्य कृते न ताम्यसीत्युपालभमाने देवीम्, वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलसितनिवर्तनाज्ञा, विजृम्भमाणा श्मश्रुरांगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याप्यपहरसि वदनमन्यतो व्रीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा च' इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरंगमत् । चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीरस्थितिर्वेशम्पायनप्रत्युद्गमनसंविधानविनोदेनैव तं दिवसमनयत् । अवतीर्णायां च तस्यां यामिन्यां सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं - *********** सवतीमूर्ध्वस्थित एव शुकनासोऽवादीदब्रवीत् । किमवादीदित्याह - देवीति । हे देवि हे स्वामिनि, पश्य विलोकय । एषा विलासवती त्वमपि भवत्यपि वधूमुखस्यावलोकनसुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि न खेदं करोषि । इति देवी विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियत इति सर्वसंमतम् । आवयोः शुकनासराज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनस्याज्ञेव आज्ञा । अत्र सर्वत्र रूपकम् । एवंविधा विजृम्भमाणा विस्तारं प्राप्यमाणा श्मश्रुरागशोभा कूर्चरागच्छविर्विवाहलक्षणं यन्मङ्गलं शुभक्रिया तस्य संपादनाय करणायादिशति कथयति । त्वं विलासवत्यपरमन्यत्किमादिशसि कथयसीति प्रष्टव्या पृच्छाविषयीकार्या । तत्तस्माद्धेतोः कथ्यमानेऽऽप्युच्यमानेऽपि किमप्यपरमन्यदेवी किमादिशतु किं कथयतु । अद्यापि वीडया लज्जयान्यतो वदनं मुखमपहरसि तिर्यग्मुखं स्थापयसि । पृष्टा वा पृच्छाविषयीकृता वा कर्तव्यं कृत्यं नाज्ञापयसि नाज्ञां ददासि । त्वं वरमाता संवृत्ता जातासि । अहं जानाम्याकलयाम्येषा चन्द्रापीडस्योपर्यप्रीतिररुचिः, यदेवमेतत्कार्येषु पूर्वोक्तकृत्येष्वनादरोऽनुत्साहोऽवधीरणावज्ञा च । एवंविधैरेतादृशैर्नर्मप्रायैर्वर्करसदृशैः । 'बर्करः पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभाषणैः सुखायमानं सुखकृच्चेतो यस्यैवंविधश्चिरमिव चिरसदृशं स्थित्वा शरीरस्थितेतेहस्थितेः संपादनं करणं तस्मै निरगमनिर्ययौ ।। चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु स्वमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं मोचयित्वा मोक्षणं कारयित्वा जननीभवन एव मातृगृह एव निर्वतिता निष्पादिता शरीरस्थितिदेहधारणात्मिका येन स वैशम्पायनप्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अवतीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । 'सुहृदुईदौ मित्रामित्रयोः इति निपातः । तस्य दर्शनमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एव समधिकमिवंसमधिकसदृशं यामद्वयं प्रहरयुग्म स्थित्वावस्थानं कृत्वा चन्द्रपादैः शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्मथस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीडो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनि - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 आवयोः तव (राज्याः) मम चेत्यर्थः । 2 परिहासबहुलैरित्येवार्थः समुचितः । परिहासस्त्वत्र - चन्द्रापीडस्योपरि तवाऽप्रीतिरित्युक्त्वा उभयोः प्रणयकलहोत्पादनरूपः । 3 अगमयदित्यर्थ उचितः । 4 किञ्चिदधिकं यामद्वयमित्याशयः । पाटा० - १ देव. २ त्वमपि च. ३ उत्ताम्यसि. ४ एव. ५ विलसितेच्छाविनिवर्त. ६ राजि. ७ निरगात्. (चन्द्रापीडस्यौत्सुक्यम् । । उत्तरभागः।। (539) 539

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246