Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 19
________________ जइ - जीयकप्पो इहाङ्गुलशब्देन माससङ्केतः । ततश्च-पञ्चके दिनपञ्चके छेद्ये अङ्गुलषड्भागच्छेद्य इति व्यपदिशन्ति । भवन्ति हि त्रिंशद्दिनमानस्य मासस्य षड्भागे छेद्ये पञ्च, दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वर्द्धम् , विंशतौ छेद्यायां त्रिभागोनमङ्गुलम्, पञ्चविंशतौ छेद्यायां षड्भागोनमङ्गुलं छेद्यमिति । एकद्वित्रिचतुष्पञ्चषडादिमासेषु छेद्येषु तत्सङ्ख्यान्यङ्गुलानि छेद्यानीति निर्दिशन्ति । एते छेदविभागाः क्रमेण ज्ञातव्याः । सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधवो व्रतस्य मूलम् अष्टमप्रायश्चित्तभाजो भवन्तु । तस्याऽप्ययोग्यतायां अव्यापृता वा गच्छेयुरव्यापाराः सन्तिष्ठन्तु-अनवस्थाप्यारे भवन्त्वित्यर्थः । तेनाऽप्यशुद्धौ अद्वितीया वा विहरन्तु एकाकिनः सन्तो दशमप्रायश्चित्ताऽऽसेविनो भवन्तु इति । दपिकासेवनाप्रायश्चित्तान्युक्तानि। कल्पिकासेवनायाः प्राहबिइअस्स य कज्जस्सा तहिअं चउवीसयं निसामित्ता । आउत्तनमुक्कारा भवन्तु एवं भणिज्जाहि' ।। (व्य०सू० ४४८१, जी०भा० ६५२, गु०वि० २/२६ टीकान्तर्गतगाथा) द्वितीयस्य कार्यस्य कल्पिकासेवनाख्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराहआयुक्ताः संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवन्तु सूरयोऽप्रायश्चित्तेन इति भावः । नवरं- कारणपडिसेंवावि हु सावजा निच्छए अकरणिज्जा' । किं सर्वथा ? नेत्याह- बहुसो वि आरइत्ता' कर्त्तव्येतिशेषः। अधारणिज्जेसु अत्थेसु' अत्यागाढकारणेष्वित्यर्थः । जइवि अ समणुण्णाया' प्रक्रमात् सावद्यप्रतिसेवा । सहवि अ दोसो न वज्जणे दिट्ठो' पढधम्मया हु एवं नाभिक्खनिसेव निद्दयया'। एअं नाऊण तहिं जहोवएसेण देइ पच्छित्तं । आणाइए स भणिओ ववहारो धीरपुरिसेहिं' ।। (व्य०सू० ४४८२, जी०भा० ६५३) एवं द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं तस्य प्रतिसेवकस्य ज्ञात्वा यथोपदेशेन गूढपदैः प्रायश्चित्तं ददाति । कोऽर्थः ? तस्य शिष्यस्याऽग्रे कथयित्वा लिखित्वा वा समर्प्य प्रेषयति । एष आज्ञाव्यवहारः । धारणाव्यवहारस्तु संविग्नेन गीतार्थेणाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तद् दृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृश्येवाऽपराधे तदेव प्रायश्चित्तं ददाति । एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः सर्द्धकपतेर्वा प्रवर्तकस्य संविग्नस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धृतानि प्रायश्चित्तपदानि कथयति । स तान्यवधार्योद्धृतपदालोचनां ददाति स धारणाव्यवहारः । उक्तं चगीअत्थेणं दिन्नं सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा सा उद्धिअपयधरणरूवा वा' ।। (प्र०सा० ८५८)

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 226