________________
जइ - जीयकप्पो इहाङ्गुलशब्देन माससङ्केतः । ततश्च-पञ्चके दिनपञ्चके छेद्ये अङ्गुलषड्भागच्छेद्य इति व्यपदिशन्ति । भवन्ति हि त्रिंशद्दिनमानस्य मासस्य षड्भागे छेद्ये पञ्च, दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वर्द्धम् , विंशतौ छेद्यायां त्रिभागोनमङ्गुलम्, पञ्चविंशतौ छेद्यायां षड्भागोनमङ्गुलं छेद्यमिति । एकद्वित्रिचतुष्पञ्चषडादिमासेषु छेद्येषु तत्सङ्ख्यान्यङ्गुलानि छेद्यानीति निर्दिशन्ति । एते छेदविभागाः क्रमेण ज्ञातव्याः ।
सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधवो व्रतस्य मूलम् अष्टमप्रायश्चित्तभाजो भवन्तु । तस्याऽप्ययोग्यतायां अव्यापृता वा गच्छेयुरव्यापाराः सन्तिष्ठन्तु-अनवस्थाप्यारे भवन्त्वित्यर्थः । तेनाऽप्यशुद्धौ अद्वितीया वा विहरन्तु एकाकिनः सन्तो दशमप्रायश्चित्ताऽऽसेविनो भवन्तु इति । दपिकासेवनाप्रायश्चित्तान्युक्तानि। कल्पिकासेवनायाः प्राहबिइअस्स य कज्जस्सा तहिअं चउवीसयं निसामित्ता । आउत्तनमुक्कारा भवन्तु एवं भणिज्जाहि' ।।
(व्य०सू० ४४८१, जी०भा० ६५२, गु०वि० २/२६ टीकान्तर्गतगाथा) द्वितीयस्य कार्यस्य कल्पिकासेवनाख्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराहआयुक्ताः संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवन्तु सूरयोऽप्रायश्चित्तेन इति भावः ।
नवरं- कारणपडिसेंवावि हु सावजा निच्छए अकरणिज्जा' । किं सर्वथा ? नेत्याह- बहुसो वि आरइत्ता' कर्त्तव्येतिशेषः। अधारणिज्जेसु अत्थेसु' अत्यागाढकारणेष्वित्यर्थः । जइवि अ समणुण्णाया' प्रक्रमात् सावद्यप्रतिसेवा । सहवि अ दोसो न वज्जणे दिट्ठो' पढधम्मया हु एवं नाभिक्खनिसेव निद्दयया'। एअं नाऊण तहिं जहोवएसेण देइ पच्छित्तं । आणाइए स भणिओ ववहारो धीरपुरिसेहिं' ।।
(व्य०सू० ४४८२, जी०भा० ६५३) एवं द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं तस्य प्रतिसेवकस्य ज्ञात्वा यथोपदेशेन गूढपदैः प्रायश्चित्तं ददाति । कोऽर्थः ? तस्य शिष्यस्याऽग्रे कथयित्वा लिखित्वा वा समर्प्य प्रेषयति । एष आज्ञाव्यवहारः । धारणाव्यवहारस्तु संविग्नेन गीतार्थेणाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तद् दृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृश्येवाऽपराधे तदेव प्रायश्चित्तं ददाति । एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः सर्द्धकपतेर्वा प्रवर्तकस्य संविग्नस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धृतानि प्रायश्चित्तपदानि कथयति । स तान्यवधार्योद्धृतपदालोचनां ददाति स धारणाव्यवहारः । उक्तं चगीअत्थेणं दिन्नं सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा सा उद्धिअपयधरणरूवा वा' ।।
(प्र०सा० ८५८)