________________
जइ - जीयकप्पो गाथे स्पष्टार्थे । नवरं- भावकरणसच्चं च' त्ति । भावसत्यं शुद्धान्तरात्मतारूपं पारमार्थिकाऽवितथम्, करणेन सत्यं करणसत्यं यथोक्तप्रतिलेखनादिक्रियाकरणम् । इह व्रतषट्कं कायषट्कं च १२ मूलगुणाः, शेषाः १५ उत्तरगुणाः । तत्रोत्तरगुणविराधनामाश्रित्य शुक्ले मासे तपः कुरुत । चातुर्मासिकं तपः कुरुत, पाण्मासिकं तपः कुरुत । शुक्ले इति । अयमभिप्रायः-उत्तरगुणविराधनायां शुक्लशब्दवाच्यान्युद्घातिमानि मासिकचातुर्मासिक-पाण्मासिकानि प्रायश्चित्तानि कार्याणि । मूलगुणातिचारे तु कृष्णशब्दवाच्यान्यनुद्घातिमानि तान्येवेति । तथा चएवं तावुग्धाए अणुघाए ताणि चेव कण्हंमि । मासचउमासछम्मासिआणि छेअं अओ वुच्छं' ।।
(व्य० सू० ४४७४, जी०भा० ६४४) तत्रोद्घातो भागपातस्तेन निर्वृत्तान्युद्घातिमानि भावादिम' (सिव्हे०६।४।२१) इतीमः-लघूनीत्यर्थः । तद्विपरीतान्यनुद्घातिमानि गुरूणीत्यर्थः । उपलक्षणं चैतन्मासिक-चातुर्मासिक-पाण्मासिकानि । अन्यथा पञ्चकादीनि षाण्मासिकान्तानि प्रायश्चित्तानि भवन्ति । तानि च सर्वाण्यपि लघूनि गुरूणि च । तत्स्वरूपं चाग्रे वक्ष्यति अद्धेण छिण्णसेस' मित्यादिना। इह तीर्थे उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्ध्यर्थं तपो भवति । अत एवोक्तं- मासचउमासछम्मासिआणि छेअंअओ वुच्छं' यश्चैतावता तपसा न शुद्ध्यत्यतस्तच्छुद्ध्यर्थं छेदादीन् वक्ष्ये । अन्यत्राऽप्युक्तम्उस्सग्गेण उ सुज्झइ अइयारो कोइ कोइ उ तवेणं । तवसा असुज्झमाणे छेअविसेसावि सोहंति' ।। छेदादयोऽप्याऽऽज्ञाव्यवहारत्वात् गूढपदैरेवोच्यन्ते । छिन्दित्तु तयं भाणं गच्छंतु वयस्स साहूणो मूलं । अब्बावडा व गच्छे अब्बीआ वावि विहरंतु' ।।
(व्य०सू० ४४७८, जी०भा० ६४९, गु०वि० २/२६ टीकान्तर्गतगाथा) तद्धाजनं पूर्ववतपर्यायरूपं छिन्दन्तु तन्मध्यात् कियन्तमपि पर्यायमपनयन्तु-उत्सारयन्त्वित्यर्थः । स च छेदस्तपोभूमिमतिक्रान्तस्य पञ्चदशकादिरूपतया तत्तदतिचाराऽपेक्षया यावत् पर्यायः प्राप्यते तावत् क्रियते । यदाहउक्कोसं तवभूमि समईओ सावसेसचरणो अ। छेअं पणगाईअं पावइ जा धरइ परिआओ' ।। ते चैवं छेदविभागाःछन्भागंगुल पणगे दसराए तिभाग अद्ध पन्नरसे । वीसाइ तिभागूणं छन्भागूणं तु पणवीसा' ।। मासचउमासछक्के अंगुलचउरो तहेव छक्कं तु । एए छेअविभागा नायबा अहक्कमेणं तु' ।।
___ (व्य०सू० ४४७९-४४८०, गु०वि० २/२६ टीकान्तर्गतगाथे) A. लघु । B. गुरु । c. षोडशप्रकारायास्तपोभूमेरतिक्रान्तस्य साधोः ।