________________
जइ - जीयकप्पो एते चत्वारो व्यवहाराः । पञ्चमस्तु जीतव्यवहारः येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत् समयभाषया जीतमुच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितम्, अन्यैश्च बहुभिरनुवर्तितं तज्जीतम् , तस्य जीतस्य व्यवहारो जीतव्यवहारः । स चायम् - . वत्तणुवत्तपवत्तो बहुसो आसेविओ महाणेण । एसो हु जीअकप्पो पंचमओ होइ नायब्बो' ।।
(व्य०सू० ४५०२, जी०भा० ६७५) वृत्तः पात्रबन्धग्रन्थिदानादिक एकदा नवो जातः, ततोऽनुवृत्तः पुरुषान्तरं यावत्, ततः प्रवृत्तः पुरुषप्रवाहेण । अत एव बहुश आसेवितो महाजनेन बहुश्रुतनिवहेन । भाष्यकृताप्युक्तम्वत्तो नाम एक्कसि, अणुवत्तो जो पुणो बिइअवारे । तइअवारपवत्तो सुपरिग्गहिओ महाणेण' ।। बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवइ एयं' ।। एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः । इह पञ्चसु व्यवहारेषु सत्सु आगमव्यवहारिभ्य एव प्रायश्चित्तमादेयम्, आगमव्यवहारिणो ह्यतिशयिनः सङ्क्लिश्यमानम्, विशुद्ध्यमानम् अवस्थितपरिणामं वा ज्ञात्वा श्रुतादधिकं हीनं वा तन्मात्रं वा तावद्ददति यावता शुद्ध्यति । न श्रुतमनुरुध्यन्ते । तदभावे श्रुतव्यवहारिभ्यो ग्राह्यम् । ते हि श्रुतमनुवर्त्तमाना इङ्गिताकारनेत्रवक्त्रवचनविकारैः भावं-संवेगाद्युपलक्ष्य त्रीन् वारानतीचारालोचनां कारयित्वा परिकुञ्चितमपरिकुञ्चितं वा ज्ञात्वा श्रुतोक्तं प्रायश्चित्तं ददति । तथाविधाऽऽसन्नश्रुतधराभावे आज्ञाव्यवहारेण दूरस्थानामपि गीतार्थाऽऽचार्याणां पार्थात् प्रायश्चित्तमानाययितव्यम्। तेषामप्यभावे श्रुतधरपाविधारितप्रायश्चित्तपदेभ्यो धारणाव्यवहारिभ्यो ग्राह्यम् । ते च द्वयेऽपि श्रुतोक्तप्रदत्वात् श्रुतव्यवहारकल्पा एव । सर्वेषां चैषामप्राप्तौ जीतेन व्यवहारः । जीतं श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारः । अयं सर्वत्र यावत्तीर्थं भवति ।।१।। एष च ग्रन्थः प्रायश्चित्तप्ररूपणार्थमेवोपक्रान्तस्ततः प्रायश्चित्तप्राधान्यख्यापनार्थं गाथाद्वयमाह
संवरविणिज्जराओ मुक्खस्स पहो तवो पहो तासिं । तवसो अ पहाणंगं पच्छित्तं जं च नाणस्स ।।२।। सारो चरणं तस्स वि निव्वाणं चरणसोहणत्थं च ।
पच्छित्तं तेण तयं नेयं मुक्खत्थिणाऽवस्सं ।।३।। व्याख्या-संवरणं संवर आश्रवद्वारप्रविशत्कर्मनिरोधः । आश्रवश्च मिथ्यादर्शनाऽविरतिकषायप्रमादकायवाङ्मनोयोगाः । तत्र मिथ्यादर्शनं प्रतीतम् । अविरतिः प्राणातिपातादीनामनिषेधः । कषायाः क्रोधादयः।